।। दुर्गा सप्तशति अष्टमोऽध्यायः।। ध्यानं : अरुणाम् – करुणा – तरंगित – अक्षीम् धृत – पाश – अंकुश – पुष्प – बाण – चापाम् । अणिमा – आधिभिः – आवृताम् – मयूखैः रहम् – इति – एव – विभावये – भवानीम् ॥ ऋषिरुवाच ॥1॥ चण्डे-च-निहते-दैत्ये- मुण्डे-च-विनिपातिते । बहुलेषु-च-सैन्येषु- क्षयितेषु-असुरेश्वरः ॥2॥ ततः-कोप-पराधीन-चेताः शुंभः-प्रतापवान् उद्योगम्-सर्व-सैन्यानाम् दैत्यानाम्-आदिदेश-ह ॥3॥ अद्य-सर्व-बलैः-दैत्याः षडशीति-उदायुधाः कंबूनाम्-चतुरशीति निर्गच्छन्तु-स्व-बलैः-वृताः ॥4॥ कोटि-वीर्याणि-पञ्चाशत् असुराणाम्-कुलानि-वै शतं-कुलानि-धौम्राणाम् निर्गच्छन्तु-मम-आज्ञया ॥5॥ कालकाः-दौर्हदाः-मौर्वाः कालिकेयाः-तथा-असुराः युद्धाय-सज्जाः-निर्गच्छन्तु आज्ञया-त्वरिताः-मम ॥6॥ इति-आज्ञाप्य-असुर-अधिपतिः शुंभः-भैरव-शासनः निर्जगाम-महा-सैन्यैः बहुभिः-सह-वृतः ॥7॥ आयान्तम्-चण्डिका-दृष्ट्वा तत्-सैन्यम्-अति-भीषणम् ज्या-स्वनैः-पूरयामास धरणी-गगन-अन्तरम् ॥8॥ ततः-सिंहः-महा-नादम् अतीव-कृतवान्-नृप घण्टा-स्वनेन-तान्-नादान् अम्बिका-च-उपबृंहयत् ॥9॥ धनुः-ज्या-सिंह-घण्टानाम् नादैः-पूरित-दिक्-मुखा निनादैः-भीषणैः-काली जिग्ये-विस्तारित-आनना ॥10॥ तम्-निनादम्-उपश्रुत्य दैत्य-सैन्यैः-चतुर्दिशम् देवी-सिंहः-तथा-काली स-रोषैः-परिवारिताः ॥11॥ एतस्मिन्-अन्तरे-भूप विनाशाय-सुर-द्विषाम् भवाय-अमर-सिंहानाम् अति-वीर्य-बल-अन्विताः ॥12॥ ब्रह्म-ईश-गुह-विष्णूनाम् तथा-इन्द्रस्य-च-शक्तयः शरीरेभ्यः-विनिष्क्रम्य तद्-रूपैः-चण्डिकाम्-ययुः ॥13॥ यस्य-देवस्य-यत्-रूपम् यथा-भूषण-वाहनम् तद्-वत्-एव-हि-तत्-शक्तिः असुरान्-योद्धुम्-आययौ ॥14॥ हंस-युक्त-विमान-अग्रे स-अक्ष-सूत्र-क-मण्डलुः आयाता-ब्रह्मणः-शक्तिः ब्रह्माणी-इति-अभिधीयते ॥15॥ महेश्वरी-वृष-आरूढा त्रि-शूल-वर-धारिणी महा-अहि-वलया-प्राप्ता चन्द्र-रेखा-विभूषणा ॥16॥ कौमारी-शक्ति-हस्ता-च मयूर-वर-वाहना योद्धुम्-अभ्याययौ-दैत्यान् अम्बिका-गुह-रूपिणी ॥17॥ तथा-एव-वैष्णवी-शक्तिः गरुड-उपरि-संस्थिता शंख-चक्र-गदा-शार्ङ्ग खड्ग-हस्ता-अभ्युपाययौ ॥18॥ यज्ञ-वाराहम्-अतुलम् रूपम्-या-बिभ्रतः-हरेः शक्तिः-सा-अपि-आययौ-तत्र वाराहीम्-बिभ्रती-तनुम् ॥19॥ नारसिंही-नृसिंहस्य बिभ्रती-सदृशम्-वपुः प्राप्ता-तत्र-सट-आक्षेप क्षिप्त-नक्षत्र-संहतिः ॥20॥ वज्र-हस्ता-तथा-एव-इन्द्री गज-राज-परिस्थिता प्राप्ता-सहस्र-नयना यथा-शक्रः-तथा-एव-सा ॥21॥ ततः-परिवृत्ता-ताभिः ईशानो-देव-शक्तिभिः हन्यन्ताम्-असुराः-शीघ्रम् मम-प्रीत्या-आह-चण्डिकाम् ॥22॥ ततः-देवी-शरीरात्-तु विनिष्क्रान्ता-अति-भीषणा चण्डिका-शक्तिः-अति-उग्रा शिव-शत-निनादिनी ॥23॥ सा-च-आह-धूम्र-जटिलम् ईशानम्-अपराजिता दूतत्वम्-गच्छ-भगवन् पार्श्वम्-शुम्भ-निशुम्भयोः ॥24॥ ब्रूहि-शुम्भम्-निशुम्भम्-च दानवौ-अति-गर्वितौ ये-च-अन्ये-दानवाः-तत्र युद्धाय-समुपस्थिताः ॥25॥ त्रैलोक्यम्-इन्द्रः-लभताम् देवाः-सन्तु-हविः-भुजः यूयम्-प्रयात-पातालम् यदि-जीवितुम्-इच्छथ ॥26॥ बल-अवलेपात्-अथ-चेत् भवन्तः-युद्ध-काङ्क्षिणः तदा-गच्छत-तृप्यन्तु मत्-शिवाः-पिशितेन-वः ॥27॥ यतः-नियुक्ता-दौत्येन तया-देव्या-शिवः-स्वयम् शिव-दूती-इति-लोके-अस्मिन् ततः-सा-ख्यातिम्-आगता ॥28॥ ते-अपि-श्रुत्वा-वचः-देव्याः शर्व-आख्यातम्-महा-असुराः अमर्ष-आपूरिताः-जग्मुः यत्र-कात्यायनी-स्थिता ॥29॥ ततः-प्रथमम्-एव-अग्रे शर-शक्ति-ऋष्टि-वृष्टिभिः ववर्षुः-उद्धत-अमर्षाः ताम्-देवीम्-अमर-अरयः ॥30॥ सा-च-तान्-प्रहितान्-बाणान् शूल-शक्ति-परश्वधान् चिच्छेद-लीलया-ध्मात धनुः-मुक्तैः-महा-इषुभिः ॥31॥ तस्य-अग्रतः-तथा-काली शूल-पात-विदारितान् खट्वाङ्ग-पोथितान्-च-अरीन् कुर्वन्ती-व्यचरत्तदा ॥32॥ कमण्डलु-जल-आक्षेप हत-वीर्यान्-हत-ओजसः ब्रह्माणी-च-अकरोत्-शत्रून् येन-येन-स्म-धावति ॥33॥ माहेश्वरी-त्रिशूलेन तथा-चक्रेण-वैष्णवी दैत्यान्-जघान-कौमारी तथा-शक्त्या-अति-कोपना ॥34॥ ऐन्द्री-कुलिश-पातेन शतशः-दैत्य-दानवाः पेतुः-विदारिताः-पृथिव्याम् रुधिर-ओघ-प्रवर्षिणः ॥35॥ तुंड-प्रहार-विध्वस्ताः दंष्ट्रा-ग्रक्षत-वक्षसः वाराह-मूर्त्या-न्यपतन् चक्रेण-च-विदारिताः ॥36॥ नखैः-विदारितान्-च-अन्यान् भक्षयन्ती-महा-असुरान् नारसिंही-च-चार-आजौ नाद-पूर्ण-दिगम्बराः ॥37॥ चण्ड-अट्टहासैः-असुराः शिव-दूती-अभिदूषिताः पेतुः-पृथिव्याम्-पतितान् तान्-च-अखाद्-अथ-सा-तदा ॥38॥ इति-मातृ-गणम्-क्रुद्धम् मर्दयन्तम्-महा-असुरान् दृष्ट्वा-अभ्युपायैः-विविधैः नेशुः-देव-अरि-सैनिकाः ॥39॥ पलायन-परान्-दृष्ट्वा दैत्यान्-मातृ-गण-अर्दितान् योद्धुम्-अभ्याययौ-क्रुद्धः रक्तबीजः-महा-असुरः ॥40॥ रक्त-बिन्दुः-यदा-भूमौ पतति-अस्य-शरीरतः समुत्पतति-मेदिन्याम् तत्-प्रमाणः-महा-असुरः ॥41॥ युयुधे-सः-गदा-पाणिः इन्द्र-शक्त्या-महा-असुरः ततः-च-ऐन्द्री-स्व-वज्रेण रक्तबीजम्-अताडयत् ॥42॥ कुलिशेन-आहतस्य-आशु बहु-सुस्राव-शोणितम् समुत्तस्थुः-ततः-योधाः तत्-रपाः-तत्-पराक्रमाः ॥43॥ यावन्तः-पतिताः-तस्य शरीरात्-रक्त-बिन्दवः तावन्तः-पुरुषाः-जाताः तत्-वीर्य-बल-विक्रमाः ॥44॥ ते-च-अपि-युयुधुः-तत्र पुरुषाः-रक्त-सम्भवाः समम्-मातृभिः-अति-उग्र शस्त्र-पात-अति-भीषणम् ॥45॥ पुनः-च-वज्र-पातेन क्षतम्-अस्य-शिरः-यदा ववाह-रक्तम्-पुरुषाः ततः-जाताः-सहस्रशः ॥46॥ वैष्णवी-समरे-च-एनम् चक्रेण-अभि-जघान-ह गदया-ताडयामास ऐन्द्री-तम्-असुर-ईश्वरम् ॥47॥ वैष्णवी-चक्र-भिन्नस्य रुधिर-स्राव-सम्भवैः सहस्रशः-जगत्-व्याप्तम् तत्-प्रमाणैः-महा-असुरैः ॥48॥ शक्त्या-जघान-कौमारी वाराही-च-तथा-असिना माहेश्वरी-त्रिशूलेन रक्तबीजम्-महा-असुरम् ॥49॥ सः-च-अपि-गदया-दैत्यः सर्वाः-एव-अहनत्-पृथक् मातॄः-कोप-समाविष्टः रक्तबीजः-महा-असुरः ॥50॥ तस्य-आहतस्य-बहुधा शक्ति-शूल-आदिभिः-भुविः पपात-यः-वै-रक्त-ओघः तेन-असंचतशः-असुराः ॥51॥ तैः-च-असुर-असृक्-सम्भूतैः असुरैः-सकलम्-जगत् व्याप्तम्-आसीत्-ततः-देवाः भयम्-आजग्मुः-उत्तमम् ॥52॥ तान्-विशण्णान्-सुरान्-दृष्ट्वा चण्डिका-प्राह-सत्वरम् उवाच-कालिम्-चामुण्डे विस्तीर्णम्-वदनम्-कुरु ॥53॥ मत्-शस्त्र-पात-सम्भूतान् रक्त-बिन्दून्-महा-असुरान् रक्त-बिन्दोः-प्रतीच्छ-त्वम् वक्त्रेण-अनेन-वेगिना ॥54॥ भक्षयन्ती-चर-रणे तत्-उत्पन्नान्-महा-असुरान् एवम्-एषः-क्षयम्-दैत्यः क्षणेन-रक्तः-गमिष्यति ॥55॥ भक्ष्यमाणाः-त्वया-च-उग्राः न-च-उत्पत्स्यन्ति-च-अपरे इति-उक्त्वा-ताम्-ततः-देवी शूलेन-अभि-जघान-तम् ॥56॥ मुखेन-कालि-जगृहे रक्तबीजस्य-शोणितम् ततः-असौ-अजघान-अथ गदया-तत्र-चण्डिकाम् ॥57॥ न-च-अस्या-वेदनाम्-चक्रे गदा-पातः-अल्पिकाम्-अपि तस्य-आहतस्य-देहात्-तु बहु-सुस्राव-शोणितम् ॥58॥ यतः-ततः-तत्-वक्त्रेण चामुण्डा-सम्प्रतीच्छति मुखे-समुद्गताः-ये-स्या रक्त-पातात्-महा-असुराः ॥59॥ तान्-च-अखाद्-अथ-चामुण्डा पपौ-तस्य-च-शोणितम् देवी-शूलेन-वज्रेण बाणैः-असिभिः-ऋष्टिभिः ॥60॥ जघान-रक्तबीजम्-तम् चामुण्डा-पीत-शोणितम् सः-पपात-मही-पृष्ठे शस्त्र-संघ-समाहतः ॥61॥ नीरक्तः-च-मही-पाले रक्तबीजः-महा-असुरः ततः-ते-हर्षम्-अतुलम् अवापुः-त्रिदशाः-नृप ॥62॥ तेषाम्-मातृ-गणः-जातः ननर्त-आसृङ्ग-मद-उद्धतः ॥63॥ ॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तम् ॥ आहुति: ॐ जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥...