।। श्रीशनैश्चर मालामन्त्रः ।।

।। श्रीशनैश्चर मालामन्त्रः ।।

अस्य श्रीशनैश्चरमालामन्त्रस्य काश्यप ऋषिः, अनुष्टुप् छन्दः,
शनैश्चरो देवता, शं बीजं, निं शक्तिः, मं कीलकं,
समस्तपीडा परिहारार्थे शनैश्चरप्रसादसिद्ध्यर्थे
जपे विनियोगः ।

करन्यासः
शनैश्चराय अङ्गुष्ठाभ्यां नमः ।
कृष्णवर्णाय तर्जनीभ्यां नमः ।
सूर्यपुत्राय मध्यमाभ्यां नमः ।
मन्दगतये अनामिकाभ्यां नमः ।
गृध्रवाहनाय कनिष्ठिकाभ्यां नमः ।
पङ्गुपादाय करतलकरपृष्ठाभ्यां नमः |

हृदयादिषडङ्गन्यासः
शनैश्चराय हृदयाय नमः ।
कृष्णवर्णाय शिरसे स्वाहा ।
सूर्यपुत्राय शिखायै वषट् ।
मन्दगतये कवचाय हुम् ।
गृध्रवाहनाय नेत्रत्रयाय वौषट्
पङ्गुपादाय अस्त्राय फट् ।

ध्यानम्
दोर्भिर्धनुर्द्विशिखचर्मधरं त्रिशूलं
भास्वत्किरीटमुकुटोज्ज्वलितेन्द्रनीलम् ।
नीलातपत्रकुसुमादिसुगन्धभूषं देवं
भजे रविसुतं प्रणतोऽस्मि नित्यम् ॥

ॐ नमो भगवते शनैश्चराय मन्दगतये सूर्यपुत्राय महाकालाग्नि-
सदृशाय क्रूर देहाय गृध्रासनाय नीलरूपाय चतुर्भुजाय
त्रिनेत्राय नीलाम्बरधराय नीलमालाविभूषिताय धनुराकारमण्डले

प्रतिष्ठिताय काश्यपगोत्रात्मजाय माणिक्यमुक्ताभरणाय छायापुत्राय
सकलमहारौद्राय सकलजगत्भयङ्कराय पङ्कुपादाय क्रूररूपाय
देवासुरभयङ्कराय सौरये कृष्णवर्णाय स्थूलरोमाय अधोमुखाय

नीलभद्रासनाय नीलवर्णरथारूडाय त्रिशूलधराय सर्वजनभयङ्कराय
मन्दाय दं, शं, नं, मं, हुं, रक्ष रक्ष, मम शत्रून्नाशय,
सर्वपीडा नाशय नाशय, विषमस्थशनैश्चरान् सुप्रीणय सुप्रीणय,

सर्वज्वरान् शमय शमय, समस्तव्याधीनामोचय मोचय विमोचय,
मां रक्ष रक्ष, समस्त दुष्टग्रहान् भक्षय भक्ष्य, भ्रामय भ्रामय,
त्रासय त्र्रासय, बन्धय बन्धय, उन्मादयोन्मादय, दीपय दीपय,

तापय तापय, सर्वविघ्नान् छिन्धि छिन्धि,
डाकिनीशाकिनीभूतवेतालयक्षरक्षोगन्धर्वग्रहान् ग्रासय ग्रासय,
भक्षय भक्षय, दह दह, पच पच, हन हन,
विदारय विदारय,

शत्रून् नाशय नाशय, सर्वपीडा नाशय नाशय,
विषमस्थशनैश्चरान् सुप्रीणय सुप्रीणय,
सर्वज्वरान् शमय शमय,

समस्तव्याधीन् विमोचय विमोचय,
ॐ शं नं मं ह्रां फं हुं,
शनैश्चराय नीलाभ्रवर्णाय नीलमेखलाय
सौरये नमः ॥