।।दुर्गा सप्तशती सप्तम अध्याय।। चंडमुंड वधो नाम सप्तमोध्यायः ॥ ध्यानं ध्यायें-रत्न-पीठे-शुक-कल-पठितम्-श्रुण्वतीम्-श्यामल-अंगीम् न्यस्त-एक-अंघ्रिम्-सरोजे-शशि-शकल-धराम्-वल्लकीम्-वादयन्तीम् कहलार-आबद्ध-मालाम्-नियमित-विलसत्-चोलिकाम्-रक्त-वस्त्राम् मातंगीम्-शंख-पात्राम्-मधुर-मधु-मदाम्-चित्रक-उद्भासि-भालाम्।। ऋषिरुवाच: आज्ञप्ताः-ते-ततः-दैत्याः-चंड-मुंड-पुरोगमाः चतुर-अंग-बल-उपेताः-ययुः-अभि-उद्यत-आयुधाः ॥1॥ ददृशुः-ते-ततः-देवीम्-ईषत्-हासाम्-व्यवस्थिताम् सिंहस्य-उपरि-शैल-इन्द्र-शृंगे- महति-कांचने ॥2॥ ते-दृष्ट्वा-ताम्-समादातुम्-उद्यमम्-चक्रुः-उद्यताः आकृष्ट-चाप-असि-धराः-तथा-अन्ये-तत्-समीप-गाः ॥3॥ ततः-कोपम्-चकार-उच्चैः-अम्बिका-तान्-अरीन्-प्रति कोपेन-च-आस्याः-वदनम्-मषी-वर्णम्-अभूत्-तदा ॥4॥ भ्रुकुटी-कुटिलात्-तस्याः-ललाट-फलकात्-द्रुतम् काली-कराल-वदना-विनिष्क्रान्ता-असि-पाशिनी ॥5॥ विचित्र-खट्वांग-धरा-नर-माला-विभूषणा द्वीपि-चर्म-परिधानाः-शुष्क-मांसाः-अति-भैरवा ॥6॥ अति-विस्तार-वदना-जिह्वा-ललन-भीषणा निमग्न-रक्त-नयना-नाद-आपूरित-दिक्-मुखा ॥7॥ सा-वेगेन-अभि-पतिता-घूतयन्ती- महा-असुरान् सैन्ये-तत्र-सुर-अरीणाम्-अभक्षयत-तत्-बलम् ॥8॥ पार्ष्णि-ग्राह-अंकुश-ग्राहि-योध-घंटा-समन्वितान् समादाय-एक-हस्तेन-मुखे-चिक्षेप-वारणान् ॥9॥ तथा-एव-योधम्-तुरगैः-रथम्-सारथिना-सह निक्षिप्य-वक्त्रे-दशनैः-चर्वयति-अति-भैरवम् ॥10॥ एकम्-जग्राह-केशेषु-ग्रीवायाम्-अथ-च-अपरम् पादेन-आक्रम्य-च-एव-अन्यम्-उरसि-अन्यम्-अपोथयत् ॥11॥ तैः-मुक्तानि-च-शस्त्राणि-महा-अस्त्राणि-तथा-असुरैः मुखेन-जग्राह-रुषा-दशनैः-मथितानि-अपि ॥12॥ बलिनाम्-तत्-बलम्-सर्वम्-असुराणाम्-दुरात्मनाम् ममर्द-आभक्षयत्-च-अन्यान्-अन्यान्-च-अताडयत्-तथा ॥13॥ असिना-निहताः-केचित्-केचित्-खट्वांग-ताडिताः जग्मुः-विनाशम्-असुराः-दन्त-अग्र-अभिहताः-तथा ॥14॥ क्षणेन-तत्-बलम्-सर्वम्-असुराणाम्-निपातितम् दृष्ट्वा-चंडः-अभिदुद्राव-ताम्-कालीम्-अति-भीषणाम् ॥15॥ शर-वर्षैः-महा-भीमैः-भीम-अक्षीम्-ताम्-महा-असुरः छादयामास-चक्रैः-च-मुंडः-क्षिप्तैः-सहस्रशः ॥16॥ तानि-चक्राणि-अनेकानि-विशमानानि-तत्-मुखम् बभुः-यथा-अर्क-बिम्बानि-सु-बहूनि-घन-उदरम् ॥17॥ ततः-जिहास-आति-रुषा-भीमम्-भैरव-नादिनी काली-कराल-वदना-दुर्दर्श-दशन-उज्ज्वला ॥18॥ उत्थाय-च-महा-सिंहम्-देवी-चंडम्-अधावत गृहीत्वा-च-आस्य-केशेषु-शिरः-तेन-असिना-अच्छिनत् ॥19॥ अथ-मुंडः-अभ्यधावत्-ताम्-दृष्ट्वा-चंडम्-निपातितम् तम्-अपि-अपातयत्-भूमौ-सा-खड्ग-अभिहतम्-रुषा ॥20॥ हत-शेषम्-ततः-सैन्यम्-दृष्ट्वा-चंडम्-निपातितम् मुंडम्-च-सु-महा-वीर्यम्-दिशः-भेजे-भय-आतुरम् ॥21॥ शिरः-चंडस्य-काली-च-गृहीत्वा-मुंडम्-एव-च प्राह-प्रचंड-अट्ट-हास-मिश्रम्-अभ्येत्य-चंडिकाम् ॥22॥ मया-तव-अत्र-उपहृतौ-चंड-मुंडौ-महा-पशू युद्ध-यज्ञे-स्वयम्-शुंभम्-निशुंभम्-च-हनिष्यसि ॥23॥ ऋषिरुवाच तौ-आनीतौ-ततः-दृष्ट्वा-चंड-मुंडौ-महा-असुरौ उवाच-कालीम्-कल्याणी-ललितम्-चंडिका-वचः ॥24॥ यस्मात्-चंडम्-च-मुंडम्-च-गृहीत्वा-त्वम्-उपागता चामुंडा-इति-ततः-लोके-ख्याता-देवी-भविष्यसि ॥25॥ आहुति ॐ-क्लीं-जयन्ती-सांगायै-स-शक्तिकायै-स-परिवारायै स-वाहनायै-काली-चामुंडा-देव्यै-कर्पूर-बीज-अधिष्ठायै महा-आहुतिम्-समर्पयामि-नमः-स्वाहा ॥