।।नारायणाष्टोत्तर शतनामस्तोत्रं।। नारायणाय सुरमण्डनमण्डनाय नारायणाय सकलस्थितिकारणाय । नारायणाय भवभीतिनिवारणाय नारायणाय प्रभवाय नमो नमस्ते ॥ १॥ नारायणाय शतचन्द्रनिभाननाय नारायणाय मणिकुण्डलधारणाय । नारायणाय निजभक्तपरायणाय नारायणाय सुभगाय नमो नमस्ते ॥ २॥ नारायणाय सुरलोकप्रपोषकाय नारायणाय खलदुष्टविनाशकाय । नारायणाय दितिपुत्रविमर्दनाय नारायणाय सुलभाय नमो नमस्ते ॥ ३॥ नारायणाय रविमण्डलसंस्थिताय नारायणाय परमार्थप्रदर्शनाय । नारायणाय अतुलाय अतीन्द्रियाय नारायणाय विरजाय नमो नमस्ते ॥ ४॥ नारायणाय रमणाय रमावराय नारायणाय रसिकाय रसोत्सुकाय । नारायणाय रजोवर्जितनिर्मलाय नारायणाय वरदाय नमो नमस्ते ॥ ५॥ नारायणाय वरदाय मुरोत्तमाय नारायणाय अखिलान्तरसंस्थिताय । नारायणाय भयशोकविवर्जिताय नारायणाय प्रबलाय नमो नमस्ते ॥ ६॥ नारायणाय निगमाय निरञ्जनाय नारायणाय च हराय नरोत्तमाय । नारायणाय कटिसूत्रविभूषणाय नारायणाय हरये महते नमस्ते ॥ ७॥ वारायणाय कटकाङ्गदभूषणाय नारायणाय मणिकौस्तुभशोभनाय । नारायणाय तुलमौक्तिकभूषणाय नारायणाय च यमाय नमो नमस्ते ॥ ८॥ नारायणाय रविकोटिप्रतापनाय नारायणाय शशिकोटिसुशीतलाय । नारायणाय यमकोटिदुरासदाय नारायणाय करुणाय नमो नमस्ते ॥ ९॥ नारायणाय मुकुटोज्ज्वलसोज्ज्वलाय नारायणाय मणिनूपुरभूषणाय । नारायणाय ज्वलिताग्निशिखप्रभाय नारायणाय हरये गुरवे नमस्ते ॥ १०॥ नारायणाय दशकण्ठविमर्दनाय नारायणाय विनतात्मजवाहनाय । नारायणाय मणिकौस्तुभभूषणाय नारायणाय परमाय नमो नमस्ते ॥ ११॥ नारायणाय विदुराय च माधवाय नारायणाय कमठाय महीधराय । नारायणाय उरगाधिपमञ्चकाय नारायणाय विरजापतये नमस्ते ॥ १२॥ नारायणाय रविकोटिसमाम्बराय नारायणाय च हराय मनोहराय । नारायणाय निजधर्मप्रतिष्ठिताय नारायणाय च मखाय नमो नमस्ते ॥ १३॥ नारायणाय भवरोगरसायनाय नारायणाय शिवचापप्रतोटनाय । नारायणाय निजवानरजीवनाय नारायणाय सुभुजाय नमो नमस्ते ॥ १४॥ नारायणाय सुरथाय सुहृच्छ्रिताय नारायणाय कुशलाय धुरन्धराय । नारायणाय गजपाशविमोक्षणाय नारायणाय जनकाय नमो नमस्ते ॥ १५॥ नारायणाय निजभृत्यप्रपोषकाय नारायणाय शरणागतपञ्जराय । नारायणाय पुरुषाय पुरातनाय नारायणाय सुपथाय नमो नमस्ते ॥ १६॥ नारायणाय मणिस्वासनसंस्थिताय नारायणाय शतवीर्यशताननाय । नारायणाय पवनाय च केशवाय नारायणाय रविभाय नमो नमस्ते ॥ १७॥ श्रियःपतिर्यज्ञपतिः प्रजापतिर्धियाम्पतिर्लोकपतिर्धरापतिः। पतिर्गतिश्चान्धकवृष्णिसात्त्वतां प्रसीदतां मे भगवान् सताम्पतिः ॥१८॥ त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥१९॥ अष्टोत्तराधिकशतानि सुकोमलानि नामानि ये सुकृतिनः सततं स्मरन्ति । तेऽनेकजन्मकृतपापचयाद्विमुक्ता नारायणेऽव्यवहितां गतिमाप्नुवन्ति॥२०॥ इति नारायणाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥