।।दुर्गा सप्तशती दशम अध्याय।। (शुंभोवधो नाम दशमोऽध्यायः ) ऋषिरुवाच॥1॥ निशुंभम् – निहतम् – दृष्ट्वा – भ्रातरम् – प्राण – सम्मितम् – हन्यमानम् – बलम् – च – एव – शुंभः – क्रुद्धः – अब्रवीत् – वचः ॥२॥ बल – अवलेप – दुष्टे – त्वम् – मा – दुर्गे – गर्वम् – आवह – अन्यासाम् – बलम् – आश्रित्य – युद्ध्यसे – च – अति – मानिनि ॥३॥ एक – एव – अहम् – जगति – अत्र – द्वितीया – का – मम – अपरा – पश्य – एताः – दुष्ट – मयि – एव – विशन्त्यः – मत् – विभूतयः ॥५॥ ततः – समस्ताः – ताः – देव्यः – ब्रह्माणी – प्रमुखाः – आलयम् – तस्याः – देव्याः – तनौ – जग्मुः – एका – एव – आसीत् – तदा – अम्बिका ॥६॥ अहम् – विभूत्या – बहुभिः – इह – रूपैः – यदा – स्थिता – तत् – संहृतम् – मया – एका – एव – तिष्ठामि – आजौ – स्थिरः – भव ॥८॥ ततः – प्रववृते – युद्धम् – देव्याः – शुंभस्य – च – उभयोः – पश्यताम् – सर्व – देवानाम् – असुराणाम् – च – दारुणम् ॥१०॥ शर – वर्षैः – शितैः – शस्त्रैः – तथा – च – अस्त्रैः – सु – दारुणैः – तयोः – युद्धम् – अभूत् – भूयः – सर्व – लोक – भय – ज्ञंकरम् ॥११॥ दिव्यानि – अस्त्राणि – शतशः – मुमुचे – यानि – यथा – अम्बिका – बभञ्ज – तानि – दैत्य – इन्द्रः – तत् – प्रतिघात – कर्तृभिः ॥१२॥ मुक्तानि – तेन – च – अस्त्राणि – दिव्यानि – परमेश्वरी – बभञ्ज – लीलया – एव – उग्र – हुंकार – उच्चारण – आदिभिः ॥१३॥ ततः – शर – शतैः – देवीम् – आच्छादयत् – सः – असुरः – सा – अपि – तत् – कुपिता – देवी – धनुः – चिच्छेद – इषुभिः ॥१४॥ छिन्ने – धनुषि – दैत्य – इन्द्रः – तथा – शक्तिम् – अथ – आददे – चिच्छेद – देवी – चक्रेण – ताम् – अपि – अस्य – करे – स्थिताम् ॥१५॥ ततः – खड्गम् – उपादाय – शत – चन्द्रम् – च – भानुमत् – अभ्यधावत् – तदा – देवीम् – दैत्यानाम् – अधिप – ईश्वरः ॥१६॥ तस्य – आपततः – एव – आशु – खड्गम् – चिच्छेद – चण्डिका – धनुः – मुक्तैः – शितैः – बाणैः – चर्म – च – अर्क – कर – अमलम् ॥१७॥ हत – अश्वः – पततः – एव – आशु – खड्गम् – चिच्छेद – चण्डिका – जग्राह – मुद्गरम् – घोरम् – अम्बिका – निधन – उद्यतः ॥१८॥ चिच्छेद – आपततः – तस्य – मुद्गरम् – निशितैः – शरैः – तथा – अपि – सः – अभ्यधावत् – तम् – मुष्टिम् – उद्यम्य – वेगवान् ॥१९॥ सः – मुष्टिम् – पातयामास – हृदये – दैत्य – पुंगवः – देव्याः – तम् – च – अपि – सा – देवी – तलेन – उरस्य – ताडयत् ॥२०॥ तल – प्रहार – अभिहतः – निपपात – मही – तले – सः – दैत्य – राजा – सहसा – पुनः – एव – तथा – उत्थितः ॥२१॥ उत्पत्य – च – प्रगृह्य – उच्चैः – देवीम् – गगनम् – आस्थितः – तत्र – अपि – सा – निराधारा – युयुधे – तेन – चण्डिका ॥२२॥ नियुद्धम् – खे – तदा – दैत्यः – चण्डिका – च – परस्परम् – चक्रतुः – प्रधमम् – सिद्धम् – मुनि – विस्मय – कारकम् ॥२३॥ ततः – नियुद्धम् – सुचिरम् – कृत्वा – तेन – अम्बिका – सह – उत्पाट्य – भ्रामयामास – चिक्षेप – धरणी – तले ॥२४॥ सः – क्षिप्तः – धरणीम् – प्राप्य – मुष्टिम् – उद्यम्य – वेगवान् – अभ्यधावत् – दुष्ट – आत्मा – चण्डिका – निधन – इच्छया ॥२५॥ तम् – आयान्तम् – ततः – देवी – सर्व – दैत्य – जन – ईश्वरम् – जगत्याम् – पातयामास – भित्वा – शूलेन – वक्षसि ॥२६॥ सः – गत – असुः – पपात – उर्व्याम् – देवी – शूल – अग्र – विक्षतः – चालयन् – सकलाम् – पृथ्वीम् – स – अब्धि – द्वीपाम् – स – पर्वताम् ॥२७॥ ततः – प्रसन्नम् – अखिलम् – हते – तस्मिन् – दुरात्मनि – जगत् – स्वास्थ्य – मतीव – आप – निर्मलम् – च – अभवत् – नभः ॥२८॥ उत्पात – मेघाः – स – उल्काः – ये – प्राक् – आसन् – ते – शमम् – ययुः – सरितः – मार्ग – वाहिन्यः – तथा – आसन् – तत्र – पातिते ॥२९॥ ततः – देव – गणाः – सर्वे – हर्ष – निर्भर – मानसाः – बभूवुः – निहते – तस्मिन् – गन्धर्वाः – ललितम् – जगुः ॥३०॥ अवादयन् – तथा – एव – अन्ये – ननृतुः – च – अप्सरः – गणाः – ववुः – पुण्याः – तथा – वाताः – सुप्रभः – अभूत् – दिवाकरः ॥३१॥ जज्वलुः – च – अग्नयः – शान्ताः – शान्त – दिक् – जनित – स्वनाः ॥३२॥ ॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निकेमन्वंतरे देवि महत्म्ये शुंभोवधो नाम दशमो ध्यायः समाप्तम् ॥ आहुति ॐ – क्लीं – जयंती – सांगायै – स – शक्तिकायै – स – परिवारायै –स – वाहनायै – कामेश्वर्यै – महा – आहुतिम् – समर्पयामि – नमः – स्वाहा ॥