।। दुर्गा सप्तशती त्रयोदशोऽध्यायः।। (सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः) ध्यानं : ॐ – बाल – अर्क – मण्डल – आभासाम् – चतुर्भुजाम् – त्रि – लोचनाम् । पाश – अंकुश – वर – अभीतीः – धारयन्तीम् – शिवाम् – भजे ॥ ऋषिरुवाच : एतत् – ते – कथितम् – भूप – देवी – माहात्म्यम् – उत्तमम् । एवम् – प्रभावा – सा – देवी – यया – इदम् – धार्यते – जगत् ॥1॥ विद्या – तथा – एव – क्रियते – भगवत् – विष्णु – मायया । तया – त्वम् – एषः – वैश्यः – च – तथा – एव – अन्ये – विवेकिनः ॥2॥ तया – त्वम् – एषः – वैश्यः – च – तथा – एव – अन्ये – विवेकिनः । मोह्यन्ते – मोहिताः – च – एव – मोहम् – एष्यन्ति – च – अपरे ॥3॥ ताम् – उपैहि – महाराज – शरणम् – परम – ईश्वरीम् । आराधिता – सा – एव – नृणाम् – भोग – स्वर्ग – अपवर्ग – दा ॥4॥ मार्कण्डेय उवाच : इति – तस्य – वचः – श्रुत्वा – सुरथः – सः – नर – अधिपः । प्रणिपत्य – महा – भागम् – तम् – ऋषिम् – संशित – व्रतम् ॥5॥ निर्विण्णः – अति – ममत्वेन – राज्य – अपहरणेन – च । जगाम – सद्यः – तपसे – सः – च – वैश्यः – महा – मुने ॥6॥ सन्दर्शन – अर्थम् – अम्बायाः – नदी – पुलिनम् – आस्थितः । सः – च – वैश्यः – तपः – तेपे – देवी – सूक्तम् – परम् – जपन् ॥7॥ तौ – तस्मिन् – पुलिने – देव्याः – कृत्वा – मूर्तिम् – मही – मयीम् । अर्हणाम् – चक्रतुः – तस्याः – पुष्प – धूप – अग्नि – तर्पणैः ॥8॥ निराहारौ – यताहारौ – तत् – मनस्कौ – समाहितौ । ददतुः – तौ – बलिम् – च – एव – निज – गात्र – असृक् – उक्षितम् ॥9॥ एवम् – समाराधयतोः – त्रिभिः – वर्षैः – यत – आत्मनोः । परितुष्टा – जगत् – धात्री – प्रत्यक्षम् – प्राह – चण्डिका ॥10॥ देव्युवाच : यत् – प्रार्थ्यते – त्वया – भूप – त्वया – च – कुल – नन्दन । मतः – तत् – प्राप्यताम् – सर्वम् – परितुष्टा – ददामि – ते ॥11॥ मार्कण्डेय उवाच : ततः – वव्रे – नृपः – राज्यम् – अविभ्रंशि – अन्य – जन्मनि । अत्र – एव – च – निजम् – राज्यम् – हत – शत्रु – बलम् – बलात् ॥12॥ सः – अपि – वैश्यः – ततः – ज्ञानम् – वव्रे – निर्विण्ण – मानसः । मम – इति – अहम् – इति – प्राज्ञः – सङ्ग – विच्छिति – कारकम् ॥13॥ देव्युवाच : स्वल्पैः – अहोभिः – नृपते – स्वम् – राज्यम् – प्राप्स्यते – भवान् । हत्वा – रिपून् – अस्खलितम् – तव – तत्र – भविष्यति ॥14॥ मृतः – च – भूयः – सम्प्राप्य – जन्म – देवाद् – विवस्वतः । सावर्णिकः – मनुः – नाम – भवान् – भुवि – भविष्यति ॥15॥ वैश्य – वर्य – त्वया – यः – च – वरः – अस्मत्तः – अभिवाञ्छितः । तम् – प्रयच्छामि – संसिद्ध्यै – तव – ज्ञानम् – भविष्यति ॥16॥ मार्कण्डेय उवाच (पद-विच्छेद) इति – दत्त्वा – तयोः – देवी – यथा – अभिलषितम् – वरम् । बभूव – अन्तर्हिता – सद्यः – भक्त्या – ताभ्याम् – अभिष्टुता ॥17॥ एवम् – देव्या – वरम् – लब्ध्वा – सुरथः – क्षत्रिय – ऋषभः । सूर्यात् – जन्म – समासाद्य – सावर्णिः – भविता – मनुः ॥18॥ इति – श्री – मार्कण्डेय – पुराणे – सावर्णिके – मन्वन्तरे – देवी – माहात्म्ये । सुरथ – वैश्ययोः – वर – प्रदानम् – नाम – त्रयोदशः – अध्यायः – समाप्तम् ॥ श्री – सप्त – शती – देवी – माहात्म्यम् – समाप्तम् । ॐ – तत् – सत् ॥ आहुति : ॐ – क्लीं – जयंती – सांगायै – स – शक्तिकायै – स – परिवारायै – स – वाहनायै । श्री – महा – त्रिपुर – सुन्दर्यै – महा – आहुतिम् – समर्पयामि – नमः – स्वाहा ॥ हृदय-न्यास : ॐ – खड्गिनी – शूलिनी – घोरा – गदिनी – चक्रिणी – तथा । शंखिणी – चापिनी – बाणा – भुशुण्डी – परिघ – आयुधा ॥ हृदयाय – नमः ॥ शिरो-न्यास : ॐ – शूलेन – पाहि – नः – देवि – पाहि – खड्गेन – च – अम्बिके । घण्टा – स्वनेन – नः – पाहि – चाप – ज्या – निःस्वनेन – च ॥ शिरसे – स्वाहा ॥ शिखा-न्यास : ॐ – प्राच्यां – रक्ष – प्रतीच्यां – च – चण्डिके – दक्ष – रक्षिणे । भ्रामरे – नात्म – शूलस्य – उत्तरस्यां – तथा – ईश्वरि ॥ शिखायै – वषट् ॥ कवच-न्यास : ॐ – सौम्यानि – यानि – रूपाणि – त्रैलोक्ये – विचरन्ति – ते । यानि – च – अत्यन्त – घोराणि – तैः – रक्ष – अस्मान् – तथा – भुवम् ॥ कवचाय – हुम् ॥ नेत्र-त्रय-न्यास : ॐ – खड्ग – शूल – गदा – आदीनि – यानि – च – अस्त्राणि – ते – अम्बिके । कर – पल्लव – सङ्गीनि – तैः – अस्मान् – रक्ष – सर्वतः ॥ नेत्र – त्रयाय – वषट् ॥ करतल-करपृष्ठ-न्यास : ॐ – सर्व – स्वरूपे – सर्व – ईशे – सर्व – शक्ति – समन्विते । भयेभ्यः – त्राहि – नः – देवि – दुर्गे – देवि – नमः – अस्तु – ते ॥ करतल – करपृष्ठाभ्यां – नमः ॥ दिग्बन्धन : ॐ – भूः – भुवः – स्वः – इति – दिक् – विमोकः ॥