।।दुर्गा सप्तशति नवमोऽध्यायः ।। निशुंभवधोनाम नवमोध्यायः ॥ ध्यानं ॐ – बन्धूक – काञ्चन – निभम् – रुचिर – अक्ष – मालाम् –पाश – अंकुशौ – च – वरदाम् – निज – बाहु – दण्डैः । बिभ्राणम् – इन्दु – शकल – आभरणाम् – त्रि – नेत्राम् – अर्ध – अम्बिका – ईशम् – अनिशम् – वपुः – आश्रयामि ॥ राजा-उवाच॥१॥ विचित्रम्-इदम्-आख्यातम्-भगवन्-भवता-मम देव्याः-चरितम्-आहात्म्यम्-रक्तबीज-वध-आश्रितम् ॥२॥ भूयः-च-इच्छामि-अहम्-श्रोतुम्-रक्तबीजे-निपातिते चकार-शुंभः-यत्-कर्म-निशुंभः-च-अति-कोपनः ॥३॥ ऋषिः-उवाच ॥४॥ चकार-कोपम्-अतुलम्-रक्तबीजे-निपातिते शुंभ-असुरः-निशुंभः-च-हतेषु-अन्येषु-च-आहवे ॥५॥ हन्यमानम्-महासैन्यम्-विलोक्य-अमर्षम्-उद्वहन् अभ्यदावत्-निशुंभः-अथ-मुख्यया-असुर-सेनया ॥६॥ तस्य-अग्रतः-तथा-पृष्ठे-पार्श्वयोः-च-महासुराः संदष्ट-औष्ठ-पुटाः-क्रुद्धाः-हन्तुम्-देवीम्-उपाययुः ॥७॥ आगजाम-महावीर्यः-शुंभः-अपि-स्व-बलैः-वृतः निहन्तुम्-चंडिकाम्-कोपात्-कृत्वा-युद्धम्-तु-मातृभिः ॥८॥ ततः-युद्धम्-अतीव-आसीत्-देव्याः-शुंभ-निशुंभयोः शर-वर्षम्-अतीव-उग्रम्-मेघयोः-इव-वर्षतोः ॥९॥ चिच्छेद-आस्तान्-छरान्-ताभ्याम्-चंडिका-स्व-शर-उत्करैः ताडयामास-च-अङ्गेषु-शस्त्र-ओघैः-असुर-ईश्वरौ ॥१०॥ निशुंभः-निशितम्-खड्गम्-चर्म-च-आदाय-सु-प्रभम् अताडयत्-मूर्ध्नि-सिंहम्-देव्याः-वाहनम्-उत्तमम् ॥११॥ ताडिते-वाहने-देवी-क्षुर-प्रेण-आसिम्-उत्तमम् शुंभस्य-आशु-चिच्छेद-चर्म-च-अपि-अष्ट-चंद्रकम् ॥१२॥ छिन्ने-चर्मणि-खड्गे-च-शक्तिम्-चिक्षेप-सः-असुरः ताम्-अपि-अस्य-द्विधा-चक्रे-चक्रेण-अभिमुख-आगताम्॥१३॥ कोप-आध्मातः-निशुंभः-अथ-शूलम्-जग्राह-दानवः आयातम्-मुष्टि-पातेन-देवी-तत्-च-अपि-अचूर्णयत् ॥१४॥ आविद्ध्य-अथ-गदाम्-सः-अपि-चिक्षेप-चंडिकाम्-प्रति सा-अपि-देव्याः-त्रिशूलेन-भिन्ना-भस्मत्वम्-आगता ॥१५॥ ततः-परशु-हस्तम्-तम्-आयान्तम्-दैत्य-पुंगवम् आहत्य-देवी-बाण-ओघैः-अपातयत्-भूतले॥१६॥ तस्मिन्-निपतिते-भूमौ-निशुंभे-भीम-विक्रमे भ्रातरि-अतीव-संक्रुद्धः-प्रययौ-हन्तुम्-अम्बिकाम् ॥१७॥ सः-रथ-स्थः-तथा-अत्युच्छैः-गृहीत-परम-आयुधैः भुजैः-अष्टाभिः-अतुलैः-व्याप्य-अशेषम्-बभौ-नभः ॥१८॥ तम्-आयान्तम्-समालोक्य-देवी-शंखम्-अवादयत् ज्या-शब्दम्-च-अपि-धनुषः-चकार-अतीव-दुःसहम्॥१९॥ पूरयामास-ककुभः-निज-घण्टा-स्वनेन-च समस्त-दैत्य-सैन्यानाम्-तेजः-वध-विधायिना ॥२०॥ ततः-सिंहः-महा-नादैः-त्याजित-एभः-महा-मदैः पूरयामास-गगनम्-गाम्-तथा-एव-दिशः-दश ॥२१॥ ततः-काली-समुत्पत्य-गगनम्-क्ष्माम्-अताडयत् कराभ्याम्-तत्-निनादेन-प्राक्-स्वनाः-ते-तिरोहिताः॥२२॥ अट्ट-अट्ट-हासम्-अशिवम्-शिव-दूती-चकार-ह वैः-शब्दैः-असुराः-त्रेसुः-शुंभः-कोपम्-परम्-ययौ॥२३॥ दुरात्मन्-तिष्ठ-तिष्ठ-इति-व्याज-हार-अम्बिका-यदा तदा-जय-इति-अभिहितम्-देवैः-आकाश-स्थितैः॥२४॥ शुंभेन-आगत्य-या-शक्तिः-मुक्ता-ज्वाला-अति-भीषणा आयान्ती-वह्नि-कूट-आभा-सा-निरस्ता-महा-उल्कया॥२५॥ सिंह-नादेन-शुंभस्य-व्याप्तम्-लोक-त्रय-अन्तरम् निर्घात-निःस्वनः-घोरः-जितवान्-अवनी-पते॥२६॥ शुंभ-मुक्तान्-शरान्-देवी-शुंभः-तत्-प्रहितान्-शरान् चिच्छेद-स्व-शरैः-उग्रैः-शतशः-अथ-सहस्रशः॥२७॥ ततः-सा-चंडिका-क्रुद्धा-शूलेन-अभि-जघान-तम् सः-तदा-अभि-हतः-भूमौ-मूर्छितः-निपपात-ह॥२८॥ ततो-निशुंभः-सम्प्राप्य-चेतनाम्-आत्त-कार्मुकः आ-जहान-शरैः-देवीं-कालीन्-केसरिणम्-तथा॥२९॥ पुनः-च- कृत्वा-बहूनाम्-अयुतम्-दानव-ईश्वरः चक्र-आयुधेन-दीतिजः-च-अदयामास-चंडिकाम्॥३०॥ ततः-भगवती-क्रुद्धा-दुर्गा-दुर्ग-आर्ति-नाशिनी चिच्छेद-देवी-चक्राणि-स्व-शरैः-सायकान्-च-तान्॥३१॥ ततः-निशुंभः-वेगेन-गदाम्-आदाय-चंडिकाम् अभ्य-धावत-वै-हन्तुम्-दैत्य-सेना-समावृतः॥३२॥ तस्य-आपततः-एव-आशु-गदाम्-चिच्छेद-चंडिका खड्गेन-शित-धारेण-सः-च-शूलम्-समाददे॥३३॥ शूल-हस्तम्-समायान्तम्-निशुंभम्-अमर-अर्दनम् हृदि-वि-व्याध-शूलेन-वेग-आविद्धेन-चंडिका॥३४॥ खिन्नस्य-तस्य-शूलेन-हृदयात्-निःसृतः-अपरः महा-बलः-महा-वीर्यः-तिष्ठ-इति-पुरुषः-वदन्॥३५॥ तस्य-निष्क्रामतः-देवी-प्रहस्य-स्वनवत्-ततः शिरः-चिच्छेद-खड्गेन-ततः-असौ-अपतत्-भुवि॥३६॥ ततः-सिंहः-च-खाद-उग्र-दम्ष्ट्रा-आक्षुण्ण-शिरोधरान् असुरान्-तान्-तथा-कालि-शिव-दूती-तथा-अपरान्॥३७॥ कौमारी-शक्ति-निर्भिन्नाः-केचित्-नेशुः-महा-असुराः ब्रह्माणी- मन्त्र-पूतेन-तोयेन-अन्ये-निराकृताः॥३८॥ माहेश्वरी-त्रिशूलेन-भिन्नाः-पेतुः-तथा-अपरे वाराही-तुंड-घातेन-केचित्-चूर्णी-कृताः-भुवि॥३९॥ खंडम्-खंडम्-च-चक्रेण-वैष्णव्या-दानवाः-कृताः वज्रेण-च-ऐंद्री-हस्त-अग्र-विमुक्तेन-तथा-अपरे॥४०॥ केचित्-विनेशुः-असुराः-केचित्-नष्टाः-महा-अहवात् भक्षिताः-च-अपरे-कालि-शिव-दूती-मृग-अधिपैः॥४१॥ स्वस्ति-श्री-मार्कण्डेय-पुराणे-सावर्णिके-मन्वन्तरे देवि-महात्म्ये-निशुंभ-वधः-नाम-नवमः-अध्यायः-समाप्तः॥४२॥ आहुति ॐ-क्लीं-जयन्ती-साङ्गायै-स-आयुधायै-स-शक्तिकायै स-परिवारायै-स-वाहनायै-महा-आहुतिम्-समर्पयामि-नमः-स्वाहा॥...