।।रुद्रयामलोक्तं शान्तिस्तोत्रम्।। ॐ जयन्तु मातरः सर्वा, जयन्तु योगिनी-गणाः। जयन्तु सिद्ध डाकिन्यो, जयन्तु गुरवः सदा॥१॥ जयन्तु साधकाः सर्वे, विशुद्धाः कौलिकाश्च ये समयाचार सम्पन्नाः, जयन्तु पूजकाः नराः॥२॥ अणिमाद्याश्च सिद्धाश्च, नन्दन्तु भैरवादयः। नन्दन्तु देवताः सर्वे, सिद्ध-विद्या-धरादयः॥३॥ ये चाम्नाय-विशुद्धाश्च, मन्त्रिणः शुद्ध-बुद्धयः। सर्वदानन्द हृदयः नन्दन्तु कुल-पालकाः॥४॥ नन्दन्तु अणिमा सिद्धा, नन्दन्तु कुल साधकाः। इन्द्राद्या देवताः सर्वे तृप्यन्तु वास्तु-देवताः॥५॥ सूर्य चन्द्रादयो देवाः, तृप्यन्तु मम-भक्तितः। नक्षत्राणि ग्रहा योगाः करणाः राशयश्च ये॥६॥ तृप्यन्तु पितरः सर्वे मासाः संवत्सरादयः। खेचरा भूचराश्चैव तृप्यन्तु मम भक्तितः॥७॥ अन्तरिक्ष-चरा ये च ये चान्ये देव-योनयः। सर्वे ते सुखिनो यान्तु सर्पा नद्याश्च पक्षिणः॥८॥ पशवः स्थावराश्चैव पर्वताः कन्दराः गुहाः। ऋषयो ब्राह्मणाः सर्वे शान्तिं कुर्वन्तु मे सदा॥९॥ तीर्थानि बहु प्रसिद्धा ये, चान्ये पुण्य-भूमयः। वृद्धाः पतिव्रता यास्ताः शान्तिं कुर्वन्तु मे सदा॥१०॥ शिवं सर्वत्र मे चास्तु पुत्र-दारा-धनादिषु। राजानः सुखिनः सन्तु मित्राः नन्दन्तु मे सदा॥११॥ साधका सुखिनः सन्तु शिवं तिष्ठन्तु सर्वदा। शुभा मे वन्दिताः सन्तु मित्रा तिष्ठन्तु पूजकाः ॐ॥१२॥ ।।श्री रुद्रयामलोक्तं शान्ति स्तोत्रं शुभमस्तु ओऽम् तत्सत्।।