॥ श्रीदुर्गासप्तशती - तृतीयोऽध्यायः ॥ (सेनापतियोंसहित महिषासुर का वध) ॥ ध्यानम् ॥ ॐ उद्यत्-भानु-सहस्र-कान्तिम् अरुण-क्षौमाम् शिरः-मालिकाम् । रक्त-आलिप्त-पयोधराम् जप-वटीम् विद्याम् अभीतिम् वरम् । हस्त-अब्द्जैः दधतीम् त्रि-नेत्र-विलसत्-वक्त्र-अरविन्द-श्रियम् । देवीम् बद्ध-हिमांशु-रत्न-मुकुटाम् वन्दे अरविन्द-स्थिताम् ॥ "ॐ" ऋषिररुवाच॥1॥ निहन्यमानम् तत् सैन्यम् अवलोक्य महा-असुरः । सेनानीः चिक्षुरः कोपात् ययौ योद्धुम् अथ अम्बिकाम् ॥2॥ सः देवीम् शर-वर्षेण ववर्ष समरे असुरः । यथा मेरु-गिरेः शृङ्गम् तोय-वर्षेण तोयदः ॥3॥ तस्य छित्त्वा ततः देवी लीलया एव शर-उत्करान् । जघान तुरगान् बाणैः यन्तारम् च एव वाजिनाम् ॥4॥ चिच्छेद च धनुः सद्यः ध्वजम् च अति-समुच्छ्रितम् । विव्याध च एव गात्रेषु छिन्न-धन्वानम् आशुगैः ॥5॥ सः छिन्न-धन्वा विरथः हत-अश्वः हत-सारथिः । अभ्यधावत ताम् देवीम् खड्ग-चर्म-धरः असुरः ॥6॥ सिंहम् आहत्य खड्गेन तीक्ष्ण-धारेण मूर्धनि । आजघान भुजे सव्ये देवीम् अपि अति-वेगवान् ॥7॥ तस्याः खड्गः भुजम् प्राप्य पफाल नृप-नन्दन । ततः जग्राह शूलम् सः कोपात् अरुण-लोचनः ॥8॥ चिक्षेप च ततः तत् तु भद्र-काल्याम् महा-असुरः । जाज्वल्यमानम् तेजोभिः रवि-बिम्बम् इव अम्बरात् ॥9॥ दृष्ट्वा तत् आपतत् शूलम् देवी शूलम् अमुञ्चत । तत् शूलम् शतधा तेन नीतम् सः च महा-असुरः ॥10॥ हते तस्मिन् महा-वीर्ये महिषस्य चमू-पतौ । आजगाम गज-आरूढः चामरः त्रि-दश-अर्दनः ॥11॥ सः अपि शक्तिम् मुमोच अथ देव्याः ताम् अम्बिका द्रुतम् । हुंकार-अभिहताम् भूमौ पातयामास निष्प्रभाम् ॥12॥ भग्नाम् शक्तिम् निपतिताम् दृष्ट्वा क्रोध-समन्वितः । चिक्षेप चामरः शूलम् बाणैः तत् अपि सा अच्छिनत् ॥13॥ ततः सिंहः समुत्पत्य गज-कुम्भ-अन्तरे स्थितः । बाहु-युद्धेन युयुधे तेन उच्चैः त्रि-दश-अरिणा ॥14॥ युद्ध्यमानौ ततः तौ तु तस्मात् नागात् महीम् गतौ । युयुधाते अति-संरब्धौ प्रहारैः अति-दारुणैः ॥15॥ ततः वेगात् खम् उत्पत्य निपत्य च मृग-अरिणा । कर-प्रहारेण शिरः चामरस्य पृथक् कृतम् ॥16॥ उदग्रः च रणे देव्या शिला-वृक्ष-आदिभिः हतः । दन्त-मुष्टि-तलैः च एव करालः च निपातितः ॥17॥ देवी क्रुद्धा गदा-पातैः चूर्णयामास च उद्धतम् । बाष्कलम् भिन्दि-पालेन बाणैः ताम्रम् तथा अन्धकम् ॥18॥ उग्र-आस्यम् उग्र-वीर्यम् च तथा एव च महा-हनुम् । त्रि-नेत्रा च त्रि-शूलेन जघान परम-ईश्वरी ॥19॥ बिडालस्य असिना कायात् पातयामास वै शिरः । दुर्धरम् दुर्मुखम् च उभौ शरैः निन्ये यम-क्षयम् ॥20॥ एवम् संक्षीयमाणे तु स्व-सैन्ये महिषासुरः । माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥21॥ कांश्चित् तुण्ड-प्रहारेण खुर-क्षेपैः तथा अपरान् । लाङ्गूल-ताडितान् च अन्यान् शृङ्गाभ्याम् च विदारितान् ॥22॥ वेगेन कांश्चित् अपरान् नादेन भ्रमणेन च । निःश्वास-पवनेन अन्यान् पातयामास भूतले ॥23॥ निपात्य प्रमथ-अनीकम् अभ्यधावत सः असुरः । सिंहम् हन्तुम् महा-देव्याः कोपम् चक्रे ततः अम्बिका ॥24॥ सः अपि कोपात् महा-वीर्यः खुर-क्षुण्ण-मही-तलः । शृङ्गाभ्याम् पर्वतान् उच्चान् चिक्षेप च ननाद च ॥25॥ वेग-भ्रमण-विक्षुण्णा मही तस्य व्यशीर्यत । लाङ्गूलेन आहतः च अब्धिः प्लावयामास सर्वतः ॥26॥ धुत-शृङ्ग-विभिन्नाः च खण्डम् खण्डम् ययुः घनाः । श्वास-अनिलाः ताः शतशः निपेतुः नभसः अचलाः ॥27॥ इति क्रोध-समाध्मातम् आपतन्तम् महा-असुरम् । दृष्ट्वा सा चण्डिका कोपम् तत्-वधाय तत् अकरोत् ॥28॥ सा क्षिप्त्वा तस्य वै पाशम् तम् बबन्ध महा-असुरम् । तत्याज माहिषम् रूपम् सः अपि बद्धः महा-मृधे ॥29॥ ततः सिंहः अभवत् सद्यः यावत् तस्य अम्बिका शिरः । छिनत्ति तावत् पुरुषः खड्ग-पाणिः अदृश्यत ॥30॥ ततः एव आशु पुरुषम् देवी चिच्छेद सायकैः । तम् खड्ग-चर्मणा सार्धम् ततः सः अभूत् महा-गजः ॥31॥ करेण च महा-सिंहम् तम् चकर्ष जगर्ज च । कर्षतः तु करम् देवी खड्गेन निरकृन्तत ॥32॥ ततः महा-असुरः भूयः माहिषम् वपुः आस्थितः । तथा एव क्षोभयामास त्रै-लोक्यम् स-चर-अचरम् ॥33॥ ततः क्रुद्धा जगत्-माता चण्डिका पानम् उत्तमम् । पपौ पुनः पुनः च एव जहास अरुण-लोचना ॥34॥ ननर्द च असुरः सः अपि बल-वीर्य-मद-उद्धतः । विषाणाभ्याम् च चिक्षेप चण्डिकाम् प्रति भू-धरान् ॥35॥ सा च तान् प्रहितान् तेन चूर्णयन्ती शर-उत्करैः । उवाच तम् मद-उद्धूत मुख-राग-आकुल-अक्षरम् ॥36॥ देवी उवाच ॥37॥ गर्ज गर्ज क्षणम् मूढ मधु यावत् पिबामि अहम् । मया त्वयि हते अत्र एव गर्जिष्यन्ति आशु देवताः ॥38॥ ऋषिः उवाच ॥39॥ एवम् उक्त्वा समुत्पत्य सा आरूढा तम् महा-असुरम् । पादेन आक्रम्य कण्ठे च शूलेन एनम् अताडयत् ॥40॥ ततः सः अपि पदा आक्रान्तः तया निज-मुखात् ततः । अर्ध-निष्क्रान्तः एव आसीत् देव्याः वीर्येण संवृतः ॥41॥ अर्ध-निष्क्रान्तः एव असौ युध्यमानः महा-असुरः । तया महा-असिना देव्या शिरः छित्त्वा निपातितः ॥42॥ ततः हाहा-कृतम् सर्वम् दैत्य-सैन्यम् ननाश तत् । प्रहर्षम् च परम् जग्मुः सकला देवता-गणाः ॥43॥ तुष्टुवुः ताम् सुराः देवीम् सह दिव्यैः महा-ऋषिभिः । जगुः गन्धर्व-पतयः ननृतुः च अप्सरः-गणाः ॥ॐ॥44॥ ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः॥3॥