|| श्रीबालामन्त्रसिद्धिस्तवः || ब्राह्मीरूपधरे देवि ब्रह्मात्मा ब्रह्मपालिका । विद्यामन्त्रादिकं सर्वं सिद्धिं देहि परेश्वरि ॥ १॥ महेश्वरी महामाया मानन्दा मोहहारिणी । मन्त्रसिद्धिफलं देहि महामन्त्रार्णवेश्वरि ॥ २॥ गुह्येश्वरी गुणातीता गुह्यतत्त्वार्थदायिनी । गुणत्रयात्मिका देवी मन्त्रसिद्धिं ददस्व माम् ॥ ३॥ नारायणी च नाकेशी नृमुण्डमालिनी परा । नानानना नाकुलेशी मन्त्रसिद्धिं प्रदेहि मे ॥ ४॥ घृष्टिचक्रा महारौद्री घनोपमविवर्णका । घोरघोरतरा घोरा मन्त्रसिद्धिप्रदा भव ॥ ५॥ शक्राणी सर्वदैत्यघ्नी सहस्रलोचनी शुभा । सर्वारिष्टविनिर्मुक्ता सा देवी मन्त्रसिद्धिदा ॥ ६॥ चामुण्डारूपदेवेशी चलज्जिह्वा भयानका । चतुष्पीठेश्वरी देहि मन्त्रसिद्धिं सदा मम ॥ ७॥ लक्ष्मीलावण्यवर्णा च रक्ता रक्तमहाप्रिया । लम्बकेशा रत्नभूषा मन्त्रसिद्धिं सदा दद ॥ ८॥ बाला वीरार्चिता विद्या विशालनयनानना । विभूतिदा विष्णुमाता मन्त्रसिद्धिं प्रयच्छ मे ॥ ९॥ मन्त्रसिद्धिस्तवं पुण्यं महामोक्षफलप्रदम् । महामोहहरं साक्षात् सत्यं मन्त्रस्य सिद्धिदम् ॥ १०॥ इति महाकालसंहितायां श्रीबालामन्त्रसिद्धिस्तवः सम्पूर्णः ।।