|| नारायण कवचम् || न्यासः अंगन्यासः ॐ ॐ पादयोः नमः । ॐ नं जानुनोः नमः । ॐ मों ऊर्वोः नमः । ॐ नां उदरे नमः । ॐ रां हृदि नमः । ॐ यं उरसि नमः । ॐ णां मुखे नमः । ॐ यं शिरसि नमः । करन्यासः ॐ ॐ दक्षिणतर्जन्यां नमः । ॐ नं दक्षिणमध्यमायां नमः । ॐ मों दक्षिणानामिकायां नमः । ॐ भं दक्षिणकनिष्ठिकायां नमः । ॐ गं वामकनिष्ठिकायां नमः । ॐ वं वामानिकायां नमः । ॐ तें वाममध्यमायां नमः । ॐ वां वामतर्जन्यां नमः । ॐ सुं दक्षिणांगुष्ठोर्ध्वपर्वणि नमः । ॐ दें दक्षिणांगुष्ठाधः पर्वणि नमः । ॐ वां वामांगुष्ठोर्ध्वपर्वणि नमः । ॐ यं वामांगुष्ठाधः पर्वणि नमः । विष्णुषडक्षरन्यासः ॐ ॐ हृदये नमः । ॐ विं मूर्ध्नै नमः । ॐ षं भ्रुर्वोर्मध्ये नमः । ॐ णं शिखायां नमः । ॐ वें नेत्रयोः नमः । ॐ नं सर्वसंधिषु नमः । ॐ मः प्राच्यां अस्त्राय फट् । ॐ मः आग्नेय्यां अस्त्राय फट् । ॐ मः दक्षिणस्यां अस्त्राय फट् । ॐ मः नैऋत्ये अस्त्राय फट् । ॐ मः प्रतीच्यां अस्त्राय फट् । ॐ मः वायव्ये अस्त्राय फट् । ॐ मः उदीच्यां अस्त्राय फट् । ॐ मः ऐशान्यां अस्त्राय फट् । ॐ मः ऊर्ध्वायां अस्त्राय फट् । ॐ मः अधरायां अस्त्राय फट् । श्री हरिः अथ श्रीनारायणकवच राजोवाच यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ 1 ॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ 2 ॥ श्री शुक उवाच वृतः पुरोहितस्त्वाष्ट्रो महेंद्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ 3 ॥ श्रीविश्वरूप उवाच धौतांघ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यतः शुचिः ॥ 4 ॥ नारायणमयं वर्म सन्नह्येद्भय आगते । दैवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥ 5 ॥ पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि । मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ॥ 6 ॥ ॐ नमो नारायणायेति विपर्ययमथापि वा । करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ॥ 7 ॥ प्रणवादियकारांतमंगुल्यंगुष्ठपर्वसु । न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि ॥ 8 ॥ षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् । वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसंधिषु ॥ 9 ॥ मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भवेद्बुधः । सविसर्गं फडंतं तत्सर्वदिक्षु विनिर्दिशेत् ॥ 10 ॥ ॐ विष्णवे नमः ॥ इत्यात्मानं परं ध्यायेद्ध्येयं षट्छक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मंत्रमुदाहरेत् ॥ 11 ॥ ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेंद्र पृष्ठे । दरारिचर्मासिगदेषुचाप- -पाशांदधानोऽष्टगुणोऽष्टबाहुः ॥ 12 ॥ जलेषु मां रक्षतु मत्स्यमूर्ति- -र्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनोऽव्या- -त्त्रिविक्रमः खेऽवतु विश्वरूपः ॥ 13 ॥ दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः । विमुंचतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ 14 ॥ रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ 15 ॥ मामुग्रधर्मादखिलात्प्रमादा- -न्नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबंधात् ॥ 16 ॥ सनत्कुमारोऽवतु कामदेवा- -द्धयाननो मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनांतरा- -त्कूर्मो हरिर्मां निरयादशेषात् ॥ 17 ॥ धन्वंतरिर्भगवान्पात्वपथ्या- -द्द्वंद्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज्जनांता- -द्बलो गणात्क्रोधवशादहींद्रः ॥ 18 ॥ द्वैपायनो भगवानप्रबोधा- -द्बुद्धस्तु पाषंडगणात्प्रमादात् । कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः ॥ 19 ॥ मां केशवो गदया प्रातरव्या- -द्गोविंद आसंगवमात्तवेणुः । नारायणः प्राह्ण उदात्तशक्ति- -र्मध्यंदिने विष्णुररींद्रपाणिः ॥ 20 ॥ देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ 21 ॥ श्रीवत्सधामाऽपररात्र ईशः प्रत्युष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसंध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्तिः ॥ 22 ॥ चक्रं युगांतानलतिग्मनेमि भ्रमत्समंताद्भगवत्प्रयुक्तम् । दंदग्धि दंदग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ 23 ॥ गदेऽशनिस्पर्शनविस्फुलिंगे निष्पिंढि निष्पिंढ्यजितप्रियासि । कूष्मांडवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ 24 ॥ त्वं यातुधानप्रमथप्रेतमातृ- -पिशाचविप्रग्रहघोरदृष्टीन् । दरेंद्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कंपयन् ॥ 25 ॥ त्वं तिग्मधारासिवरारिसैन्य- -मीशप्रयुक्तो मम छिंधि छिंधि । चक्षूंषि चर्मन् शतचंद्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ 26 ॥ यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च ॥ 27 ॥ सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् । प्रयांतु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ 28 ॥ गरुडो भगवान् स्तोत्रस्तोमश्छंदोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ 29 ॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः । बुद्धींद्रियमनःप्राणान्पांतु पार्षदभूषणाः ॥ 30 ॥ यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यांतु नाशमुपद्रवाः ॥ 31 ॥ यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिंगाख्या धत्ते शक्तीः स्वमायया ॥ 32 ॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ 33 ॥ विदिक्षु दिक्षूर्ध्वमधः समंता- -दंतर्बहिर्भगवान्नारसिंहः । प्रहापयँल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ 34 ॥ मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यस्यंजसा येन दंशितोऽसुरयूथपान् ॥ 35 ॥ एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ 36 ॥ न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ 37 ॥ इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः । योगधारणया स्वांगं जहौ स मरुधन्वनि ॥ 38 ॥ तस्योपरि विमानेन गंधर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ 39 ॥ गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्छिराः । स वालखिल्यवचनादस्थीन्यादाय विस्मितः । प्राप्य प्राच्यां सरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ 40 ॥ श्री शुक उवाच य इदं शृणुयात्काले यो धारयति चादृतः । तं नमस्यंति भूतानि मुच्यते सर्वतो भयात् ॥ 41 ॥ एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ 42 ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कंधे नारायणवर्मोपदेशो नामाष्टमोऽध्यायः ।