II देवी माहात्म्यं कीलक स्तोत्रम् II अस्य श्री कीलक स्तोत्र महा मन्त्रस्य । शिव ऋषिः । अनुष्टुप् छन्दः । महासरस्वती देवता । मन्त्रोदित देव्यो बीजम् । नवार्णो मन्त्रशक्ति।श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः । ॐ नमश्चण्डिकायै मार्कण्डेय उवाच (1) ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे । श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ॥1॥ पद-विच्छेद: ॐ विशुद्ध ज्ञान-देहाय त्रि-वेदी दिव्य-चक्षुषे श्रेयः प्राप्ति निमित्ताय नमः सोम-अर्थ-धारिणे (2) सर्वमेत द्विजानीयान्मन्त्राणापि कीलकम् । सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ॥2॥ पद-विच्छेद: सर्वम् एतत् द्विजः जानीयात् मन्त्राणाम् अपि कीलकम् सः अपि क्षेमम् अवाप्नोति सततम् जाप्य तत्-परः (3) सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि । एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥3॥ पद-विच्छेद: सिद्ध्यन्ति उच्-चाटन-आदीनि कर्माणि सकलानि अपि एतेन स्तुवताम् देवीम् स्तोत्र-वृन्देन भक्तितः (4) न मन्त्रो नौषधं तस्य न किञ्चिदपि विध्यते । विना जाप्यं न सिद्ध्येत्तु सर्वमुच्चाटनादिकम् ॥4॥ पद-विच्छेद: न मन्त्रः न औषधम् तस्य न किञ्चित् अपि विध्यते विना जाप्यम् न सिद्ध्येत् तु सर्वम् उच्-चाटन-आदिकम् (5) समग्राण्यपि सेत्स्यन्ति लोकशङ्का मिमां हरः । कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥5॥ पद-विच्छेद: समग्राणि अपि सेत्स्यन्ति लोक-शङ्का-मिमाम् हरः कृत्वा निमन्त्रयामास सर्वम् एव इदम् शुभम् (6) स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः । समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् ॥6॥ पद-विच्छेद: स्तोत्रम् वै चण्डिकायाः तु तत् च गुह्यम् चकार सः समाप्नोति सः पुण्येन ताम् यथा-वत् निमन्त्रणाम् (7) सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः । कृष्णायां वा चतुर्दश्यां अष्टम्यां वा समाहितः ॥7॥ पद-विच्छेद: सः अपि क्षेमम् अवाप्नोति सर्वम् एव न संशयः कृष्णायाम् वा चतुर्दश्याम् अष्टम्याम् वा समाहितः (8) ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति । इत्थं रूपेण कीलेन महादेवेन कीलितम् ॥8॥ पद-विच्छेद: ददाति प्रतिगृह्णाति न अन्यथा एषा प्रसीदति इत्थम् रूपेण कीलेन महा-देवेन कीलितम् (9) यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः । स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ॥9॥ पद-विच्छेद: यः निष्-कीलाम् विधाय एनाम् चण्डीम् जपति नित्यशः सः सिद्धः सः गणः सः अथ गन्धर्वः जायते ध्रुवम् (10) न चैव पाटवं तस्य भयं क्वापि न जायते । नाप मृत्युवशं याति मृते च मोक्षमाप्नुयात् ॥10॥ पद-विच्छेद: न च एव पाटवम् तस्य भयम् क्व अपि न जायते न अपि मृत्यु-वशम् याति मृते च मोक्षम् आप्नुयात् (11) ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति । ततो ज्ञात्वैव सम्पूर्णं इदं प्रारभ्यते बुधैः ॥11॥ पद-विच्छेद: ज्ञात्वा प्रारभ्य कुर्वीत हि अकुर्वाणः विनश्यति ततः ज्ञात्वा एव सम्पूर्णम् इदम् प्रारभ्यते बुधैः (12) सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने । तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभम् ॥12॥ पद-विच्छेद: सौ-भाग्य-आदि च यत् किञ्चित् दृश्यते ललना-जने तत् सर्वम् तत्-प्रसादेन तेन जप्यम् इदम् शुभम् (13) शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः । भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥13॥ पद-विच्छेद: शनैः तु जप्यमाने अस्मिन् स्तोत्रे सम्पत्तिः उच्चकैः भवति एव समग्रा अपि ततः प्रारभ्यम् एव तत् (14) ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च । शत्रुहानिः परो मोक्षः स्तूयते सान किं जनैः ॥14॥ पद-विच्छेद: ऐश्वर्यम् तत्-प्रसादेन सौ-भाग्य-आरोग्यम् एव च शत्रु-हानिः परः मोक्षः स्तूयते सा न किम् जनैः (15) चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः । हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥15॥ पद-विच्छेद: चण्डिकाम् हृदयेन अपि यः स्मरेत् सततम् नरः हृद्यम् कामम् अवाप्नोति हृदि देवी सदा वसेत् (16) अग्रतोऽमुं महादेव कृतं कीलकवारणम् । निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ॥16॥ पद-विच्छेद: अग्रतः अमुम् महा-देव कृतम् कीलक-वारणम् निष्-कीलम् च तथा कृत्वा पठितव्यम् समाहितैः ॥ इति श्री भगवती कीलक स्तोत्रं समाप्तम् ॥