।। दुर्गा सप्तशती द्वादशोऽध्यायः।। (फलश्रुतिर्नाम द्वादशोऽध्यायः ) ध्यानं विधि – उद्दाम – सम – प्रभाम् – मृग – पति – स्कन्ध – स्थिताम् – भीषणाम् । कन्याभिः – करवाल – खेट – विलसत् – हस्ताभिः – आ – सेविताम् ॥ हस्तैः – चक्र – गदा – असि – खेट – विशिखाम् – गुणम् – तर्जनीम् । विभ्राणाम् – अनल – आत्मिकाम् – शशि – धराम् – दुर्गाम् – त्रि – नेत्राम् – भजे ॥ देव्युवाच॥1॥ एभिः – स्तवैः – च – मा – नित्यम् – स्तोष्यते – यः – समाहितः । तस्य – अहम् – सकलाम् – बाधाम् – नाशयिष्यामि – अ-संशयम् ॥ 1 ॥ मधु – कैटभ – नाशम् – च – महिषासुर – घातनम् । कीर्तयिष्यन्ति – ये – तद्वत् – वधम् – शुंभ – निशुंभयोः ॥ 2 ॥ अष्टम्याम् – च – चतुर्दश्याम् – नवम्याम् – च – एक-चेतसः । श्रोष्यन्ति – च – एव – ये – भक्त्या – मम – माहात्म्यम् – उत्तमम् ॥ 3 ॥ न – तेषाम् – दुष्कृतम् – किञ्चित् – दुष्कृत – उत्थाः – न – च – आपदः । भविष्यति – न – दारिद्र्यम् – न – च – एव – इष्ट – वियोगनम् ॥ 4 ॥ शत्रुभ्यः – न – भयम् – तस्य – दस्युतः – वा – न – राजतः । न – शस्त्र – अनल – तोय – ओघात् – कदाचित् – सम्भविष्यति ॥ 5 ॥ तस्मात् – मम – एतत् – माहात्म्यम् – पठितव्यम् – समाहितैः । श्रोतव्यम् – च – सदा – भक्त्या – परम् – स्वस्ति – अयनम् – हि – तत् ॥ 6 ॥ उपसर्गान् – अशेषान् – तु – महामारी – समुद्भवान् । तथा – त्रिविधम् – उत्पातम् – माहात्म्यम् – शमयेत् – मम ॥ 7 ॥ यत्र – एतत् – पठ्यते – सम्यक् – नित्यम् – आयतने – मम । सदा – न – तत् – विमोक्ष्यामि – सान्निध्यम् – तत्र – मे – स्थितम् ॥ 8 ॥ बलि – प्रदाने – पूजायाम् – अग्नि – कार्ये – महोत्सवे । सर्वम् – मम – एतत् – माहात्म्यम् – उच्चार्यम् – श्राव्यम् – एव – च ॥ 9 ॥ जानता – अजानता – वा – अपि – बलि – पूजाम् – तथा – कृताम् । प्रतीक्षिष्यामि – अहम् – प्रीत्या – वह्नि – होमम् – तथा – कृतम् ॥ 10 ॥ शरत् – काले – महा – पूजा – क्रियते – या – च – वार्षिकी । तस्याम् – मम – एतत् – माहात्म्यम् – श्रुत्वा – भक्ति – समन्वितः ॥ 11 ॥ सर्व – बाधा – विनिर्मुक्तः – धन – धान्य – समन्वितः । मनुष्यः – मत् – प्रसादेन – भविष्यति – न – संशयः ॥ 12 ॥ श्रुत्वा – मम – एतत् – माहात्म्यम् – तथा – च – उत्पत्तयः – शुभाः । पराक्रमम् – च – युद्धेषु – जायते – निर्भयः – पुमान् ॥ 13 ॥ श्रुत्वा – मम – एतत् – माहात्म्यम् – तथा – च – उत्पत्तयः – शुभाः । पराक्रमम् – च – युद्धेषु – जायते – निर्भयः – पुमान् ॥ 14 ॥ रिपवः – संक्षयम् – यान्ति – कल्याणम् – च – उपपद्यते । नन्दते – च – कुलम् – पुंसाम् – माहात्म्यम् – मम – शृण्वताम् ॥ 15 ॥ शान्ति – कर्माणि – सर्वत्र – तथा – दुःस्वप्न – दर्शने । ग्रह – पीडासु – च – उग्रासु – माहात्म्यम् – शृणुयात् – मम ॥ 16 ॥ उपसर्गाः – शमम् – यान्ति – ग्रह – पीडाः – च – दारुणाः । दुःस्वप्नम् – च – नृभिः – दृष्टम् – सुस्वप्नम् – उपजायते ॥ 17 ॥ बाल – ग्रह – अभिभूतानाम् – बालानाम् – शान्ति – कारकम् । संघात – भेदे – च – नृणाम् – मैत्री – करणम् – उत्तमम् ॥ 18 ॥ दुर्वृत्तानाम् – अशेषाणाम् – बल – हानि – करम् – परम् । रक्षः – भूत – पिशाचानाम् – पठनात् – एव – नाशनम् ॥ 19 ॥ सर्वम् – मम – एतत् – माहात्म्यम् – मम – सन्निधि – कारकम् । पशु – पुष्प – अर्घ्य – धूपैः – च – गन्ध – दीपैः – तथा – उत्तमैः ॥ 20 ॥ विप्राणाम् – भोजनैः – होमैः – प्रोक्षणीयैः – अहर्निशम् । अन्यैः – च – विविधैः – भोगैः – प्रदानैः – वत्सरेण – या ॥ 21 ॥ प्रीतिः – मे – क्रियते – सा – अस्मिन् – सकृत् – उच्चरिते – श्रुते । श्रुतम् – हरति – पापानि – तथा – आरोग्यम् – प्रयच्छति ॥ 22 ॥ रक्षाम् – करोति – भूतेभ्यः – जन्मनाम् – कीर्तनम् – मम । युद्धेषु – चरितम् – यत् – मे – दुष्ट – दैत्य – निबर्हणम् ॥ 23 ॥ तस्मिन् – श्रुते – वैरि – कृतम् – भयम् – पुंसाम् – न – जायते । युष्माभिः – स्तुतयः – याः – च – याः – च – ब्रह्म – ऋषिभिः – कृताः ॥ 24 ॥ ब्रह्मणा – च – कृताः – ताः – तु – प्रयच्छन्तु – शुभाम् – मतिम् । अरण्ये – प्रान्तरे – वा – अपि – दाव – अग्नि – परिवारितः ॥ 25 ॥ दस्युभिः – वा – वृतः – शून्ये – गृहीतः – वा – अपि – शत्रुभिः । सिंह – व्याघ्र – अनुयातः – वा – वने – वा – वन – हस्तिभिः ॥ 26 ॥ राज्ञा – क्रुद्धेन – च – आज्ञप्तः – वध्यः – बद्ध – गतः – अपि – वा । आघूर्णितः – वा – वातेन – स्थितः – पोते – महा – अर्णवे ॥ 27 ॥ पतत्सु – च – अपि – शस्त्रेषु – संग्रामे – भृश – दारुणे । सर्व – बाधासु – घोरासु – वेदनाभिः – अर्दितः – अपि – वा ॥ 28 ॥ स्मरन् – मम – एतत् – चरितम् – नरः – मुच्येत – संकटात् । मम – प्रभावात् – सिंह – आद्याः – दस्यवः – वैरिणः – तथा ॥ 29 ॥ दूरात् – एव – पलायन्ते – स्मरतः – चरितम् – मम ॥ 30 ॥ इति – उक्त्वा – सा – भगवती – चण्डिका – चण्ड – विक्रमा । पश्यताम् – सर्व – देवानाम् – तत्र – एव – अन्तर – अधीयत ॥ 31 ॥ ते – अपि – देवाः – निरातङ्काः – स्व – अधिकारान् – यथा – पुरा । यज्ञ – भाग – भुजः – सर्वे – चक्रुः – विनिहत – अरयः ॥ 32 ॥ दैत्याः – च – देव्या – निहते – शुंभे – देवरिपौ – युधि । जगत् – विध्वंसके – तस्मिन् – महा – उग्रे – अतुल – विक्रमे ॥ 33 ॥ निशुंभे – च – महा – वीर्ये – शेषाः – पातालम् – आययुः ॥ 34 ॥ एवम् – भगवती – देवी – सा – नित्या – अपि – पुनः – पुनः । सम्भूय – कुरुते – भूप – जगतः – परिपालनम् ॥ 35 ॥ तया – एतत् – मोह्यते – विश्वम् – सा – एव – विश्वम् – प्रसूयते । सा – याचिता – च – विज्ञानम् – तुष्टा – ऋद्धिम् – प्रयच्छति ॥ 36 ॥ व्याप्तम् – तया – एतत् – सकलम् – ब्रह्माण्डम् – मनुज – ईश्वर । महा – देव्या – महा – काली – महा – मारी – स्वरूपया ॥ 37 ॥ सा – एव – काले – महा – मारी – सा – एव – सृष्टिः – भवति – अजा । स्थितिम् – करोति – भूतानाम् – सा – एव – काले – सनातनी ॥ 38 ॥ भव – काले – नृणाम् – सा – एव – लक्ष्मीः – वृद्धिः – प्रदा – गृहे । सा – एव – अभावे – तथा – लक्ष्मीः – विनाशाय – उपजायते ॥ 39 ॥ स्तुता – सम्पूजिता – पुष्पैः – गन्ध – धूप – आदिभिः – तथा । ददाति – वित्तम् – पुत्रान् – च – मतिम् – धर्मे – गतिम् – शुभाम् ॥ 40 ॥ ॥ इति – श्री – मार्कण्डेय – पुराणे – सावर्निके – मन्वन्तरे – देवी – माहात्म्ये फल – श्रुतिः – नाम – द्वादशः – अध्यायः – समाप्तम् ॥ 41 ॥ इति – श्री – मार्कण्डेय – पुराणे – सावर्निके – मन्वन्तरे – देवी – माहात्म्ये । फल – श्रुतिः – नाम – द्वादशः – अध्यायः – समाप्तम् ॥ आहुति : ॐ – क्लीं – जयंती – सांगायै – स – शक्तिकायै – स – परिवारायै – स – वाहनायै । वर – प्रदायै – वैष्णवी – देव्यै – महा – आहुतिम् – समर्पयामि – नमः – स्वाहा ॥...