।। दुर्गा सप्तशती षष्ठम अध्याय।। शुंभनिशुंभसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ॥ ध्यानं नग-अधीश्वर-विश्त्रां-फणि-फण-उत्तंस-उरु-रत्न-आवली भास्वत्-देह-लतां-निभ-उ-नेत्रयोः-उद्भासिताम् । माला-कुंभ-कपाल-नीरज-करां-चन्द्र-अर्ध-चूढा-अम्बराम् सर्व-ईश्वर-भैरव-अंग-निलयां-पद्मावती-चिंतये ॥॥ ऋषिरुवाच ॥1॥ इति-आकर्ण्य-वचः-देव्याः-सः-दूतः-अमर्ष-पूरितः सम्-आचष्ट-सम्-आगम्य-दैत्य-राजाय-विस्तरात् ॥2॥ तस्य-दूतस्य-तत्-वाक्यम्-आकर्ण्य-असुर-राट्-ततः सः-क्रोधः-प्राह-दैत्य-नाम्-अधिपं-धूम्र-लोचनम् ॥3॥ हे-धूम्र-लोचन-आशु-त्वम्-स्व-सैन्य-परिवारितः ताम्-आनय-बलात्-दुष्टाम्-केश-आकर्षण-विह्वलाम् ॥4॥ तत्-परित्राण-दः-कश्चित्-यदि-वः-उत्तिष्ठते-अपरः सः-हन्तव्यः-अमरः-वा-अपि-यक्षः-गन्धर्वः-एव-वा ॥5॥ ऋषिरुवाच ॥6॥ तेन-आज्ञप्तः-ततः-शीघ्रम्-सः-दैत्यः-धूम्र-लोचनः वृतः-षष्ट्या-सहस्राणाम्-असुराणाम्-द्रुतम्-ययौ ॥6॥ न- दृष्ट्वा-ताम्-ततः-देवीं-तुहिन-अचल-संस्थिताम् जगाद-उच्चैः-प्रयाही-इति-मूलम्-शुंभ-निशुंभयोः ॥8॥ न-चेत्-प्रीत्या-अद्य-भवती-मद्-भर्तारम्-उपैष्यति ततः-बलात्-नयामि-एष-केश-आकर्षण-विह्वलाम् ॥9॥ देव्युवाच ॥10॥ दैत्य-ईश्वरेण-प्रहितः-बलवान्-बल-संवृतः बलात्-नयसि-माम्-एवम्-ततः-किम्-ते-करोमि-अहम् ॥11॥ ऋषिरुवाच ॥12॥ इति-उक्तः-सः-अभ्यधावत्-ताम्-असुरः-धूम्र-लोचनः हूं-कारेण-एव-तम्-भस्म-सा-चकार-अम्बिका-तदा ॥13॥ अथ-क्रुद्धम्-महा-सैन्यम्-असुराणाम्-तथा-अम्बिका ववर्ष-सायकैः-तीक्ष्णैः-तथा-शक्ति-परश्वधैः ॥14॥ ततः-धुत-सटः-कोपात्-कृत्वा-नादम्-सु-भैरवम् पपात-असुर-सेनायाम्-सिंहः-देव्याः-स्व-वाहनः ॥15॥ कांश्चित्-कर-प्रहारेण-दैत्य-आनास्येन-च-अपरान् आक्रान्त्या-च-अधरेण्यान्-जघान-सः-महा-असुरान् ॥16॥ केषांचित्-पाटयामास-नखैः-कोष्ठानि-केसरी तथा-तल-प्रहारेण-शिरांसि-कृतवान्-पृथक् ॥17॥ विच्छिन्न-बाहु-शिरसः-कृताः-तेन-तथा-अपरे पपौ-च-रुधिरम्-कोष्ठात्-अन्येषाम्-धुत-केसरः ॥18॥ क्षणेन-तत्-बलम्-सर्वम्-क्षयम्-नीतम्-महा-आत्मना तेन-केसरिणा-देव्याः-वाहनेन-अति-कोपिना ॥19॥ श्रुत्वा-तम्-असुरम्-देव्याः-निहतम्-धूम्र-लोचनम् बलम्-च-क्षयितम्-कृत्स्नम्-देवी-केसरिणा-ततः ॥20॥ चुकोप-दैत्य-अधिपतिः-शुंभः-प्रस्फुरित-अधरः आज्ञापयामास-च-तौ-चण्ड-मुण्डौ-महा-असुरौ ॥21॥ हे-चण्ड-हे-मुण्ड-बलैः-बहुभिः-परिवारितौ तत्र-गच्छत-गत्वा-च-सा-सम्-आनीयताम्-लघु ॥22॥ केशेषु-आकृष्य-बद्ध्वा-वा-यदि-वः-संशयः-युधि तदा-अशेषाः-युधैः-सर्वैः-असुरैः-विनिहन्यताम् ॥23॥ तस्याम्-हतायाम्-दुष्टायाम्-सिंहे-च-विनिपातिते शीघ्रम्-आगम्यताम्-बद्ध्वा-गृहीत्वा-ताम्-अथ-अम्बिकाम् ॥24॥ आहुति ॐ-क्लीं-जयन्ती-सांगायै-स-शक्तिकायै-स-परिवारायै स-वाहनायै-महा-आहुतिम्-समर्पयामि-नमः-स्वाहा ॥२५॥