॥ श्रीदुर्गासप्तशती - द्वितीयोऽध्यायः ॥ (देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध) ॥ विनियोगः ॥ ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः, शाकम्भरी शक्तिः, दुर्गा बीजम्,वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्, श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः। ॥ ध्यानम् ॥ ॐ अक्ष-स्रक् परशुम् गदाम् इषुम् कुलिशम् पद्मम् धनुः कुण्डिकाम् । दण्डम् शक्तिम् असिम् च चर्म जलजम् घण्टाम् सुरा-भाजनम् ॥ शूलम् पाश-सुदर्शने च दधतीम् हस्तैः प्रसन्न-आननाम् । सेवे सैरिभ-मर्दिनीम् इह महा-लक्ष्मीम् सरोज-स्थिताम् ॥ "ॐ ह्रीं" ऋषिरुवाच॥1॥ देव-असुरम् अभूत् युद्धम् पूर्णम् अब्द-शतम् पुरा । महिषे असुराणाम् अधिपे देवानाम् च पुरन्दरे ॥2॥ तत्र असुरैः महा-वीर्यैः देव-सैन्यम् पराजितम् । जित्वा च सकलान् देवान् इन्द्रः अभूत् महिषासुरः ॥3॥ ततः पराजिताः देवाः पद्म-योनिम् प्रजापतिम् । पुरस्कृत्य गताः तत्र यत्र ईश-गरुड-ध्वजौ ॥4॥ यथा-वृत्तम् तयोः तत्-वत् महिषासुर-चेष्टितम् । त्रि-दशाः कथयामासुः देव-अभिभव-विस्तरम् ॥5॥ सूर्य-इन्द्र-अग्नि-अनिल-इन्दूनाम् यमस्य वरुणस्य च । अन्येषाम् च अधिकारान् सः स्वयम् एव अधितिष्ठति ॥6॥ स्वर्गात् निराकृताः सर्वे तेन देव-गणाः भुवि । विचरन्ति यथा मर्त्याः महिषेण दुरात्मना ॥7॥ एतत् वः कथितम् सर्वम् अमर-अरि-विचेष्टितम् । शरणम् वः प्रपन्नाः स्मः वधः तस्य विचिन्त्यताम् ॥8॥ इत्थम् निशम्य देवानाम् वचांसि मधु-सूदनः । चकार कोपम् शम्भुः च भ्रुकुटी-कुटिल-आननौ ॥9॥ ततः अति-कोप-पूर्णस्य चक्रिणः वदनात् ततः । निश्चक्राम महत् तेजः ब्रह्मणः शङ्करस्य च ॥10॥ अन्येषाम् च एव देवानाम् शक्र-आदीनाम् शरीरतः । निर्गतम् सु-महत् तेजः तत् च ऐक्यम् समगच्छत ॥11॥ अतीव तेजसः कूटम् ज्वलन्तम् इव पर्वतम् । ददृशुः ते सुराः तत्र ज्वाला-व्याप्त-दिग्-अन्तरम् ॥12॥ अतुलम् तत्र तत् तेजः सर्व-देव-शरीर-जम् । एक-स्थम् तत् अभूत् नारी व्याप्त-लोक-त्रयम् त्विषा ॥13॥ यत् अभूत् शाम्भवम् तेजः तेन अजायत तत् मुखम् । याम्येन च अभवन् केशाः बाहवः विष्णु-तेजसा ॥14॥ सौम्येन स्तनयोः युग्मम् मध्यम् च ऐन्द्रेण च अभवत् । वारुणेन च जङ्घा-ऊरू नितम्बः तेजसा भुवः ॥15॥ ब्रह्मणः तेजसा पादौ तत्-अङ्गुल्यः अर्क-तेजसा । वसूनाम् च कर-अङ्गुल्यः कौबेरेण च नासिका ॥16॥ तस्याः तु दन्ताः सम्भूताः प्राजापत्येन तेजसा । नयन-त्रितयम् जज्ञे तथा पावक-तेजसा ॥17॥ भ्रुवौ च सन्ध्ययोः तेजः श्रवणौ अनिलस्य च । अन्येषाम् च एव देवानाम् सम्भवः तेजसाम् शिवा ॥18॥ ततः समस्त-देवानाम् तेजः-राशि-समुद्भवाम् । ताम् विलोक्य मुदम् प्रापुः अमराः महिष-अर्दिताः ॥19॥ शूलम् शूलात् विनिष्कृष्य ददौ तस्यै पिनाक-धृक् । चक्रम् च दत्तवान् कृष्णः समुत्पाद्य स्व-चक्रतः ॥20॥ शङ्खम् च वरुणः शक्तिम् ददौ तस्यै हुताशनः । मारुतः दत्तवान् चापम् बाण-पूर्णे तथा इषुधी ॥21॥ वज्रम् इन्द्रः समुत्पाद्य कुलिशात् अमर-अधिपः । ददौ तस्यै सहस्र-अक्षः घण्टाम् ऐरावतात् गजात् ॥22॥ काल-दण्डात् यमः दण्डम् पाशम् च अम्बु-पतिः ददौ । प्रजापतिः च अक्ष-मालाम् ददौ ब्रह्मा कमण्डलुम् ॥23॥ समस्त-रोम-कूपेषु निज-रश्मीन् दिवाकरः । कालः च दत्तवान् खड्गम् तस्याः च चर्म निर्मलम् ॥24॥ क्षीर-उदः च अमलम् हारम् अजरे च तथा अम्बरे । चूडा-मणिम् तथा दिव्यम् कुण्डले कटकानि च ॥25॥ अर्ध-चन्द्रम् तथा शुभ्रम् केयूरान् सर्व-बाहुषु । नूपुरौ विमलौ तत्-वत् ग्रैवेयकम् अनुत्तमम् ॥26॥ अङ्गुलीयक-रत्नानि समस्तासु अङ्गुलीषु च । विश्वकर्मा ददौ तस्यै परशुम् च अति-निर्मलम् ॥27॥ अस्त्राणि अनेक-रूपाणि तथा अभेद्यम् च दंशनम् । अम्लान-पङ्कजाम् मालाम् शिरसि उरसि च अपराम् ॥28॥ अददत् जलधिः तस्यै पङ्कजम् च अति-शोभनम् । हिमवान् वाहनम् सिंहम् रत्नानि विविधानि च ॥29॥ ददौ अशून्यम् सुरया पान-पात्रम् धन-अधिपः । शेषः च सर्व-नाग-ईशः महा-मणि-विभूषितम् ॥30॥ नाग-हारम् ददौ तस्यै धत्ते यः पृथिवीम् इमाम् । अन्यैः अपि सुरैः देवी भूषणैः आयुधैः तथा ॥31॥ सम्मानिता ननाद उच्चैः साट्टहासम् मुहुः मुहुः । तस्याः नादेन घोरेण कृत्स्नम् आपूरितम् नभः ॥32॥ अमायत् अति-महता प्रतिशब्दः महान् अभूत् । चुक्षुभुः सकलाः लोकाः समुद्राः च चकम्पिरे ॥33॥ चचाल वसुधा चेलुः सकलाः च मही-धराः । जय इति देवाः च मुदा ताम् ऊचुः सिंह-वाहिनीम् ॥34॥ तुष्टुवुः मुनयः च एनाम् भक्ति-नम्र-आत्म-मूर्तयः । दृष्ट्वा समस्तम् संक्षुब्धम् त्रैलोक्यम् अमर-अरयः ॥35॥ सन्नद्ध-अखिल-सैन्याः ते समुत्तस्थुः उदायुधाः । आः किम् एतत् इति क्रोधात् आभाष्य महिषासुरः ॥36॥ अभ्यधावत तम् शब्दम् अशेषैः असुरैः वृतः । सः ददर्श ततः देवीम् व्याप्त-लोक-त्रयाम् त्विषा ॥37॥ पाद-आक्रान्त्या नत-भुवम् किरीट-उल्लिखित-अम्बराम् । क्षोभित-अशेष-पातालाम् धनुः-ज्या-निःस्वनेन ताम् ॥38॥ दिशः भुज-सहस्रेण समन्तात् व्याप्य संस्थिताम् । ततः प्रववृते युद्धम् तया देव्या सुर-द्विषाम् ॥39॥ शस्त्र-अस्त्रैः बहुधा मुक्तैः आदीपित-दिग्-अन्तरम् । महिषासुर-सेनानीः चिक्षुर-आख्यः महा-असुरः ॥40॥ युयुधे च अमरः च अन्यैः चतुरङ्ग-बल-अन्वितः । रथानाम् अयुतैः षड्भिः उदग्र-आख्यः महा-असुरः ॥41॥ अयुध्यत अयुतानाम् च सहस्रेण महा-हनुः । पञ्चाशद्भिः च नियुतैः असि-लोमा महा-असुरः ॥42॥ अयुतानाम् शतैः षड्भिः बाष्कलः युयुधे रणे । गज-वाजि-सहस्र-ओघैः अनेकैः परिवारितः ॥43॥ वृतः रथानाम् कोट्या च युद्धे तस्मिन् अयुध्यत । बिडाल-आख्यः अयुतानाम् च पञ्चाशद्भिः रथ-अयुतैः ॥44॥ युयुधे संयुगे तत्र रथानाम् परिवारितः । अन्ये च तत्र अयुतशः रथ-नाग-हयैः वृताः ॥45॥ युयुधुः संयुगे देव्या सह तत्र महा-असुराः । कोटि-कोटि-सहस्रैः तु रथानाम् दन्तिनाम् तथा ॥46॥ हयानाम् च वृतः युद्धे तत्र अभूत् महिषासुरः । तोमरैः भिन्दि-पालैः च शक्तिभिः मुसलैः तथा ॥47॥ युयुधुः संयुगे देव्या खड्गैः परशु-पट्टिशैः । केचित् च चिक्षिपुः शक्तीः केचित् पाशान् तथा अपरे ॥48॥ देवीम् खड्ग-प्रहारैः तु ते ताम् हन्तुम् प्रचक्रमुः । सा अपि देवी ततः तानि शस्त्राणि अस्त्राणि चण्डिका ॥49॥ लीलया एव प्रचिच्छेद निज-शस्त्र-अस्त्र-वर्षिणी । अनायस्तानना देवी स्तूयमाना सुर-ऋषिभिः ॥50॥ मुमोच असुर-देहेषु शस्त्राणि अस्त्राणि च ईश्वरी । सः अपि क्रुद्धः धुत-सटः देव्याः वाहन-केशरी ॥51॥ चचार असुर-सैन्येषु वनेषु इव हुताशनः । निःश्वासान् मुमुचे यान् च युध्यमाना रणे अम्बिका ॥52॥ ते एव सद्यः सम्भूताः गणाः शत-सहस्रशः । युयुधुः ते परशुभिः भिन्दि-पाल-असि-पट्टिशैः ॥53॥ नाशयन्तः असुर-गणान् देवी-शक्ति-उपबृंहिताः । अवादयन्त पटहान् गणाः शङ्खान् तथा अपरे ॥54॥ मृदङ्गान् च तथा एव अन्ये तस्मिन् युद्ध-महा-उत्सवे । ततः देवी त्रि-शूलेन गदया शक्ति-वृष्टिभिः ॥55॥ खड्ग-आदिभिः च शतशः निजघान महा-असुरान् । पातयामास च एव अन्यान् घण्टा-स्वन-विमोहितान् ॥56॥ असुरान् भुवि पाशेन बद्ध्वा च अन्यान् अकर्षयत् । केचित् द्विधा कृताः तीक्ष्णैः खड्ग-पातैः तथा अपरे ॥57॥ विपोथिताः निपातेन गदया भुवि शेरते । वेमुः च केचित् रुधिरम् मुसलेन भृशम् हताः ॥58॥ केचित् निपतिताः भूमौ भिन्नाः शूलेन वक्षसि । निरन्तराः शर-ओघेण कृताः केचित् रण-अजिरे ॥59॥ श्येन-अनुकारिणः प्राणान् मुमुचुः त्रि-दश-अर्दनाः । केषाञ्चित् बाहवः छिन्नाः छिन्न-ग्रीवाः तथा अपरे ॥60॥ शिरांसि पेतुः अन्येषाम् अन्ये मध्ये विदारिताः । विच्छिन्न-जङ्घाः तु अपरे पेतुः उर्व्याम् महा-असुराः ॥61॥ एक-बाहु-अक्षि-चरणाः केचित् देव्या द्विधा कृताः । छिन्ने अपि च अन्ये शिरसि पतिताः पुनः उत्थिताः ॥62॥ कबन्धाः युयुधुः देव्या गृहीत-परम-आयुधाः । ननृतुः च अपरे तत्र युद्धे तूर्य-लय-आश्रिताः ॥63॥ कबन्धाः छिन्न-शिरसः खड्ग-शक्ति-ऋष्टि-पाणयः । तिष्ठ तिष्ठ इति भाषन्तः देवीम् अन्ये महा-असुराः ॥64॥ पातितैः रथ-नाग-अश्वैः असुरैः च वसुन्धरा । अगम्या सा अभवत् तत्र यत्र अभूत् सः महा-रणः ॥65॥ शोणित-ओघाः महा-नद्यः सद्यः तत्र प्रसुस्रुवुः । मध्ये च असुर-सैन्यस्य वारण-असुर-वाजिनाम् ॥66॥ क्षणेन तत् महा-सैन्यम् असुराणाम् तथा अम्बिका । निन्ये क्षयम् यथा वह्निः तृण-दारु-महा-चयम् ॥67॥ सः च सिंहः महा-नादम् उत्सृजन् धुत-केसरः । शरीरेभ्यः अमर-अरीणाम् असून् इव विचिन्वति ॥68॥ देव्याः गणैः च तैः तत्र कृतम् युद्धम् महा-असुरैः । यथा एषाम् तुतुषुः देवाः पुष्प-वृष्टिम् उचुः दिवि ॥ॐ॥69॥ ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः॥2॥