देवी माहात्म्यं देवि कवचम् ॐ नमश्चण्डिकायै न्यासः अस्य श्री चण्डी कवचस्य । ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । चामुण्डा देवता । अङ्गन्यासोक्त मातरो बीजम् । नवावरणो मन्त्रशक्तिः । दिग्बन्ध देवताः तत्वम् । श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥ ॐ नमश्चण्डिकायै मार्कण्डेय उवाच । ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ 1 ॥ श्लोक 1 ब्रह्मोवाच । अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ पद-विच्छेद — ब्रह्मा उवाच । अस्ति — गुह्यतमम् — विप्र — सर्व-भूत-उपकारकम् । देव्याः — तु — कवचम् — पुण्यम् — तत् — शृणुष्व — महा-मुने ॥ श्लोक 2 प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ पद-विच्छेद — प्रथमम् — शैलपुत्री — च । द्वितीयम् — ब्रह्मचारिणी । तृतीयम् — चन्द्रघण्टा — इति । चतुर्थकम् — कूष्माण्डा — इति ॥ श्लोक 3 पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ पद-विच्छेद — पञ्चमम् — स्कन्दमाता — इति । षष्ठम् — कात्यायनी — इति — च । सप्तमम् — कालरात्रि — इति । अष्टमम् — महागौरी — इति — च ॥ श्लोक 4 नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ पद-विच्छेद — नवमम् — सिद्धिदात्री — च । नव-दुर्गाः — प्रकीर्तिताः । उक्तानि — एतानि — नामानि — ब्रह्मणा — एव — महा-आत्मना ॥ श्लोक 5 अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ पद-विच्छेद — अग्निना — दह्यमानः — तु । शत्रु-मध्ये — गतः — रणे । विषमे — दुर्गमे — च — एव । भय-आर्ताः — शरणम् — गताः ॥ 🔸 श्लोक 6 न तेषां जायते किञ्चिदशुभं रणसङ्कटे । नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ पद-विच्छेद — न — तेषाम् — जायते — किञ्चित् — अशुभम् — रण-सङ्कटे । न — आपदम् — तस्य — पश्यामि । शोक — दुःख — भयम् — न — हि ॥ 🔸 श्लोक 7 यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते । ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ॥ पद-विच्छेद — यैः — तु — भक्त्या — स्मृताः — नूनम् । तेषाम् — वृद्धिः — प्रजायते । ये — त्वाम् — स्मरन्ति — देव-ईशि । रक्षसे — तान् — न — संशयः ॥ 🔸 श्लोक 8 प्रेतसंस्था तु चामुण्डा वाराही महिषासना । ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ पद-विच्छेद — प्रेत-संस्था — तु — चामुण्डा । वाराही — महिष-आसना । ऐन्द्री — गज-समारूढा । वैष्णवी — गरुड-आसना ॥ 🔸 श्लोक 9 माहेश्वरी वृषारूढा कौमारी शिखिवाहना । लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ पद-विच्छेद — माहेश्वरी — वृष-आरूढा । कौमारी — शिखि-वाहना । लक्ष्मीः — पद्म-आसना — देवी । पद्म-हस्ता — हरि-प्रिया ॥ 🔸 श्लोक 10 श्वेतरूपधरा देवी ईश्वरी वृषवाहना । ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ 🔸 श्लोक 11 इत्येता मातरः सर्वाः सर्वयोगसमन्विताः । नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ॥ पद-विच्छेद — इति — एताः — मातरः — सर्वाः । सर्व-योग-समन्विताः । नाना-आभरण-शोभा-आढ्याः । नाना-रत्न-उपशोभिताः ॥ 🔸 श्लोक 12 दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः । शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ पद-विच्छेद — दृश्यन्ते — रथम् — आरूढाः । देव्यः — क्रोध-समाकुलाः । शङ्खम् — चक्रम् — गदाम् — शक्तिम् । हलम् — च — मुसल-आयुधम् ॥ 🔸 श्लोक 13 खेटकं तोमरं चैव परशुं पाशमेव च । कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ पद-विच्छेद — खेटकम् — तोमरम् — च — एव । परशुम् — पाशम् — एव — च । कुन्त-आयुधम् — त्रिशूलम् — च । शार्ङ्गम् — आयुधम् — उत्तमम् ॥ 🔸 श्लोक 14 दैत्यानां देहनाशाय भक्तानामभयाय च । धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ पद-विच्छेद — दैत्यानाम् — देह-नाशाय । भक्तानाम् — अभयाय — च । धारयन्ति — आयुधानि — इत्थम् । देवानाम् — च — हिताय — वै ॥ 🔸 श्लोक 15 नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे । महाबले महोत्साहे महाभयविनाशिनि ॥ पद-विच्छेद — नमः — ते — अस्तु । महा-रौद्रे । महा-घोर-पराक्रमे । महा-बले । महा-उत्साहे । महा-भय-विनाशिनि ॥ पद-विच्छेद — श्वेत-रूप-धरा — देवी । ईश्वरी — वृष-वाहना । ब्राह्मी — हंस-समारूढा । सर्व-आभरण-भूषिता ॥ 🔸 श्लोक 16 त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि । प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ पद-विच्छेद — त्राहि — माम् — देवि । दुष्-प्रेक्ष्ये । शत्रूणाम् — भय-वर्धिनि । प्राच्याम् — रक्षतु — माम् — ऐन्द्री । आग्नेय्याम् — अग्नि-देवता ॥ 🔸 श्लोक 17 दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी । प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ पद-विच्छेद — दक्षिणे — अवतु — वाराही । नैरृत्याम् — खड्ग-धारिणी । प्रतीच्याम् — वारुणी — रक्षेत् । वायव्याम् — मृग-वाहिनी ॥ 🔸 श्लोक 18 उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी । ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ पद-विच्छेद — उदीच्याम् — पातु — कौमारी । ऐशान्याम् — शूल-धारिणी । ऊर्ध्वम् — ब्रह्माणी — मे — रक्षेत् । अधस्तात् — वैष्णवी — तथा ॥ 🔸 श्लोक 19 एवं दश दिशो रक्षेच्चामुण्डा शववाहना । जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ पद-विच्छेद — एवम् — दश — दिशः — रक्षेत् — चामुण्डा — शव-वाहना । जया — मे — च — अग्रतः — पातु । विजया — पातु — पृष्ठतः ॥ 🔸 श्लोक 20 अजिता वामपार्श्वे तु दक्षिणे चापराजिता । शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ पद-विच्छेद — अजिता — वाम-पार्श्वे — तु । दक्षिणे — च — अपराजिता । शिखाम् — उद्योतिनी — रक्षेत् । उमा — मूर्ध्नि — व्यवस्थिता ॥ 🔸 श्लोक 21 मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी । त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ पद-विच्छेद — माला-धरी — ललाटे — च । भ्रुवौ — रक्षेत् — यशस्विनी । त्रि-नेत्रा — च — भ्रुवोः — मध्ये । यम-घण्टा — च — नासिके ॥ 🔸 श्लोक 22 शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी । कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ पद-विच्छेद — शङ्खिनी — चक्षुषोः — मध्ये । श्रोत्रयोः — द्वार-वासिनी । कपोलौ — कालिका — रक्षेत् । कर्ण-मूले — तु — शाङ्करी ॥ 🔸 श्लोक 23 नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका । अधरे चामृतकला जिह्वायां च सरस्वती ॥ पद-विच्छेद — नासिकायाम् — सु-गन्धा — च । उत्तर-ओष्ठे — च — चर्चिका । अधरे — च — अमृत-कला । जिह्वायाम् — च — सरस्वती ॥ 🔸 श्लोक 24 दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका । घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ पद-विच्छेद — दन्तान् — रक्षतु — कौमारी । कण्ठ-देशे — तु — चण्डिका । घण्टिकाम् — चित्र-घण्टा — च । महा-माया — च — तालुके ॥ 🔸 श्लोक 25 कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला । ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ पद-विच्छेद — काम-अक्षी — चिबुकम् — रक्षेत् । वाचम् — मे — सर्व-मङ्गला । ग्रीवायाम् — भद्र-काली — च । पृष्ठ-वंशे — धनुः-धरी ॥ 🔸 श्लोक 26 नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी । स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ पद-विच्छेद — नील-ग्रीवा — बहिः — कण्ठे । नलिकाम् — नलकूबरी । स्कन्धयोः — खड्गिनी — रक्षेत् । बाहू — मे — वज्र-धारिणी ॥ 🔸 श्लोक 27 हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च । नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ पद-विच्छेद — हस्तयोः — दण्डिनी — रक्षेत् । अम्बिका — च — अङ्गुलीषु — च । नखान् — शूल-ईश्वरी — रक्षेत् । कुक्षौ — रक्षेत् — कुल-ईश्वरी ॥ 🔸 श्लोक 28 स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी । हृदये ललिता देवी उदरे शूलधारिणी ॥ पद-विच्छेद — स्तनौ — रक्षेत् — महा-देवी । मनः-शोक-विनाशिनी । हृदये — ललिता — देवी । उदरे — शूल-धारिणी ॥ 🔸 श्लोक 29 नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा । पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ पद-विच्छेद — नाभौ — च — कामिनी — रक्षेत् । गुह्यम् — गुह्य-ईश्वरी — तथा । पूतना — कामिका — मेढ्रम् । गुदे — महिष-वाहिनी ॥ 🔸 श्लोक 30 कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी । जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ पद-विच्छेद — कट्याम् — भगवती — रक्षेत् । जानुनी — विन्ध्य-वासिनी । जङ्घे — महा-बला — रक्षेत् । सर्व-काम-प्रदायिनी ॥ 🔸 श्लोक 31 गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी । पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ पद-विच्छेद — गुल्फयोः — नारसिंही — च । पाद-पृष्ठे — तु — तैजसी । पाद-अङ्गुलीषु — श्री — रक्षेत् । पाद-अधः-तल-वासिनी ॥ 🔸 श्लोक 32 नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी । रोमकूपेषु कौमारी त्वचं वागीश्वरी तथा ॥ पद-विच्छेद — नखान् — दंष्ट्र-कराली — च । केशान् — च — एव — ऊर्ध्व-केशिनी । रोम-कूपेषु — कौमारी । त्वचम् — वाग्-ईश्वरी — तथा ॥ 🔸 श्लोक 33 रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती । अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ पद-विच्छेद — रक्त — मज्जा — वसा — मांसानि । अस्थि — मेदांसि — पार्वती । अन्त्राणि — काल-रात्रिः — च । पित्तम् — च — मुकुट-ईश्वरी ॥ 🔸 श्लोक 34 पद्मावती पद्मकोशे कफे चूडामणिस्तथा । ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ पद-विच्छेद — पद्मावती — पद्म-कोशे । कफे — चूडा-मणिः — तथा । ज्वाला-मुखी — नख-ज्वालाम् । अभेद्या — सर्व-सन्धिषु ॥ 🔸 श्लोक 35 शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा । अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ पद-विच्छेद — शुक्रम् — ब्रह्माणि — मे — रक्षेत् । छायाम् — छत्र-ईश्वरी — तथा । अहङ्कारम् — मनः — बुद्धिम् । रक्षेत् — मे — धर्म-धारिणी ॥ 🔸 श्लोक 36 प्राणापानौ तथा व्यानमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ पद-विच्छेद — प्राण — अपानौ — तथा । व्यानम् — उदानम् — च — समानकम् । वज्र-हस्ता — च — मे — रक्षेत् । प्राणम् — कल्याण-शोभना ॥ 🔸 श्लोक 37 रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ पद-विच्छेद — रसे — रूपे — च । गन्धे — च । शब्दे — स्पर्शे — च — योगिनी । सत्त्वम् — रजः — तमः — च — एव । रक्षेत् — नारायणी — सदा ॥ 🔸 श्लोक 38 आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी । यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ पद-विच्छेद — आयुः — रक्षतु — वाराही । धर्मम् — रक्षतु — वैष्णवी । यशः — कीर्तिम् — च । लक्ष्मीम् — च । धनम् — विद्याम् — च — चक्रिणी ॥ 🔸 श्लोक 39 गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके । पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ पद-विच्छेद — गोत्रम् — इन्द्राणि — मे — रक्षेत् । पशून् — मे — रक्ष — चण्डिके । पुत्रान् — रक्षेत् — महा-लक्ष्मीः । भार्याम् — रक्षतु — भैरवी ॥ 🔸 श्लोक 40 पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा । राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ पद-विच्छेद — पन्थानम् — सु-पथा — रक्षेत् । मार्गम् — क्षेम-कारी — तथा । राज-द्वारे — महा-लक्ष्मीः । विजया — सर्वतः — स्थिता ॥ 🔸 श्लोक 41 रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु । तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ॥ पद-विच्छेद — रक्षा-हीनम् — तु — यत् — स्थानम् । वर्जितम् — कवचेन — तु । तत् — सर्वम् — रक्ष — मे — देवि । जयन्ती — पाप-नाशिनी ॥ 🔸 श्लोक 42 पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः । कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ पद-विच्छेद — पदम् — एकम् — न — गच्छेत् — तु । यदि — इच्छेत् — शुभम् — आत्मनः । कवचेन — आवृतः — नित्यम् । यत्र — यत्र — एव — गच्छति ॥ 🔸 श्लोक 43 तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ पद-विच्छेद — तत्र — तत्र — अर्थ-लाभः — च । विजयः — सर्व-कामिकः । यम् — यम् — चिन्तयते — कामम् । तम् — तम् — प्राप्नोति — निश्चितम् ॥ 🔸 श्लोक 44 परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् । निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ॥ पद-विच्छेद — परम-ऐश्वर्यम् — अतुलम् । प्राप्स्यते — भू-तले — पुमान् । निर्भयः — जायते — मर्त्यः । सङ्ग्रामेषु — अपराजितः ॥ 🔸 श्लोक 45 त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् । इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ पद-विच्छेद — त्रै-लोक्ये — तु — भवेत् — पूज्यः । कवचेन — आवृतः — पुमान् । इदम् — तु — देव्याः — कवचम् । देवानाम् — अपि — दुर्लभम् ॥ 🔸 श्लोक 46 यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः । दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः ॥ पद-विच्छेद — यः — पठेत् — प्रयतः — नित्यम् — त्रि-सन्ध्यं — श्रद्धया — अन्वितः । दैवी-कला — भवेत् — तस्य — त्रै-लोक्येषु — अपराजितः ॥ 🔸 श्लोक 47 जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः । नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ पद-विच्छेद — जीवेत् — वर्ष-शतं — साग्रम् — अप-मृत्यु-विवर्जितः । नश्यन्ति — व्याधयः — सर्वे — लूताः — विस्फोटका — आदयः ॥ 🔸 श्लोक 48 स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् । अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ पद-विच्छेद — स्थावरम् — जङ्गमम् — च — एव । कृत्रिमम् — च — एव — यत् — विषम् । अभिचाराणि — सर्वाणि — मन्त्र-यन्त्राणि — भू-तले ॥ 🔸 श्लोक 49 भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः । सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ पद-विच्छेद — भू-चराः — खे-चराः — च — एव । जुलजा — च — उपदेशिकाः । सहजा — कुलजा — माला — डाकिनी — शाकिनी — तथा ॥ 🔸 श्लोक 50 अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः । ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ पद-विच्छेद — अन्तरिक्ष-चरा — घोरा — डाकिन्यः — च — महा-बलाः । ग्रह-भूत-पिशाचाः — च — यक्ष — गन्धर्व — राक्षसाः ॥ 🔸 श्लोक 51 ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः । नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ पद-विच्छेद — ब्रह्म-राक्षस — वेतालाः — कूष्माण्डा — भैरव — अदयः । नश्यन्ति — दर्शनात् — तस्य — कवचे — हृदि — संस्थिते ॥ 🔸 श्लोक 52 मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् । यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ पद-विच्छेद — मानोन्नतिर्भवेत् — राज्ञः । तेजः — वृद्धि-करम् — परम् । यशसा — वर्धते — सः — अपि — कीर्ति-मण्डित — भू-तले ॥ 🔸 श्लोक 53 जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा । यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ पद-विच्छेद — जपेत् — सप्त-शतीम् — चण्डीं — कृत्वा — तु — कवचम् — पुरा । यावत् — भू-मण्डलं — धत्ते — सः — शैल-वन-काननम् ॥ 🔸 श्लोक 54 तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी । देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ पद-विच्छेद — तावत् — तिष्ठति — मेदिन्याम् । सन्ततिः — पुत्र-पौत्रिकी । देहान्ते — परमम् — स्थानम् । यत् — सुरैः — अपि — दुर्लभम् ॥ 🔸 श्लोक 55 प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः । लभते परमं रूपं शिवेन सह मोदते ॥ पद-विच्छेद — प्राप्नोति — पुरुषः — नित्यम् — महा-माया — प्रसादतः । लभते — परमम् — रूपम् । शिवेन — सह — मोदते ॥ 🔸 श्लोक 56 (अंतिम) ॥ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ॥ पद-विच्छेद — इति — वाराह-पुराणे — हरिहर-ब्रह्म — विरचितम् — देव्याः — कवचम् — सम्पूर्णम् ॥