|| मां ललिता कवच || ॐ अस्य श्रीललिता कवच स्तवरत्न मंत्रस्य, आनंदभैरव ऋषिः, अमृतविराट् छंदः, श्री महात्रिपुरसुंदरी ललितापरांबा देवता ऐं बीजं ह्रीं शक्तिः श्रीं कीलकं, मम श्री ललितांबा प्रसादसिद्ध्यर्थे श्री ललिता कवचस्तवरत्न मंत्र जपे विनियोगः । करन्यासः । ऐं अंगुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । श्रीं मध्यमाभ्यां नमः । श्रीं अनामिकाभ्यां नमः । ह्रीं कनिष्ठिकाभ्यां नमः । ऐं करतलकरपृष्ठाभ्यां नमः । अंगन्यासः । ऐं हृदयाय नमः । ह्रीं शिरसे स्वाहा । श्रीं शिखायै वषट् । श्रीं कवचाय हुम् । ह्रीं नेत्रत्रयाय वौषट् । ऐं अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बंधः । ध्यानम् – श्रीविद्यां परिपूर्णमेरुशिखरे बिंदुत्रिकोणेस्थितां वागीशादि समस्तभूतजननीं मंचे शिवाकारके । कामाक्षीं करुणारसार्णवमयीं कामेश्वरांकस्थितां कांतां चिन्मयकामकोटिनिलयां श्रीब्रह्मविद्यां भजे ॥ 1 ॥ लमित्यादि पंचपूजां कुर्यात् । लं – पृथ्वीतत्त्वात्मिकायै श्रीललितादेव्यै गंधं समर्पयामि । हं – आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं समर्पयामि । यं – वायुतत्त्वात्मिकायै श्री ललितादेव्यै धूपं समर्पयामि । रं – वह्नितत्त्वात्मिकायै श्री ललितादेव्यै दीपं समर्पयामि । वं – अमृततत्त्वात्मिकायै श्री ललितादेव्यै अमृतनैवेद्यं समर्पयामि । पंचपूजां कृत्वा योनिमुद्रां प्रदर्श्य । अथ कवचम् । ककारः पातु शीर्षं मे एकारः पातु फालकम् । ईकारश्चक्षुषी पातु श्रोत्रे रक्षेल्लकारकः ॥ 2 ॥ ह्रींकारः पातु नासाग्रं वक्त्रं वाग्भवसंज्ञिकः । हकारः पातु कंठं मे सकारः स्कंधदेशकम् ॥ 3 ॥ ककारो हृदयं पातु हकारो जठरं तथा । लकारो नाभिदेशं तु ह्रींकारः पातु गुह्यकम् ॥ 4 ॥ कामकूटः सदा पातु कटिदेशं ममावतु । सकारः पातु चोरू मे ककारः पातु जानुनी ॥ 5 ॥ लकारः पातु जंघे मे ह्रींकारः पातु गुल्फकौ । शक्तिकूटं सदा पातु पादौ रक्षतु सर्वदा ॥ 6 ॥ मूलमंत्रकृतं चैतत्कवचं यो जपेन्नरः । प्रत्यहं नियतः प्रातस्तस्य लोका वशंवदाः ॥ 7 ॥ उत्तरन्यासः । करन्यासः – ऐं अंगुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । श्रीं मध्यमाभ्यां नमः । श्रीं अनामिकाभ्यां नमः । ह्रीं कनिष्ठिकाभ्यां नमः । ऐं करतलकरपृष्ठाभ्यां नमः । अंगन्यासः । ऐं हृदयाय नमः । ह्रीं शिरसे स्वाहा । श्रीं शिखायै वषट् । श्रीं कवचाय हुम् । ह्रीं नेत्रत्रयाय वौषट् । ऐं अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्विमोकः । इति ब्रह्मकृत श्री ललिता मूलमंत्र कवचम् ।