।। दुर्गा सप्तशती चतुर्थ अध्याय।। शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥ ध्यानं काल – अभ्र – आभाम् – कटाक्षैः – अरि – कुल – भय – दाम् – मौलि – बद्ध – इन्दु – रेखाम् शङ्ख – चक्रम् – कृपाणम् – त्रि – शिखम् – अपि – करैः – उद्वहन्तीम् – त्रि – नेत्राम् । सिंह – स्कन्ध – अधिरूढाम् – त्रि – भुवनम् – अखिलम् – तेजसा – पूरयन्तीम् ध्यायेत् – दुर्गाम् – जय – आख्याम् – त्रि – दश – परिवृताम् – सेविताम् – सिद्धि – कामैः ॥ ऋषिरुवाच ॥1॥ शक्र-आदयः – सुर-गणाः – निहते – अति-वीर्ये तस्मिन् – दुर्-आत्मनि – सुर-अरि-बले – च – देव्याः ताम् – तुष्टुवुः – प्रणति – नम्र – शिरः-धर – अंसाः वाक्-भिः – प्र-हर्ष – पुलक – उद्गम – चारु – देहाः ॥२॥ देव्याः – यया – ततम् – इदम् – जगत् – आत्म-शक्त्या निः-शेष – देव-गण – शक्ति – समूह – मूर्त्या ताम् – अम्बिकाम् – अखिल – देव – महा-ऋषि – पूज्याम् भक्त्या – नताः – स्म – विदधातु – शुभानि – सा – नः ॥३॥ यस्याः – प्रभावम् – अतुलम् – भगवान् – अनन्तः ब्रह्मा – हरः – च – न – हि – वक्तुम् – अलम् – बलम् – च सा – चण्डिका – अखिल – जगत् – परि-पालनाय नाशाय – च – अशुभ – भयस्य – मतिम् – करोतु ॥४॥ या – श्रीः – स्वयं – सु-कृतिनाम् – भवनेषु – अलक्ष्मीः पाप-आत्मनाम् – कृत-धियाम् – हृदयेषु – बुद्धिः श्रद्धा – सताम् – कुल-जन – प्रभवस्य – लज्जा ताम् – त्वाम् – नताः – स्म – परि-पालय – देवि – विश्वम् ॥५॥ किम् – वर्णयाम – तव – रूपम् – अ-चिन्त्यम् – एतत् किम् – च – अति-वीर्यम् – असुर – क्षय – कारि – भूरि किम् – च – अहवेषु – चरितानि – तव – अद्भुतानि सर्वेषु – देवि – असुर – देव – गण – आदिकेषु ॥६॥ हेतुः – समस्त – जगताम् – त्रि-गुण – अपि – दोषैः न – ज्ञायसे – हरि – हर – आदि-भिः – अ-व्यपारा सर्व-आश्रया – अखिलम् – इदम् – जगत् – अंश – भूतम् अ-व्याकृता – हि – परमा – प्रकृतिः – त्वम् – आद्या ॥७॥ यस्याः – समस्त – सुर-ता – समुदीरणेन तृप्तिम् – प्रयाति – सकलेषु – मखेषु – देवि स्वाहा – असि – वै – पितृ – गणस्य – च – तृप्ति – हेतुः उच्चार्यसे – त्वम् – अत – एव – जनैः – स्वधा – च ॥८॥ या – मुक्ति – हेतुः – अ-वि-चिन्त्य – महा – व्रता – त्वम् अभ्यस्यसे – सु-नियत – इन्द्रिय – तत्त्व – सारैः मोक्ष – अर्थि – भिः – मुनि – भिः – अस्त – समस्त – दोषैः विद्या – असि – सा – भगवती – परमा – हि – देवि ॥९॥ शब्द – आत्मिका – सु – विमल – ऋक् – यजुषाम् – निधानम् उद्गीथ – रम्य – पद – पाठ – वताम् – च – साम्नाम् देवी – त्रयी – भगवती – भव – भावना – अर्थम् वार्ता – असि – सर्व – जगताम् – परम् – आर्ति – हन्त्री ॥१०॥ मेधा – असि – देवि – विदिता – अखिल – शास्त्र – सारा दुर्गा – असि – दुर्ग – भव – सागर – नौः – असङ्गा श्रीः – कैट-भारि – हृदय – एक – कृत – अधि – वासा गौरी – त्वम् – एव – शशि – मौलि – कृत – प्रतिष्ठा ॥११॥ ईषत् – सहासम् – अमलम् – परि-पूर्ण – चन्द्र बिम्ब – अनु-कारि – कनक – उत्तम – कान्ति – कान्तम् अति – अद्भुतम् – प्रहृतम् – आत्त – रुषा – तथापि वक्त्रम् – विलोक्य – सहसा – महिष – असुरेण ॥१२॥ दृष्ट्वा – तु – देवि – कुपितम् – भ्रुकुटी – करालम् उद्यच्छ – शशांक – सदृश – छवि – यत् – न – सद्यः प्राणान् – मुमोच – महिषः – तत् – अतीव – चित्रम् कैः – जीव्यते – हि – कुपित – अन्तक – दर्शनेन ॥१३॥ देवि – प्रसीद – परमा – भवती – भवाय सद्यः – विनाशयसि – कोप – वती – कुलानि विज्ञातम् – एतत् – अधुना – एव – यत् – अस्तम् – एतत् नीतम् – बलम् – सु – विपुलम् – महिष – असुरस्य ॥१४॥ ते – सम्मताः – जन-पदेषु – धनानि – तेषाम् तेषाम् – यशांसि – न – च – सीदति – धर्म – वर्गः धन्याः – त – एव – निभृत – आत्म – ज – भृत्य – दाराः येषाम् – सदा – अभ्युदय – दा – भवती – प्रसन्ना ॥१५॥ धर्म्याणि – देवि – सकलानि – सदा – एव – कर्माणि नित्य – आदृतः – प्रति – दिनम् – सु – कृतिः – करोति स्वर्गम् – प्रयाति – च – ततः – भवती – प्रसादात् लोक – त्रये – अपि – फल – दा – ननु – देवि – तेन ॥१६॥ दुर्गे – स्मृता – हरसि – भीतिम् – अशेष – जन्तोः स्वस्थैः – स्मृता – मतिम् – अतीव – शुभाम् – ददासि दारिद्र्य – दुःख – भय – हारिणि – का – त्वत् – अन्या सर्व – उपकार – करणाय – सदा – आर्द्र – चित्ता ॥१७॥ एभिः – हतैः – जगत् – उपैति – सुखम् – तथा – एते कुर्वन्तु – नाम – नरकाय – चिराय – पापम् संग्राम – मृत्यु – म् – अधिगम्य – दिवम् – प्रयान्तु मत् – वेति – नूनम् – अहितान् – विनिहंसि – देवि ॥१८॥ दृष्ट्वा – एव – किम् – न – भवती – प्रकरोति – भस्म सर्व – असुरान् – अरिषु – यत् – प्रहिणोषि – शस्त्रम् लोकान् – प्रयान्तु – रिपवः – अपि – हि – शस्त्र – पूताः इत्थम् – मतिः – भवति – तेषु – अहि – ते – असु – साध्वी ॥१९॥ खड्ग – प्रभा – निकर – विस्फुरणैः – तद् – उग्रैः शूल – अग्र – कान्ति – निवहेन – दृशः – असुराणाम् यत् – न – आगता – विलयम् – अंशु – मत् – इन्दु – खण्ड योग्य – आननम् – तव – विलोक – यताम् – तद् – एतत् ॥२०॥ दुर्वृत्त – वृत्त – शमनम् – तव – देवि – शीलम् रूपम् – तथा – एतत् – अ-वि-चिन्त्यम् – अतुल्यम् – अन्यैः वीर्यम् – च – हन्तृ – हृत – देव – पराक्रमाणाम् वैरिषु – अपि – प्रकटिता – एव – दया – त्वया – इत्थम् ॥२१॥ केन – उपमा – भवतु – ते – अस्य – पराक्रमस्य रूपम् – च – शत्रु – भय – कार्य – ति – हारि – कुत्र चित्ते – कृपा – समर – निष्ठुरता – च – दृष्टा त्वयि – एव – देवि – वरदे – भुवन – त्रये – अपि ॥२२॥ त्रै – लोक्यम् – एतत् – अखिलम् – रिपु – नाशनेन त्रातम् – त्वया – समर – मूर्धनि – ते – अपि – हत्वा नीताः – दिवम् – रिपु – गणाः – भयम् – अपि – अपास्तम् अस्माकम् – उन्मद – असुर – अरि – भवम् – नमः – ते ॥२३॥ शूलेन – पाहि – नः – देवि – पाहि – खड्गेन – च – अम्बिके घण्टा – स्वनेन – नः – पाहि – चाप – ज्या – निः – स्वनेन – च ॥२४॥ प्राच्याम् – रक्ष – प्रतीच्याम् – च – चण्डिके – रक्ष – दक्षिणे भ्रामणेन – आत्म – शूलस्य – उत्तरस्याम् – तथा – ईश्वरी ॥२५॥ सौम्यानि – यानि – रूपाणि – त्रै – लोक्ये – विचरन्ति – ते यानि – च – अत्यन्त – घोराणि – तैः – रक्ष – अस्मान् – तथा – भुवम् ॥२६॥ खड्ग – शूल – गदा – आदीनि – यानि – च – अस्त्राणि – ते – अम्बिके कर – पल्लव – संगीनि – तैः – अस्मान् – रक्ष – सर्वतः ॥२७॥ एवम् – स्तुता – सुरैः – दिव्यैः – कुसुमैः – नन्दन – उद्भवैः अर्चिता – जगताम् – धात्री – तथा – गन्धानु – लेपनैः ॥२८॥ ऋषिः – उवाच एवम् – स्तुता – सुरैः – दिव्यैः – कुसुमैः – नन्दन – उद्भवैः ॥२९॥ अर्चिता – जगताम् – धात्री – तथा – गन्धानु – लेपनैः भक्त्या – समस्तैः – ऋषिभिः – दिव्यैः – धूपैः – सु – धूपिता ॥३०॥ प्राह – प्रसाद – सु – मुखी – समस्तान् – प्रणतान् – सुरान् देवी – उवाच – ॥३१॥ व्रियताम् – त्रि – दशाः – सर्वे – यत् – अस्मत्तः – अभिवाञ्छितम् ॥३२॥ देवाः – ऊचुः ॥३३॥ भगवत्या – कृतम् – सर्वम् – न – किञ्चित् – अवशिष्यते यत् – अयम् – निहतः – शत्रुः – अस्माकम् – महिष – असुरः ॥३४॥ यदि – च – अपि – वरः – देयः – त्वया – अस्माकम् – महेश्वरि संस्मृता – संस्मृता – त्वम् – नः – हिंसेथाः – परम – आपदः ॥३५॥ यः – च – मर्त्यः – स्तवैः – एभिः – त्वाम् – स्तोष्यति – अमल – आनने तस्य – वित्त – ऋद्धि – विभवैः – धन – दार – आदि – सम्पदाम् ॥३६॥ वृद्धये – अस्मत् – प्रसन्ना – त्वम् – भवेताः – सर्वदा – अम्बिके ॥३७॥ ऋषिः – उवाच ॥३८॥ इति – प्रसादिता – देवैः – जगतः – अर्थे – तथा – आत्मनः तथा – इति – उक्त्वा – भद्र – काली – बभूव – अन्तर् – हिता – नृप ॥३९॥ इति – एतत् – कथितम् – भूप – सम्भूता – सा – यथा – पुरा देवी – देव – शरीरेभ्यः – जगत् – प्रहित – ऐषिणी ॥४०॥ पुनः – च – गौरी – देहात् – सा – समुद्भूता – यथा – अभवत् वधाय – दुष्ट – दैत्यानाम् – तथा – शुम्भ – निशुम्भयोः ॥४१॥ रक्षणाय – च – लोकानाम् – देवानाम् – उपकारिणी तत् – शृणुष्व – मया – आख्यातम् – यथा – वत् – कथयामि – ते ह्रीं – ॐ ॥४२॥ ॥ जय जय श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः समाप्तम् ॥ आहुति ह्रीं जयंती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥