|| श्री ललिता पञ्चविंशतिनाम स्तोत्रम् || अगस्त्य उवाच- वाजिवक्त्र महाबुद्धे पञ्चविंशतिनामभिः । ललितापरमेशान्या देहि कर्णरसायनम् ॥ १ ॥ हयग्रीव उवाच- सिंहासनेशी ललिता महाराज्ञी पराङ्कुशा । चापिनी त्रिपुरा चैव महात्रिपुरसुन्दरी ॥ २ ॥ सुन्दरी चक्रनाथा च साम्राजी चक्रिणी तथा । चक्रेश्वरी महादेवी कामेशी परमेश्वरी ॥ ३ ॥ कामराजप्रिया कामकोटिका चक्रवर्तिनी । महाविद्या शिवानङ्गवल्लभा सर्वपाटला ॥ ४ ॥ कुलनाथाऽऽम्नायनाथा सर्वाम्नायनिवासिनी । शृङ्गारनायिका चेति पञ्चविंशतिनामभिः ॥ ५ ॥ स्तुवन्ति ये महाभागां ललितां परमेश्वरीम् । ते प्राप्नुवन्ति सौभाग्यमष्टौसिद्धीर्महद्यशः ॥ ६ ॥ इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने अष्टादशोऽध्याये श्रीललिता पञ्चविंशतिनाम स्तोत्रम् ।।