|| श्रीमहालक्ष्मी_ललितास्तोत्रम्|| ॥ ध्यानम् ॥ चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी । जगन्माता जीवदात्री नारायणी परमेश्वरी ॥१॥ व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी । पाशांकुशेक्षुकोदण्ड पद्ममालालसत्करा ॥२॥ दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः । तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ॥३॥ ॥ श्रीदेवाः ऊचुः ॥ जय लक्ष्मि जगन्मातः जय लक्ष्मि परात्परे । जय कल्याणनिलये जय सर्वकलात्मिके ॥१॥ जय ब्राह्मि महालक्ष्मि ब्रहात्मिके परात्मिके । जय नारायणि शान्ते जय श्रीललिते रमे ॥२॥ जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे । नमः सहस्र शीर्षायै सहस्रानन लोचने ॥३॥ नमः सहस्रहस्ताब्जपादपङ्कजशोभिते । अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥४॥ अतलं ते स्मृतौ पादौ वितलं जानुनी तव । रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥५॥ हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् । दृशश्चन्द्रार्कदहना दिशः कर्णा भुजः सुराः ॥६॥ मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः । क्रिडा ते लोकरचना सखा ते परमेश्वरः ॥७॥ आहारस्ते सदानन्दो वासस्ते हृदयो हरेः । दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥८॥ शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते । धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥९॥ यमाश्च नियमाश्चापि करपादनखास्तव । स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥१०॥ प्राणायामस्तव श्वासो रसना ते सरस्वती । महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥११॥ आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः । हृत्स्था त्वं व्यापिनी लक्ष्मीः मोहिनी त्वं तथा परा ॥१२॥ इदानीं दृश्यसे ब्राह्मी नारायणी प्रियशङ्करी । नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥१३॥ सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः । या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥१४॥ रुदं तथा सुराग्रयाँश्च तस्यै लक्ष्म्यै नमो नमः । त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥१५॥ यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः । वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥१६॥ कम्भरायै सर्वविद्याभरायै ते नमो नमः । जयाललितापाञ्चाली रमातन्वै नमो नमः ॥१७॥ पद्मावतीरमाहंसी सुगुणाऽऽज्ञाश्रियै नमः । नमः स्तुता प्रसनैवंछन्दयामास सव्दरैः ॥१८॥ ॥ फलश्रुति श्रीलक्ष्मी उवाच ॥ स्तावका मे भविश्यन्ति श्रीयशोधर्मसम्भृताः । विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥१॥ पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः । पठनाच्छ्रवणादस्य शत्रुभीतिर्विनश्यति ॥२॥ राजभीतिः कदनानि विनश्यन्ति न संशयः । भुक्तिं मुक्तिं भाग्यवृद्धिमुत्तमां च लभेन्नरः ॥३॥ ॥ इति श्रीलक्ष्मीनारायणसंहितायां देवसङ्घकृता श्रीमहालक्ष्मी ललितास्तोत्रम् सम्पूर्णम्॥