देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः ॥ श्रीदुर्गायै नमः ॥ ॥ अथ श्रीदुर्गासप्तशती ॥ ॥ मधुकैटभवधो नाम प्रथमोऽध्यायः ॥ अस्य श्री प्रधम चरित्रस्य ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छंदः । नंदा शक्तिः । रक्त दंतिका बीजम् । अग्निस्तत्वम् । ऋग्वेदः स्वरूपम् । श्री महाकाली प्रीत्यर्धे प्रधम चरित्र जपे विनियोगः । ध्यानं खड्गम् चक्रम् गदाम् इषुम् च चापम् परिघान् शूलम् भुशुण्डीम् शिरः । शङ्खम् सन्दधतीम् करैः त्रि-नयनाम् सर्व-अङ्ग-भूषा-आवृताम् ॥ याम् हन्तुम् मधु-कैटभौ जलज-भूः तुष्टावत् सुप्ते हरौ । नील-अश्म-द्युतिम् आस्य-पाद-दशकाम् सेवे महाकालिकाम् ॥ ॐ नमश्चंडिकायै ॐ ऐं मार्कंडेय उवाच॥1॥ सावर्णिः सूर्य-तनयः यः मनुः कथ्यते अष्टमः । निशामय तत्-उत्पत्तिम् विस्तरात् गदतः मम ॥2॥ महामाया-अनुभावेन यथा मन्वन्तर-अधिपः । सः बभूव महाभागः सावर्णिः तनयः रवेः ॥3॥ स्वारोचिषे अन्तरे पूर्वम् चैत्र-वंश-समुद्भवः । सुरथः नाम राजा अभूत् समस्ते क्षिति-मण्डले ॥4॥ तस्य पालयतः सम्यक् प्रजाः पुत्रान् इव औरसान् । बभूवुः शत्रवः भूपाः कोल-विध्वंसिनः तदा ॥5॥ तस्य तैः अभवत् युद्धम् अति-प्रबल-दण्डिनः । न्यूनैः अपि सः तैः युद्धे कोल-विध्वंसिभिः जितः ॥6॥ ततः स्व-पुरम् आयातः निज-देश-अधिपः अभवत् । आक्रान्तः सः महाभागः तैः तदा प्रबल-अरिभिः ॥7॥ अमात्यैः बलिभिः दुष्टैः दुर्बलस्य दुरात्मभिः । कोशः बलम् च अपहृतम् तत्र अपि स्व-पुरे ततः ॥8॥ ततः मृगया-व्याजेन हृत-स्वाम्यः सः भूपतिः । एकाकी हयम् आरुह्य जगाम गहनम् वनम् ॥9॥ सः तत्र आश्रमम् अद्राक्षीत् द्विज-वर्यस्य मेधसः । प्रशान्त-श्वापद-आकीर्णम् मुनि-शिष्य-उपशोभितम् ॥10॥ तस्थौ कञ्चित् स कालं च मुनिना तेन सत्कृतः । इतश् चेतश् च विचरन् तस्मिन् मुनि-वर-आश्रमे ॥11॥ सः अचिन्तयत् तदा तत्र ममत्व-आकृष्ट-चेतनः । मत्-पूर्वैः पालितम् पूर्वम् मया हीनम् पुरम् हि तत् ॥12॥ मत्-भृत्यैः तैः असत्-वृत्तैः धर्मतः पाल्यते न वा । न जाने सः प्रधानः मे शूर-हस्ती सदा-मदः ॥13॥ मम वैरि-वशम् यातः कान् भोगान् उपलप्स्यते । ये मम् अनुगताः नित्यम् प्रसाद-धन-भोजनैः ॥14॥ अनुवृत्तिम् ध्रुवम् ते अद्य कुर्वन्ति अन्य-मही-भृताम् । असम्यक्-व्यय-शीलैः तैः कुर्वद्भिः सततम् व्ययम् ॥15॥ सञ्चितः सः अति-दुःखेन क्षयम् कोशः गमिष्यति । एतत् च अन्यत् च सततम् चिन्तयामास पार्थिवः ॥16॥ तत्र विप्र-आश्रम-अभ्याशे वैश्यम् एकम् ददर्श सः । स पृष्टः तेन कः त्वं भो हेतुश्च आगमनेऽत्र कः ॥17॥ स शोक इव कस्मात् त्वं दुर्मना इव लक्ष्यसे । इति आकरण्य वचः तस्य भूपतेः प्रणयोदितम् ॥18॥ प्रत्युवाच स तं वैश्यः प्रश्रय-आवनतः नृपम् ॥19॥ वैश्य उवाच॥20॥ समाधिः नाम वैश्यः अहम् उत्पन्नः धनिनाम् कुले ॥21॥ पुत्र-दारैः निरस्तः च धन-लोभात् असाधुभिः । विहीनः च धनैः दारैः पुत्रैः आदाय मे धनम् ॥22॥ वनम् अभ्यागतः दुःखी निरस्तः च आप्त-बन्धुभिः । सः अहम् न वेद्मि पुत्राणाम् कुशल-अकुशल-आत्मिकाम् ॥23॥ प्रवृत्तिम् स्व-जनानाम् च दाराणाम् च अत्र संस्थितः । किम् नु तेषाम् गृहे क्षेमम् अक्षेमम् किम् नु साम्प्रतम् ॥24॥ कथम् ते किम् नु सत्-वृत्ताः दुर्वृत्ताः किम् नु मे सुताः ॥25॥ राजा उवाच ॥26॥ यैः निरस्तः भवान् लुब्धैः पुत्र-दार-आदिभिः धनैः ॥27॥ तेषु किम् भवतः स्नेहम् अनुबध्नाति मानसम् ॥28॥ वैश्यः उवाच ॥29॥ एवम् एतत् यथा प्राह भवान् अस्मत्-गतं वचः ॥30॥ किम् करोमि न बध्नाति मम निष्ठुरताम् मनः । यैः संत्यज्य पितृ-स्नेहम्- धन-लुब्धैः निराकृतः ॥31॥ पति-स्वजन-हार्दम् च हार्दि तेषु एव मे मनः । किम् एतत् न अभिजानामि जानन् अपि महा-मते ॥32॥ यत् प्रेम-प्रवणम् चित्तम्-विगुणेषु अपि बन्धुषु । तेषाम् कृते मे निःश्वासः दौर्मनस्यम् च जायते ॥33॥ करोमि किम् यत् न मनः- तेषु अप्रीतिषु निष्ठुरम् ॥34॥ मार्कण्डेयः उवाच ॥35॥ ततः तौ सहितौ विप्र तम् मुनिम् समुपस्थितौ । समाधिः नाम वैश्यः असौ सः च पार्थिव-सत्तमः ॥36॥ कृत्वा तु तौ यथा-न्यायम् यथा-अर्हम् तेन संविदम् । उपविष्टौ कथाः काश्चित् चक्रतुः वैश्य-पार्थिवौ ॥37॥ राजा उवाच ॥38॥ भगवन् त्वाम् अहम् प्रष्टुम् इच्छामि एकम् वदस्व तत् । दुःखाय यत् मे मनसः स्व-चित्त-आयत्तताम् विना ॥39॥ ममत्वम् गत-राज्यस्य राज्य-अङ्गेषु अखिलेषु अपि । जानतः अपि यथा-अज्ञस्य किम् एतत् मुनि-सत्तम ॥40॥ अयम् च निकृतः पुत्रैः दारैः भृत्यैः तथा उज्झितः । स्व-जनैः च संत्यक्तः तेषु हार्दि तथा अपि अति ॥41॥ एवम् एषः तथा अहम् च द्वौ अपि अत्यन्त-दुःखितौ । दृष्ट-दोषे अपि विषये ममत्व-आकृष्ट-मानसौ ॥42॥ तत् किम् एतत् महा-भाग यत् मोहः ज्ञानिनोः अपि । मम अस्य च भवति एषा विवेक-अन्धस्य मूढता ॥43॥ ऋषिः उवाच ॥44॥ ज्ञानम् अस्ति समस्तस्य जन्तोः विषय-गोचरे । विषयः च महा-भाग याति च एवम् पृथक् पृथक् ॥45॥ दिवा-अन्धाः प्राणिनः केचित् रात्रौ अन्धाः तथा अपरे । केचित् दिवा तथा रात्रौ प्राणिनः तुल्य-दृष्टयः ॥46॥ ज्ञानिनः मनुजाः सत्यम् किन्तु ते न हि केवलम् । यतः हि ज्ञानिनः सर्वे पशु-पक्षि-मृग-आदयः ॥47॥ ज्ञानम् च तत् मनुष्याणाम् यत् तेषाम् मृग-पक्षिणाम् । मनुष्याणाम् च यत् तेषाम् तुल्यम् अन्यत् तथा उभयोः ॥48॥ ज्ञाने अपि सति पश्य एतान् पतङ्गान् शाव-चञ्चुषु । कण-मोक्षात् ऋतान् मोहात् पीड्यमानान् अपि क्षुधा ॥49॥ मानुषाः मनुज-व्याघ्र साभिलाषाः सुतान् प्रति । लोभात् प्रत्युपकाराय ननु एतान् किम् न पश्यसि ॥50॥ तथापि ममता-आवर्ते मोह-गर्ते निपातिताः । महामाया-प्रभावेण संसार-स्थिति-कारिणा ॥51॥ तत् न अत्र विस्मयः कार्यः योग-निद्रा जगत्-पतेः । महामाया हरेः च एषा तया सम्मोह्यते जगत् ॥52॥ ज्ञानिनाम् अपि चेतांसि देवी भगवती हि सा । बलात् आकृष्य मोहाय महामाया प्रयच्छति ॥53॥ तया विसृज्यते विश्वम् जगत् एतत् चर-अचरम् । सैषा प्रसन्ना वरदा नृणाम् भवति मुक्तये ॥54॥ सा विद्या परमा मुक्तेः हेतु-भूता सनातनी । संसार-बन्ध-हेतुः च सैव सर्व-ईश्वर-ईश्वरी ॥55॥ राजा उवाच ॥56॥ भगवन् का हि सा देवी महामाया इति याम् भवान् । ब्रवीति कथम् उत्पन्ना सा कर्म अस्याः च किम् द्विज ॥57॥ यत् प्रभावा च सा देवी यत् स्वरूपा यत् उद्भवा । तत् सर्वम् श्रोतुम् इच्छामि त्वतः ब्रह्म-विदाम् वर ॥58॥ ऋषिः उवाच ॥59॥ नित्यैव सा जगत्-मूर्तिः तया सर्वम् इदम् ततम् । तथापि तत्-समुत्पत्तिः बहुधा श्रूयताम् मम ॥60॥ देवानाम् कार्य-सिद्धि-अर्थम् आविर्भवति सा यदा । उत्पन्ना इति तदा लोके सा नित्या अपि अभिधीयते ॥61॥ योग-निद्राम् यदा विष्णुः जगति एका-अर्णवी-कृते । आस्तीर्य शेषम् अभजत् कल्प-अन्ते भगवान् प्रभुः ॥62॥ तदा द्वौ असुरौ घोरौ विख्यातौ मधु-कैटभौ । विष्णु-कर्ण-मल-उद्भूतौ हन्तुम् ब्रह्माणम् उद्यतौ ॥63॥ सः नाभि-कमले विष्णोः स्थितः ब्रह्मा प्रजापतिः । दृष्ट्वा तौ असुरौ च उग्रौ प्रसुप्तम् च जनार्दनम् ॥64॥ तुष्टाव योग-निद्राम् ताम् एकाग्र-हृदय-स्थितः । विबोधन-अर्थाय हरेः हरि-नेत्र-कृत-आलयाम् ॥65॥ विश्व-ईश्वरीम् जगत्-धात्रीम् स्थिति-संहार-कारिणीम् । निद्राम् भगवतीम् विष्णोः अतुलाम् तेजसः प्रभुः ॥66॥ ब्रह्मा उवाच ॥67॥ त्वम् स्वाहा त्वम् स्वधा त्वम् हि वषट्-कारः स्वर-आत्मिका । सुधा त्वम् अक्षरे नित्ये त्रि-धा मात्रा-आत्मिका स्थिता ॥68॥ अर्ध-मात्रा-स्थिता नित्या या अन्-उच्चार्या विशेषतः । त्वम् एव सन्ध्या सावित्री त्वम् देवि जननी परा ॥69॥ त्वया एतत् धार्यते विश्वम् त्वया एतत् सृज्यते जगत् । त्वया एतत् पाल्यते देवि त्वम् अन्ते च सर्वदा ॥70॥ विसृष्टौ सृष्टि-रूपा त्वम्- स्थिति-रूपा च पालने । तथा संहृति-रूपा अन्ते जगतः अस्य जगत्-मये ॥71॥ महाविद्या महामाया महामेधा महास्मृतिः । महामोहा च भवती महादेवी महासुरी ॥72॥ प्रकृतिः त्वम् च सर्वस्य गुण-त्रय-विभाविनी । काल-रात्रिः महा-रात्रिः मोह-रात्रिः च दारुणा ॥73॥ त्वम् श्रीः त्वम् ईश्वरी त्वम् ह्रीः त्वम् बुद्धिः बोध-लक्षणा । लज्जा पुष्टि तथा तुष्टिः त्वम् शान्तिः क्षान्तिः एव च ॥74॥ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाण भुशुण्डी-परिघ-आयुधा ॥75॥ सौम्या सौम्य-तरा अशेष सौम्येभ्यः त्वम् अति-सुन्दरी । परा अपराणाम् परमा त्वम् एव परम-ईश्वरी ॥76॥ यत् च किञ्चित् क्वचित् वस्तु सत् असत् वा अखिल-आत्मिके । तस्य सर्वस्य या शक्तिः सा त्वम् किम् स्तूयसे तदा ॥77॥ यया त्वया जगत्-स्रष्टा जगत् पाति अत्ति यः जगत् । सः अपि निद्रा-वशम् नीतः कः त्वाम् स्तोतुम् इह ईश्वरः ॥78॥ विष्णुः शरीर-ग्रहणम् अहम् ईशानः एव च । कारिताः ते यतः अतः त्वाम् कः स्तोतुम् शक्तिमान् भवेत् ॥79॥ सा त्वम् इत्थम् प्रभावैः स्वैः उदारैः देवि संस्तुता । मोहय एतौ दुराधर्षौ असुरौ मधु-कैटभौ ॥80॥ प्रबोधम् च जगत्-स्वामी नीयताम् अच्युतः लघु । बोधः च क्रियताम् अस्य हन्तुम् एतौ महा-असुरौ ॥81॥ ऋषिः उवाच ॥82॥ एवम् स्तुता तदा देवी तामसी तत्र वेधसा । विष्णोः प्रबोधन-अर्थाय निहन्तुम् मधु-कैटभौ ॥83॥ नेत्र-आस्य-नासिका-बाहु हृदय-एभ्यः तथा उरसः । निर्गम्य दर्शने तस्थौ ब्रह्मणः अव्यक्त-जन्मनः ॥84॥ उत्तस्थौ च जगत्-नाथः तया मुक्तः जनार्दनः । एक-अर्णवे अहि-शयनात् ततः सः ददृशे च तौ ॥85॥ मधु-कैटभौ दुरात्मानौ अति-वीर्य-पराक्रमौ । क्रोध-रक्त-ईक्षणौ हन्तुम् ब्रह्माणम् जनित-उद्यमौ ॥86॥ समुत्थाय ततः ताभ्याम् युयुधे भगवान् हरिः । पञ्च-वर्ष-सहस्राणि बाहु-प्रहरणः विभुः ॥87॥ तौ अपि अति-बल-उन्मत्तौ महामाया-विमोहितौ । उक्तवन्तौ वरः अस्मत्तः व्रियताम् इति केशवम् ॥88॥ श्री-भगवान् उवाच ॥89॥ भवेताम् अद्य मे तुष्टौ मम वध्यौ उभौ अपि । किम् अन्येन वरेण अत्र एतावत् हि वृतम् मम ॥90॥ ऋषिः उवाच ॥91॥ वञ्चिताभ्याम् इति तदा सर्वम् आपः-मयम् जगत् । विलोक्य ताभ्याम् गदितः भगवान् कमल-ईक्षणः ॥92॥ आवाम् जहि न यत्र ऊर्वी सलिलेन परिप्लुता । तथेति उक्त्वा भगवता शङ्ख-चक्र-गदा-भृता ॥93॥ कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः । एवम् एषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ॥94॥ प्रभावम् अस्याः देव्याः तु भूयः शृणु वदामि ते । ऐं ॐ ॥95॥ इति श्री-मार्कण्डेय-पुराणे सावर्णिके मन्वन्तरे देवी-माहात्म्ये मधु-कैटभ-वधः नाम प्रथमः अध्यायः ॥1॥...