।। श्रीलक्ष्मीनारायण स्त्रोत।। ध्यानम् चक्रं विद्या-वर घट-गदा-दर्पणम् पद्म-युग्मं दोर्भिः बिभ्रत् सुरुचिर-तनुं मेघ-विद्युन्निभाभम् गाढ-उत्कण्ठं विवश-मनिशं पुण्डरीकाक्ष-लक्ष्म्यो-रेकीभूतं वपुरवतु वः पीत-कौशेय-कान्तम् शंख-चक्र-गदा-पद्म-कुंभाऽऽदर्शा-ब्ज-पुस्तकम् बिभ्रतं मेघ-चपल-वर्णं लक्ष्मी-हरिं भजे स्तोत्रम् विद्युत्-प्रभा-श्लिष्ट-घन-उपमानौ शुद्ध-आशये बिंबित-सुप्रकाशौ चित्ते चिदाभौ कलयामि लक्ष्मी-नारायणौ सत्त्व-गुण-प्रधानौ लोकोद्भव-स्थे मलयेश्वराभ्यां शोक-उरुदीन-स्थितिनाशकाभ्याम् नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् सम्पत्-सुख-आनन्द-विधायकाभ्यां भक्तावना-ऽनारत-दीक्षिताभ्याम् नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् दृष्ट्वो-पकारे गुरुतां च पञ्च-विंश-ावतारान् सरसं दधत्भ्याम् नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् क्षीरांबुराश्यादि-विराट-भवाभ्यां नारं सदा पालयितुं पराभ्याम् नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् दारिद्र्य-दुःख-स्थिति-दारकाभ्यां दयैव-दूरीकृत-दुर्गतिभ्याम् नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् भक्त-व्रजा-घौघ-विदारकाभ्यां स्वीय-आशयो-द्धूत-रज-स्तमोभ्याम् नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् रक्त-उत्पल-आभ्र-आभव-पुर-धराभ्यां पद्म-री शंख-ब्ज-गदाधराभ्याम् नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् अङ्घ्रि-द्वयाभ्यर्चक-कल्पकाभ्यां मोक्ष-प्रद-प्राक्तन-दंपतीभ्याम् नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् फलश्रुति इदं तु यः पठेत् स्तोत्रं लक्ष्मी-नारायण-ष्टकम् ऐहिक-आमुष्मिक-सुखं भुक्त्वा स लभतेऽमृतम् इति श्रीकृष्णकृतं लक्ष्मी-नारायण स्तोत्रं संपूर्णम्