।।दुर्गा सप्तशति एकादशोऽध्यायः।। (नारायणीस्तुतिर्नाम एकादशोऽध्यायः ) ध्यानं ॐ बालार्कविद्युतिं इंदुकिरीटां तुंगकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदांकुशपाशभीतिकरां प्रभजे भुवनेशीम् ॥ ऋषि – उवाच ॥१॥ देव्याः – हते – तत्र – महा – असुर – इन्द्रे स – इन्द्राः – सुराः – वह्नि – पुरोगमाः – ताम् ॥२॥ कात्यायनीम् – तुष्टुवुः – इष्ट – लाभात् विकासि – वक्त्र – अब्ज – विकासित – आशाः ॥२॥ देवि – प्रपन्न – आर्ति – हरे – प्रसीद प्रसीद – मातः – जगतः – अभिलस्य ॥३॥ प्रसीद – विश्व – ईश्वरि – पाहि – विश्वम् त्वम् – ईश्वरी – देवि – चर – अचरस्य ॥३॥ आधार – भूता – जगतः – त्वम् – एका मही – स्वरूपेण – यतः – स्थितासि ॥४॥ अपाम् – स्वरूप – स्थितया – त्वया – एतत् आप्यायते – कृत्स्नम् – अलंघ्य – वीर्ये ॥४॥ त्वम् – वैष्णवी – शक्तिः – अनन्त – वीर्या- विश्वस्य – बीजम् – परमा – असि – माया । सम्मोहितम् – देवि – समस्तम् – एतत् त्वम् – वै – प्रसन्ना – भुवि – मुक्ति – हेतुः ॥५॥ विद्याः – समस्ताः – तव – देवि – भेदाः स्त्रियः – समस्ताः – सकलाः – जगत्सु । त्वया – एकया – पूरितम् – अम्ब – एतत् का – ते – स्तुतिः – स्तव्य – परा – अपरा – उक्तिः ॥६॥ सर्व – भूताः – यदा – देवी – भुक्ति – मुक्ति – प्रदायिनी । त्वम् – स्तुता – स्तुतये – का – वा – भवन्तु – परम – उक्तयः ॥७॥ सर्वस्य – बुद्धि – रूपेण – जनस्य – हृदि – संस्थिते । स्वर्ग – अपवर्ग – दे – देवि – नारायणि – नमः – अस्तु – ते ॥८॥ कला – काष्ठा – आदि – रूपेण – परिणाम – प्रदायिनि । विश्वस्य – उपरतौ – शक्ते – नारायणि – नमः – अस्तु – ते ॥९॥ सर्व – मङ्गल – माङ्गल्ये – शिवे – सर्व – अर्थ – साधिके । शरण्ये – त्रि – अम्बके – गौरी – नारायणि – नमः – अस्तु – ते ॥१०॥ सृष्टि – स्थिति – विनाशानाम् – शक्ति – भूते – सनातनि गुण – आश्रये – गुण – मये – नारायणि – नमः – अस्तु – ते ॥११॥ शरण – आगत – दीन – आर्त – परित्राण – परायणे सर्वस्य – आर्ति – हरे – देवि – नारायणि – नमः – अस्तु – ते ॥१२॥ हंस – युक्त – विमान – स्थे – ब्रह्माणी – रूप – धारिणि कौशाम्भः – क्षरिके – देवि – नारायणि – नमः – अस्तु – ते ॥१३॥ त्रि – शूल – चन्द्र – अहि – धरे – महा – वृषभ – वाहिनि माहेश्वरी – स्वरूपेण – नारायणि – नमः – अस्तु – ते ॥१४॥ मयूर – कुक्कुट – वृते – महा – शक्ति – धरे – अनघे कौमारी – रूप – संस्थाने – नारायणि – नमः – अस्तु – ते ॥१५॥ शंख – चक्र – गदा – शार्ङ्ग – गृहीत – परम – आयुधे प्रसीद – वैष्णवी – रूपे – नारायणि – नमः – अस्तु – ते ॥१६॥ गृहीत – उग्र – महा – चक्रे – दंष्ट्रा – उद्धृत – वसुंधरे वराह – रूपिणि – शिवे – नारायणि – नमः – अस्तु – ते ॥१७॥ नृ – सिंह – रूपेण – उग्रेण – हन्तुम् – दैत्यान् – कृत – उद्यमे त्रै – लोक्य – त्राण – सहिते – नारायणि – नमः – अस्तु – ते ॥१८॥ किरीटिनि – महा – वज्रे – सहस्र – नयन – उज्ज्वले वृत्र – प्राण – हारे – चैन्द्रि – नारायणि – नमः – अस्तु – ते ॥१९॥ शिव – दूती – स्वरूपेण – हत – दैत्य – महा – बले घोर – रूपे – महा – रावे – नारायणि – नमः – अस्तु – ते ॥२०॥ दंष्ट्रा – कराल – वदने – शिरः – माला – विभूषणे चामुंडे – मुंड – मथने – नारायणि – नमः – अस्तु – ते ॥२१॥ लक्ष्मी – लज्जे – महा – विद्ये – श्रद्धे – पुष्टि – स्वधे – ध्रुवे महा – रात्रि – महा – माये – नारायणि – नमः – अस्तु – ते ॥२२॥ मेधे – सरस्वति – वरे – भूति – भाब्रवि – तामसि नियते – त्वं – प्रसीद – ईशे – नारायणि – नमः – अस्तु – ते ॥२३॥ सर्व – स्वरूपे – सर्व – ईशे – सर्व – शक्ति – समन्विते भयेभ्यः – त्राहि – नः – देवि – दुर्गे – देवि – नमः – अस्तु – ते ॥२४॥ एतत् – ते – वदनं – सौम्यं – लोचन – त्रय – भूषितम् पातु – नः – सर्व – भूतेभ्यः – कात्यायिनि – नमः – अस्तु – ते ॥२५॥ ज्वाला – कराल – अति – उग्रं – अशेष – असुर – सूदनम् त्रि – शूलं – पातु – नः – भीतेः – भद्र – कालि – नमः – अस्तु – ते ॥२६॥ हिनस्ति – दैत्य – तेजांसि – स्वनेन – आपूर्य – या – जगत् सा – घंटा – पातु – नः – देवि – पापेभ्यः – नः – सुतान् – इव ॥२७॥ असुर – असृक् – वसा – पंक – चर्चितः – ते – करः – उज्ज्वलः- शुभाय – खड्गः – भवतु – चंडिके – त्वां – नताः – वयम् ॥२८॥ रोगान् – अशेषान् – अपहंसि – तुष्टा-रुष्टा – तु – कामान् – सकलान् – अभीष्टान्-त्वाम् – आश्रितानां – न – विपन्न – राणां-त्वाम् – आश्रिताः – आश्रयतां – प्रयान्ति ॥२९॥ एतत् – कृतं – यत् – कदनं – त्वया – अद्य-दर्प – द्विषां – देवि – महा – असुराणाम् रूपैः – अनेकैः – बहुधा – आत्म – मूर्तिं- कृत्वा – अम्बिके – तत् – प्रकरोति – कान्या ॥३०॥ विद्यासु – शास्त्रेषु – विवेक – दीपे- षु – आद्येषु – वाक्येषु – च – का – त्वत् – अन्या- ममत्व – गर्ते – अति – महा – अन्धकारे- विभ्रामयति – एतत् – अतीव – विश्वम् ॥३१॥ रक्षांसि – यत्र – उग्र – विषाः – च – नागाः- यत्र – अरयः – दस्यु – बलानि – यत्र- दवानलः – यत्र – तथा – अब्धि – मध्ये- तत्र – स्थिता – त्वं – परिपासि – विश्वम् ॥३२॥ विश्व – ईश्वरि – त्वं – परिपासि – विश्वं-विश्व – आत्मिका – धारयसि – इति – विश्वम्- विश्व – ईश – वन्द्या – भवति – भवती- विश्व – आश्रयाः – ये – त्वयि – भक्ति – नम्राः ॥३३॥ देवि – प्रसीद – परिपालय – नः – अरि – भीतेः नित्यं – यथा – असुर – वधात् – अधुना – एव – सद्यः पापानि – सर्व – जगताम् – प्रशमं – नय – आशु उत्पात – पाक – जनितान् – च – महा – उपसर्गान् ॥३४॥ प्रणतानां – प्रसीद – त्वं – देवि – विश्व – आर्ति – हारिणि त्रैलोक्य – वासिनाम् – ईड्ये – लोकानां – वरदा – भव ॥३५॥ देव्युवाच ॥३६॥ वरदा – अहं – सुर – गणाः – परं – यत् – मनसा – इच्छथ तत् – वृणुध्वं – प्रयच्छामि – जगताम् – उपकारकम् ॥३७॥ देवा – ऊचुः ॥३८॥ सर्व – बाधा – प्रशमनं – त्रैलोक्यस्य – अखिल – ईश्वरि एवम् – एव – त्वया – कार्यम् – अस्मत् – वैरि – विनाशनम् ॥३९॥ देव्युवाच ॥४०॥ वैवस्वते – अन्तरे – प्राप्ते – अष्टा – विंशतिमे – युगे शुंभः – निशुंभः – च – एव – अन्यौ – उत्पत्स्येते – महा – असुरौ ॥४१॥ नन्द – गोप – गृहे – जाता – यशोदा – गर्भ – सम्भवा ततः – तौ – नाशयिष्यामि – विन्ध्य – अचल – निवासिनी ॥४२॥ पुनः – अपि – अति – रौद्रेण – रूपेण – पृथिवी – तले अवतीर्य – हनिष्यामि – वैप्रचित्तान् – तु – दानवान् ॥४३॥ भक्षयन्त्याः – च – तान् – उग्रान् – वैप्रचित्तान् – महा – असुरान् रक्त – दन्ताः – भविष्यन्ति – दाडिमी – कुसुम – उपमाः ॥४४॥ ततः – मां – देवताः – स्वर्गे – मर्त्य – लोके – च – मानवाः स्तुवन्तः – व्याहरिष्यन्ति – सततं – रक्त – दन्तिकाम् ॥४५॥ भूयः – च – शत – वार्षिक्यां – अनावृष्ट्याम् – अनम्भसि मुनिभिः – संस्तुता – भूमौ – सम्भविष्यामि – अयोनिजा ॥४६॥ ततः – शतेन – नेत्राणां – निरीक्षिष्यामि – अहं – मुनीन् कीर्तयिष्यन्ति – मनुजाः – शत – अक्षी – इति – मां – ततः ॥४७॥ ततः – अहं – अखिलं – लोकं – आत्म – देह – समुद्भवैः भरिष्यामि – सुराः – शाकैः – आवृष्टेः – प्राण – धारकैः ॥४८॥ शाकम्भरी – इति – विख्यातिं – तदा – यास्यामि – अहं – भुवि- तत्र – एव – च – वधिष्यामि – दुर्गम – आख्यं – महा – असुरम् ॥४९॥ दुर्गा – देवी – इति – विख्यातं – तत् – मे – नाम – भविष्यति पुनः – च – अहं – यदा – भीमं – रूपं – कृत्वा – हिम – अचले ॥५०॥ रक्षांसि – क्षययिष्यामि – मुनीनां – त्राण – कारणात् तदा – मां – मुनयः – सर्वे – स्तोष्यन्ति – आनम्र – मूर्तयः ॥५१॥ भीमा – देवी – इति – विख्यातं – तत् – मे – नाम – भविष्यति यदा – अरुण – आख्यः – त्रै – लोक्ये – महा – बाधां – करिष्यति ॥५२॥ तदा – अहं – भ्रामरं – रूपं – कृत्वा – असंख्येय – षट् – पदम्- त्रै – लोक्यस्य – हित – अर्थाय – वधिष्यामि – महा – असुरम् ॥५३॥ भ्रामरी – इति – च – मां – लोकाः – तदा – स्तोष्यन्ति – सर्वतः- इत्थं – यदा – यदा – बाधा – दानव – उत्था – भविष्यति ॥५४॥ तदा – तदा – अवतीर्य – अहं करिष्यामि – अरि – संक्षयम् ॥५५॥ ॥ स्वस्ति – श्री – मार्कण्डेय – पुराणे – सावर्निके – मन्वन्तरे – देवि – माहात्म्ये नारायणी – स्तुतिः – नाम – एकादशः – अध्यायः – समाप्तम् ॥ आहुति ॐ – क्लीं – जयंती – सांगायै – स-शक्तिकायै – स-परिवारायै – स-वाहनायै लक्ष्मी – बीज – अधिष्ठायै – गरुड – वाहन्यै – नारायणी – देव्यै – महा – आहुतिं – समर्पयामि – नमः – स्वाहा ॥...