।। श्री विनायक स्तोत्रम् ।। मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र । वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ॥ देवदेवसुतं देवं जगद्विघ्नविनायकम् । हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् ॥ १॥ वामनं जटिलं कान्तं ह्रस्वग्रीवं महोदरम् । धूम्रसिन्दूरयुद्गण्डं विकटं प्रकटोत्कटम् ॥ २॥ एकदन्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम् । त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् ॥ ३॥ दन्तपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् । पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् ॥ ४॥ देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् । देवानामधिकं श्रेष्ठं नायकं सुविनायकम् ॥ ५॥ नमामि भगवं देवं अद्भुतं गणनायकम् । वक्रतुण्ड प्रचण्डाय उग्रतुण्डाय ते नमः ॥ ६॥ चण्डाय गुरुचण्डाय चण्डचण्डाय ते नमः । मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः ॥ ७॥ उमासुतं नमस्यामि गङ्गापुत्राय ते नमः । ओङ्काराय वषट्कार स्वाहाकाराय ते नमः ॥ ८॥ मन्त्रमूर्ते महायोगिन् जातवेदे नमो नमः । परशुपाशकहस्ताय गजहस्ताय ते नमः ॥ ९॥ मेघाय मेघवर्णाय मेघेश्वर नमो नमः । घोराय घोररूपाय घोरघोराय ते नमः ॥ १०॥ पुराणपूर्वपूज्याय पुरुषाय नमो नमः । मदोत्कट नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ ११॥ विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल । भक्तप्रियाय शान्ताय महातेजस्विने नमः ॥ १२॥ यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमो नमः । नमस्ते शुक्लभस्माङ्ग शुक्लमालाधराय च ॥ १३॥ मदक्लिन्नकपोलाय गणाधिपतये नमः । रक्तपुष्प प्रियाय च रक्तचन्दन भूषित ॥ १४॥ अग्निहोत्राय शान्ताय अपराजय्य ते नमः । आखुवाहन देवेश एकदन्ताय ते नमः ॥ १५॥ शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः । विघ्नं हरतु देवेश शिवपुत्रो विनायकः ॥ १६।। ~फलश्रुति~ जपादस्यैव होमाच्च सन्ध्योपासनसस्तथा । विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ॥ वैश्यो धनसमृद्धः स्यात् शूद्रः पापैः प्रमुच्यते । गर्भिणी जनयेत्पुत्रं कन्या भर्तारमाप्नुयात् ॥ प्रवासी लभते स्थानं बद्धो बन्धात् प्रमुच्यते । इष्टसिद्धिमवाप्नोति पुनात्यासत्तमं कुलं ॥ सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । सर्वकामप्रदं पुंसां पठतां श्रुणुतामपि ॥ इति श्रीब्रह्माण्डपुराणे स्कन्दप्रोक्त विनायकस्तोत्रं सम्पूर्णम् ॥