|| गणपतिविद्या || ॐ गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः । प्रसन्नो भवतान्नित्यं वरदाता विनायकः ॥ १॥ अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ २॥ अतःपरं प्रवक्ष्यामि देवरक्षां तथैव च । सर्वोपकरणार्थं च चतुर्वर्णस्य मण्डले ॥ ३॥ गजवक्त्राय तेजसे सिन्दूरवर्णाय शम्भवे । गजवक्त्राय देवाय विघ्नाधिपतये नमः ॥ ४॥ पञ्चयोजनविस्तीर्णे रुद्रो रक्षतु मण्डले । अत्र मन्त्रं प्रवक्ष्यामि सिद्धिर्भवतु मे सदा ॥ ५॥ *****************************"* १. प्रथमः खण्डः । अतःपरं प्रवक्ष्यामि सर्वदुष्टं निवारय २ स्वाहा ॐ नमो भगवते अपरिमितबलवीर्यपराक्रमाय सर्वदुष्टविघ्नान्विनाशय २ निर्नाशय २ गजवक्त्राय तेजोरूपाय ते नमः मणिकनकवज्रवैडूर्यालङ्कृतशरीराय अनन्तकुलिकवासुकये तक्षकाय महापद्मकार्कोटकाय विघ्नान्विनाशय २ निर्नाशय २ लम्बोदराय महोदराय त्रिनेत्राय त्रिशूलहस्ताय एकदंष्ट्राय चतुर्भुजाय सर्वभूतप्रेतपिशाचासुरयक्षराक्षसडाकिनीयोगिनीखेचरीणां सन्त्रासय २ सर्वकिल्बिषाणां हन २ सर्वदुष्टानां प्रमथय २ सर्वरोगरुजां दह २ सर्वव्याधीनां दह २ सर्वदुष्टान्प्रमथय २ सिंहकानां नाशय २ ॐ नमो विघ्नहर्त्रे सर्वविघ्नविनाशिने सर्वदोषनित्यमयोपद्रवेभ्यः स्वाहा ॥ इति प्रथमः खण्डः ॥ १॥ ************************************* २. द्वितीयः खण्डः । ॐ नमो भगवते नरसिंहाय वासुदेवाय पुरुषोत्तमाय सहस्रशीर्षाय पुरुषोत्तमाय ॥ ममाग्रतो जितोविष्णुः पृष्ठतश्चैव केशवः । गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः । उपरिष्टात्तु वैकुण्ठो वराहः पृथिवीतले । दिशश्च विदिशश्चैव सर्वं रक्षतु माधवः । गच्छतस्तिष्ठतोवापि जाग्रतः स्वपतोऽपि वा । नरसिंहकृते गुप्ते वासुदेवो ममाह्वयम् ॥ एवं हुङ्कारभीमोद्धृतमुखकुहरं तीक्ष्णदंष्ट्राकरालं, विद्युद्भ्राजिष्णुनेत्रं हुतवहवपुषं विस्फुलिङ्गाग्रकेशम् । क्रुद्धं संरुद्धतेजं कृतभ्रुकुटिमुखं कुञ्चितभ्रूललाटं तद्विष्णोः पातु रूपं सकलभयहरं नारसिंहं नमामि ॥ नमोभगवते नरसिंहाय प्रदीप्तसूर्यकोटिसहस्रतेजसे वज्रनखदंष्ट्रायुधाय स्फुटविकटविस्तीर्णसुरसटाय क्षोभितमोहान्धकाराय भस्ममोहात्मने द्वन्द्वभिनिर्घोषाय सर्वमन्त्रेण सहृदयाय भगवन्नरसिंहाय पुरुषाय ॐ भगवति नरसिंहे कपिलवर्णे मुक्तकेशे दंष्ट्रोत्कटे करालिने विकटपादाय विकरालहस्तनखाग्रप्रहरणाय प्रचण्डतेजे अग्नितेजे ज्वालामुखे अतिकटविकटरौद्रयोगनरसिंहे इति नरसिंहशब्दोच्चारणेन सर्वदोषकिल्बिषाणां छिन्द्धि २ भिन्धि २ हन २ दह २ पच २ मथ २ प्रमथ २ सर २ गिरिङ्गच्छ २ दिशं गच्छ २ विदिशं गच्छ २ पातालं गच्छ २ आकाशं गच्छ २ अन्तरिक्षं गच्छ २ यत आगतोऽसि तत्रैव गच्छ २ आकर्षय २ निर्नाशय २ सर्वविघ्नान्नाशय २ सर्वव्याधीन्विध्वंसय २ सर्वदोषं दुष्टं विद्रावय २ सर्वदुष्टान्निवारय २ सर्वदोषान्नाशय २ सर्वरोगान्नाशय ॐ नमोविघ्नहर्त्रे ॐ नमो भगवते सर्वविघ्नविनाशिने सर्वदोषोपद्रवेभ्यः स्वाहा ॥ इति द्वितीयः खण्डः ॥ २॥ ******************************* ३. तृतीयः खण्डः । ॐ नमो भगवते उच्छुष्मरुद्राय सप्तद्वीपेश्वराय हारकटकशरीराय शरणकृतशरीराय मनुष्यशरीरमावेशय २ प्रवेशय खट्वाङ्गं द्रावय २ स्वरूपं दर्शय २ माहेश्वरीं मुद्रां गृह्ण २ कापालीं मुद्रां भञ्जय २ वैष्णवीं मुद्रां धारय २ शिवदूतीरूपं दर्शय २ जय २ ज्वल २ प्रज्वल २ कड्ड २ स्फोट २ प्रहरण २ यक्षो वा राक्षसो वा भूतो वा प्रेतो वा पिशाचो वा कूष्माण्डो वा अपस्मारो वा प्रेतयामिनी वा मथ २ मोचय २ कम्पय २ विध्वंसय २ प्रमाणरूपिकां दर्शय २ ब्राह्मणी वा क्षत्रियी वा वैश्यी वा शूद्री वा चण्डाली वा चर्मकारी वा मालाकारी वा मातङ्गी वा पुक्कसी वा चामुण्डी वा योगिनी वा महायोगिनी वा आकाशगामिनी वा भुवनवासिनी वा पातालवासिनी वा वौषट् फट् २ स्वाहा ॥ ॐ नमः शीघ्रगमनाय अक्षराय त्रिनेत्राय त्रिशूलहस्ताय हृद्गताय मन्त्राय मन्त्रव्रताय सुहृदयाय सुहृद्गताय आगच्छ २ उच्छुष्मरुद्रेभ्यः स्वाहा ॥ इति तृतीयः खण्डः ॥ ३॥ ********************************* ४. चतुर्थः खण्डः । ॐ नमो भगवतिसिद्धेश्वरि सिद्धचामुण्डे प्रवाति घोरे पूतनातिघोरे प्रलम्बस्तम्भने विकसवज्रघोषे सहस्रघोरे वज्रपरे महोदरे सहस्रोदरे सहस्रमुखे सहस्रभीममुखे सहस्रभैरवमुखे उल्कामुखे ज्वालामुखे ज्वालापदे ज्वालाजिह्वे विकृतवदने ज्वालापिङ्गलजिह्वे अट्टाट्टहासे भैरवमुखे सहस्रभैरवरूपे अनिलमुखे अनिलमध्ये आनय २ शीघ्रं सर्वं प्रवेशय २ आवेशय २जल्पय २ खट्वाङ्गघोर आज्ञापयतुस्वाहा श्मशानवेतालकृतकर्मविनाशिने अतः कर्मसहस्राणां प्रयुक्तानां च नाशिने चतुःषष्टिसहस्राणां चतुःषष्टिसमुद्राणां स्फोटने अष्टानां नागराजानां नाशने अष्टाविंशतिकीलकानां विस्फोटने चतुष्षष्टिसाधारणयोगिनीनां द्वात्रिंशन्मूलकर्मणां द्वात्रिंशद्भावितानां पङ्क्तिभावितानां मूलाहिकानां मालीहिकानां पण्डितताडितानामेकाङ्गुल्या तर्जितानामम्बिकानां पात्रकीटकानां पात्रकीहकानां देवी सर्वकर्मविनाशिनी महाचामुण्डी आज्ञापयतु स्वाहा ब्रह्माऽज्ञापयतु स्वाहा विष्णुराज्ञापयतु स्वाहा रुद्र आज्ञापयतु स्वाहा कुमार आज्ञापयतु स्वाहा पूर्वस्यां दिशि ऐरावतमारूढो वज्रहस्तो देवराज इन्द्र आज्ञापयतु स्वाहा दक्षिणस्यां दिशि माहिषस्कन्धमारूढः प्रेतराजो दण्डहस्तो यम आज्ञापयतु स्वाहा पश्चिमायां दिशि भास्वद्विमानमारूढः पाशहस्तो वरुणो राजा आज्ञापयतु स्वाहा उत्तरस्यां दिशि पुष्पकविमानमारूढः खड्गहस्तो यक्षराजः कुबेर आज्ञापयतु स्वाहा ॐ नमो विघ्नहर्त्रे सर्वविघ्नविनाशिने सर्वदोषभयोपद्रवेभ्यः स्वाहा । इति चतुर्थः खण्डः ॥ ४॥ ********************************** ५. पञ्चमः खण्डः । एकाह्निकं ज्वरं छिन्द्धि २ स्वाहा द्वितीयाह्निकं ज्वरं छिन्द्धि २ स्वाहा तृतीयाह्निकं ज्वरं छिन्द्धि २ स्वाहा चतुर्थाह्निकं ज्वरं छिन्द्धि २ स्वाहा पञ्चमाह्निकं ज्वरं छिन्द्धि २ स्वाहा षष्ठाह्निकं ज्वरं छिन्द्धि २ स्वाहा सप्तमाह्निकं ज्वरं छिन्द्धि २ स्वाहा अष्टमाह्निकं ज्वरं छिन्द्धि २ स्वाहा नवमाह्निकं ज्वरं छिन्द्धि २ स्वाहा दशाह्निकं ज्वरं छिन्द्धि २ स्वाहा एकादशाह्निकं ज्वरं छिन्द्धि २ स्वाहा द्वादशाह्निकं ज्वरं छिन्द्धि २ स्वाहा त्रयोदशाह्निकं ज्वरं छिन्द्धि २ स्वाहा चतुर्दशाह्निकं ज्वरं छिन्द्धि २ स्वाहा दिनज्वरं छिन्द्धि २ स्वाहा खण्डकदिनज्वरं छिन्द्धि २ स्वाहा रात्रिज्वरं छिन्द्धि २ स्वाहा अर्धरात्रिज्वरं छिन्द्धि २ स्वाहा मध्याह्नज्वरं छिन्द्धि २ स्वाहा सन्ध्याज्वरं छिन्द्धि २ स्वाहा वैष्णवज्वरं छिन्द्धि २ स्वाहा ब्रह्मज्वरं छिन्द्धि २ स्वाहा रुद्रज्वरं छिन्द्धि २ स्वाहा ग्रहरोगज्वरं छिन्द्धि २ स्वाहा याम्ग्रज्वरं छिन्द्धि २ स्वाहा अदितिज्वरं छिन्द्धि २ स्वाहा सावित्रीज्वरं छिन्द्धि २ स्वाहा वातज्वरं छिन्द्धि २ स्वाहा पित्तज्वरं छिन्द्धि २ स्वाहा श्लेष्मज्वरं छिन्द्धि २ स्वाहा सन्निपातज्वरं छिन्द्धि २ स्वाहा महार्तिज्वरं छिन्द्धि २ स्वाहा शीतज्वरं छिन्द्धि २ स्वाहा उष्णज्वरं छिन्द्धि २ स्वाहा समज्वरं छिन्द्धि २ स्वाहा विषमज्वरं छिन्द्धि २ स्वाहा कामलाज्वरं छिन्द्धि २ स्वाहा सततज्वरं छिन्द्धि २ स्वाहा अशेषज्वरं छिन्द्धि २ स्वाहा दुष्टच्छायाज्वरं छिन्द्धि २ स्वाहा भूत ज्वरं छिन्द्धि २ स्वाहा प्रेतज्वरं छिन्द्धि २ स्वाहा पिशाचज्वरं छिन्द्धि २ स्वाहा असुरज्वरं छिन्द्धि २ स्वाहा यक्षज्वरं छिन्द्धि २ स्वाहा राक्षसज्वरं छिन्द्धि २ स्वाहा डाकिनीज्वरं छिन्द्धि २ स्वाहा योगिनीज्वरं छिन्द्धि २ स्वाहा महायोगिनीज्वरं छिन्द्धि २ स्वाहा अपस्मारज्वरं छिन्द्धि २ स्वाहा मासज्वरं छिन्द्धि २ स्वाहा अर्धमासज्वरं छिन्द्धि २ स्वाहा षाण्मासिकज्वरं छिन्द्धि २ स्वाहा सांवत्सरिकज्वरं छिन्द्धि २ स्वाहा सर्वज्वरं छिन्द्धि २ स्वाहा रुद्रग्रहरोग याम्य अदिति सवितृज्वरं छिन्द्धि २ स्वाहा सन्ध्यावातपित्तश्लेष्मसन्निपातमुहूर्तिकतापसज्वरं छिन्द्धि २ स्वाहा सतताशेषदुष्टच्छायाभूतप्रेतमहामायूरिज्वरं छिन्द्धि २ स्वाहा पिशाचासुरयक्षराक्षसडाकिनीयोगिनीमहायोगिनीज्वरं छिन्द्धि २ स्वाहा अपस्मारमासार्धमासषाण्मासिकसांवत्सरिकज्वरं छिन्द्धि २ स्वाहा एतेषामष्टचत्वारिंशज्ज्वराणां छिन्दय २ स्वाहा भिन्दय २ मुञ्चय २ भञ्जय २ सर्वव्याधीन्विनाशय २ निवारय २ उच्छादय २ उन्मादय २ चूर्णय २ कडुय २ कण्डूय २ विषं कडुय २ एवं स्थावरविषं कडुय २ जङ्गमविषं कडुय २ कृत्रिमविषं कडुय २ शीघ्रविषं कडुय २ गर्जनोपमशङ्का हालाहल अन्धकार पिङ्गलाविषं कडुय २ हरिद्रा कुम्भलाचल गोनासा आम रक्तपित्त श्लेष्म सन्निपात कुलिकाविषं कडुय २ कामलाविषं कडुय २ काहलारविषं कडुय २ सर्वविषं कडुय २ नाशय २ शोषय २ मारय २ स्तम्भय २ स्वाहा । इति पञ्चमः खण्डः ॥ ५॥ ****************************** ६. षष्ठः खण्डः । ॐ नमो रुद्ररूपेभ्यो ज्योतीरूपेभ्यो नमो नमः । अघोरेभ्योऽथ घोरेभ्यो घोरतरेभ्यश्च सर्वतः सर्वतरेभ्यः । ॐ नमः सूर्याय सिद्धचामुण्डेन मूलमन्त्रेण एतेषां देवतानां मन्त्राणामावाहनं कुरुते सर्वदोषकिल्बिषाणां छिन्दय २ भिन्दय २ परममुद्रां भञ्जय २ विनायककौमारिकानां भञ्जय २ वैनायकं भञ्जय २ कौमारिकमुद्रां भञ्जय २ स्थानेश्वरक्षेत्रपालमुद्रां भञ्जय २ डाकिनीयोगिनीखेचराणां भञ्जय २ सर्वभूतपिशाचान् सर्वान्प्रेतान्सर्वानसुरान् सर्वान् राक्षसान् हर २ शाकिनीनां भञ्जय २ डाकिनीनां योगिनीनां भञ्जय २ महायोगिनीनां भञ्जय २ खेचरीणां भञ्जय २ नरसिंहमुद्रां कूष्माण्डं भञ्जय २ अपस्मारं भञ्जय २ छायाग्रहं भञ्जय २ दुष्टं ग्रहं स्कन्दग्रहं ग्रहदेवतानां भञ्जय २ बालग्रहाणां रतिग्रहाणां भञ्जय २ परमुद्रां भञ्जय २ तत्सर्वं छिन्द्धि २ हन २ दह २ पच २ मथ २ प्रमथ २ सर २ गिरिं गच्छ २ दिशं गच्छ २ विदिशं गच्छ २ आकाशं गच्छ २ पातालं गच्छ २ अन्तरिक्षं गच्छ २ यत आगतोऽसि तत्रैव गच्छ २ आकर्षय २ निर्नाशय २ सर्वविघ्नं विनाशय २ सर्वव्याधिं विध्वंसय २ सर्वदोषदुष्टं विद्रावय २ सर्वरोगान्नाशय २ ॐ नमो विघ्नहर्त्रे सर्वविघ्नविनाशिने सर्वदोषभूतभयोपद्रवेभ्यः स्वाहा ॥ इति षष्ठः खण्डः ॥ ६॥ ******************************* ७. सप्तमः खण्डः । राजभयं नाशय २ चौरभयं नाशय २ शत्रुभयं नाशय २ भूतगणभयं नाशय २ सिंहभुजङ्गभयं नाशय २ दुःस्वभयंं नाशय २ अपमृत्युभयं नाशय २ दारिद्र्यभयं नाशय २ प्रेतभयं नाशय २ यक्षःराक्षसभयं नाशय २ अग्निभय नाशय २ मूषकभयं नाशय २ श्वानकभयं नाशय २ जम्बूकभयं नाशय २ स्खलितपन्थाने भयं नाशय २ सङ्ग्रामे भयं नाशय २ कलहभयं नाशय २ जलपिपासां भयं नाशय २ अनावृष्टिभयं नाशय २ यत्किञ्चिद्भयमाप्नोति तन्नाशय २ कान्तारभयं नाशय २ छायापस्मारभयं शूलातीसारं भयं नाशय २ अन्येषां सर्वदुःखान्निवारय २ सर्वोपद्रवान्ं नाशय २ व्याधिभयं नाशय २ विध्वंसय २ सर्वदुष्टान्निवारय २ विद्रावय २ सर्वगणान्नाशय २ घातय २ पातय २ निपातय २ आस्फोटय २ त्रोटय २ कम्पय २ त्रासय २ मोहय २ मोचय २ चाटय २ धूनय २ चामय २ डामय २ जापय २ बन्धय २ सन्नय २ वारय २ पाटय २ त्रोटय २ मर्दय २ दामय २ स्फुटय २ लुठय २ खादय २ त्रुटय २ विश्लेषय २ इमां प्रतिमां प्रवेशय २ पालय २ रूपिकाणां दर्शय २ स्थूलरूपं दर्शय २ ॐ ह्रींश्रीङ्क्लीञ्ज्रींश्रींश्रीङ्क्रीङ्क्षीम्फट् स्वाहा । इति सप्तमः खण्डः ॥ ७॥ **************************** ८. अष्टमः खण्डः । महाचामुण्डेन चण्डमुण्डेन मातृचक्रेण ब्रह्मदण्डेन विष्णुचक्रेण रुद्रत्रिशूलेन इन्द्रवज्रेण यमदण्डेन वरुणपाशेन कुबेरगदया गरुडपक्षवातेन आदित्यरश्मिभिरघोरमन्त्रेण एतेषां देवतानां मन्त्रेण सर्वदोषकिल्बिषं छिन्द्धि २ भिन्द्धि २ हन २ दह २ पच २ मथ २ प्रमथ २ सर २ गिरिं गच्छ २ आकाशं गच्छ २ पातालं गच्छ २ अन्तरिक्षं दिशं विदिशं यत आगतोऽसि तत्रैव गच्छ २ आकर्षय २ निर्नाशय २ सर्वविघ्नान्विनाशय २ सर्वव्याधिं विध्वंसय २ सर्वदुष्टं विद्रावय २ सर्वरोगान्नाशय २ ॐ नमो विघ्नहर्त्रे सर्वविघ्नविनाशिने सर्वरोगविनाशिने सर्वदोषभयोपद्रवेभ्यो रक्षय २ स्वाहा । इति अष्टमः खण्डः ॥ ८॥ ************************** ९. नवमः खण्डः । अतोङ्गषट्के वौषट् २ फट् २ स्वाहा अन्तःस्वरूपेण हृदयं प्रवेशय २ फट् २ स्वाहा ॐ हूँ ३ भूततन्त्राणि शिखायै वौषट् फट् २ स्वाहा ॐ वाँ ३ विद्युज्ज्वलितनेत्रायै वौषट् फट् २ स्वाहा ॐ भूं ३ भूचरी वौषट् फट् २ स्वाहा ॐ गूं ३ भूतपिशाच वौषट् फट् २ स्वाहा ॐ खं ३ खेचरी वौषट् फट् २ स्वाहा ॐ डां ३ डाकिनी वौषट् फट् २ स्वाहा ॐ ज्वं ३ योगिनी वौषट् फट् २ स्वाहा ॐ यं ३ महायोगिनी वौषट् फट् २ स्वाहा ॐ चं ३ चर्मकारी वौषट् फट् २ स्वाहा ॐ चं ३ चण्डाली वौषट् फट् २ स्वाहा ॐ अं ३ अस्त्राय वौषट् फट् २ स्वाहा ॐ नां ३ नारसिंही वौषट् फट् २ स्वाहा ॐ रुं ३ रुद्राय वौषट् फट् २ स्वाहा ॐ वैं ३ वैष्णवी वौषट् फट् २ स्वाहा ॐ प्रां ३ प्रजापतये वौषट् फट् २ स्वाहा ॐ ग्रां ३ गायत्री वौषट् फट् २ स्वाहा ॐ सां ३ सावित्री वौषट् फट् २ स्वाहा ॐ सं ३ सरस्वती वौषट् फट् २ स्वाहा ॐ सं ३ सर्वमन्त्राणां वौषट् फट् २ स्वाहा ॐ सं ३ सर्वयोगिनीनां वौषट् फट् २ स्वाहा ॐ सं ३ सर्वविघ्नहर्त्रिणी वौषट् फट् २ स्वाहा ॐ सं ३ सिद्धगन्धर्वौ वौषट् फट् २ स्वाहा ॐ गां ३ गणपतये वौषट् फट् २ स्वाहा ॐ अघोरमन्त्रेण वौषट् फट् २ स्वाहा ॐ नमः सूर्याय सिद्धचामुण्डे मूलमन्त्रेण वौषट् फट् २ स्वाहा । ॐ गंगांगिंगींगुंगूंगेंगैंगोंगौंगंगः वौषट् फट् २ स्वाहा । इति नवमः खण्डः ॥ ९॥ ************************** १०. दशमः खण्डः । अनेन मन्त्रेण प्रसेचयेत् । छिद्यते वेतालो वा यक्षो वा राक्षसो वा ब्रह्मराक्षसो वा चण्डो वा प्रचण्डो वा महामातङ्गो वा इमां विद्यामात्मरक्षणार्थं येन न शत्रुर्नापमृत्युर्नाकालमृत्युर्बाधते सर्वशत्रूणां हृदयमर्मेभ्यः स्वाहा ॐ नमोभगवते सिद्धे वरसिद्धे सिद्धचामुण्डेन बलरूपतेजोधारिणि रुद्रत्रिशूलेन बलरूपतेजोधारिणि इन्द्रवज्रेण बलरूपतेजोधारिणि यमदण्डेन बलरूपतेजोधारिणि वरुणपाशेन बलरूपतेजोधारिणि कुबेरगदया बलरूपतेजोधारिणि गरुडपक्षवातेन बलरूपतेजोधारिणि आदित्यरश्मिभिर्बलरूपतेजोधारिणि अघोरमन्त्रेण बलरूपतेजोधारिणि ॐ नमः सूर्याय सिद्धचामुण्डेन बलरूपतेजोधारिणि मम रक्ष २ सर्वदोषभयोपद्रवेभ्यः स्वाहा अपस्मारग्रहा दुष्टाः सर्वे चापि ग्रहज्वराः । गर्भबालग्रहा ये च नानारोगग्रहाश्च ये । अन्तरिक्षगता ये च स्वर्गे ये च ग्रहोत्तमाः । भूपातालग्रहा ये च ये ग्रहाः सर्वतः स्थिताः । कण्ठे यस्य महाकालो भूषणा यस्य पन्नगाः । तेजसा तस्य देवस्य शान्तिं कुर्वन्तु सर्वदा । भैरवाः साधकानां च ये दोषा बाधयन्ति हि । तेषां मन्त्रं प्रवक्ष्यामि येन बाधां न कुर्वते । एषा भगवती विद्या ग्रहाणां नाशिनी तथा । सर्वेषां पाठनात्सिद्धा महागणपतेः प्रिया । इति दशमः खण्डः ॥ १०॥ इति श्रीमहागणपतिविद्या समाप्ता । ****************