II देवी माहात्म्यं देवि कवचम् II
देवी माहात्म्यं देवि कवचम्
ॐ नमश्चण्डिकायै
न्यासः
अस्य श्री चण्डी कवचस्य । ब्रह्मा ऋषिः । अनुष्टुप् छन्दः ।
चामुण्डा देवता । अङ्गन्यासोक्त मातरो बीजम् । नवावरणो मन्त्रशक्तिः । दिग्बन्ध देवताः तत्वम् । श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥
ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ 1 ॥
श्लोक 1
ब्रह्मोवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥
पद-विच्छेद —
ब्रह्मा उवाच ।
अस्ति — गुह्यतमम् — विप्र — सर्व-भूत-उपकारकम् ।
देव्याः — तु — कवचम् — पुण्यम् — तत् — शृणुष्व — महा-मुने ॥
श्लोक 2
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥
पद-विच्छेद —
प्रथमम् — शैलपुत्री — च ।
द्वितीयम् — ब्रह्मचारिणी ।
तृतीयम् — चन्द्रघण्टा — इति ।
चतुर्थकम् — कूष्माण्डा — इति ॥
श्लोक 3
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥
पद-विच्छेद —
पञ्चमम् — स्कन्दमाता — इति ।
षष्ठम् — कात्यायनी — इति — च ।
सप्तमम् — कालरात्रि — इति ।
अष्टमम् — महागौरी — इति — च ॥
श्लोक 4
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥
पद-विच्छेद —
नवमम् — सिद्धिदात्री — च ।
नव-दुर्गाः — प्रकीर्तिताः ।
उक्तानि — एतानि — नामानि — ब्रह्मणा — एव — महा-आत्मना ॥
श्लोक 5
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥
पद-विच्छेद —
अग्निना — दह्यमानः — तु ।
शत्रु-मध्ये — गतः — रणे ।
विषमे — दुर्गमे — च — एव ।
भय-आर्ताः — शरणम् — गताः ॥
🔸 श्लोक 6
न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥
पद-विच्छेद —
न — तेषाम् — जायते — किञ्चित् — अशुभम् — रण-सङ्कटे ।
न — आपदम् — तस्य — पश्यामि ।
शोक — दुःख — भयम् — न — हि ॥
🔸 श्लोक 7
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ॥
पद-विच्छेद —
यैः — तु — भक्त्या — स्मृताः — नूनम् ।
तेषाम् — वृद्धिः — प्रजायते ।
ये — त्वाम् — स्मरन्ति — देव-ईशि ।
रक्षसे — तान् — न — संशयः ॥
🔸 श्लोक 8
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥
पद-विच्छेद —
प्रेत-संस्था — तु — चामुण्डा ।
वाराही — महिष-आसना ।
ऐन्द्री — गज-समारूढा ।
वैष्णवी — गरुड-आसना ॥
🔸 श्लोक 9
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥
पद-विच्छेद —
माहेश्वरी — वृष-आरूढा ।
कौमारी — शिखि-वाहना ।
लक्ष्मीः — पद्म-आसना — देवी ।
पद्म-हस्ता — हरि-प्रिया ॥
🔸 श्लोक 10
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥
🔸 श्लोक 11
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ॥
पद-विच्छेद —
इति — एताः — मातरः — सर्वाः ।
सर्व-योग-समन्विताः ।
नाना-आभरण-शोभा-आढ्याः ।
नाना-रत्न-उपशोभिताः ॥
🔸 श्लोक 12
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥
पद-विच्छेद —
दृश्यन्ते — रथम् — आरूढाः ।
देव्यः — क्रोध-समाकुलाः ।
शङ्खम् — चक्रम् — गदाम् — शक्तिम् ।
हलम् — च — मुसल-आयुधम् ॥
🔸 श्लोक 13
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥
पद-विच्छेद —
खेटकम् — तोमरम् — च — एव ।
परशुम् — पाशम् — एव — च ।
कुन्त-आयुधम् — त्रिशूलम् — च ।
शार्ङ्गम् — आयुधम् — उत्तमम् ॥
🔸 श्लोक 14
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥
पद-विच्छेद —
दैत्यानाम् — देह-नाशाय ।
भक्तानाम् — अभयाय — च ।
धारयन्ति — आयुधानि — इत्थम् ।
देवानाम् — च — हिताय — वै ॥
🔸 श्लोक 15
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभयविनाशिनि ॥
पद-विच्छेद —
नमः — ते — अस्तु ।
महा-रौद्रे ।
महा-घोर-पराक्रमे ।
महा-बले ।
महा-उत्साहे ।
महा-भय-विनाशिनि ॥
पद-विच्छेद —
श्वेत-रूप-धरा — देवी ।
ईश्वरी — वृष-वाहना ।
ब्राह्मी — हंस-समारूढा ।
सर्व-आभरण-भूषिता ॥
🔸 श्लोक 16
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥
पद-विच्छेद —
त्राहि — माम् — देवि ।
दुष्-प्रेक्ष्ये ।
शत्रूणाम् — भय-वर्धिनि ।
प्राच्याम् — रक्षतु — माम् — ऐन्द्री ।
आग्नेय्याम् — अग्नि-देवता ॥
🔸 श्लोक 17
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥
पद-विच्छेद —
दक्षिणे — अवतु — वाराही ।
नैरृत्याम् — खड्ग-धारिणी ।
प्रतीच्याम् — वारुणी — रक्षेत् ।
वायव्याम् — मृग-वाहिनी ॥
🔸 श्लोक 18
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ।
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥
पद-विच्छेद —
उदीच्याम् — पातु — कौमारी ।
ऐशान्याम् — शूल-धारिणी ।
ऊर्ध्वम् — ब्रह्माणी — मे — रक्षेत् ।
अधस्तात् — वैष्णवी — तथा ॥
🔸 श्लोक 19
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥
पद-विच्छेद —
एवम् — दश — दिशः — रक्षेत् — चामुण्डा — शव-वाहना ।
जया — मे — च — अग्रतः — पातु ।
विजया — पातु — पृष्ठतः ॥
🔸 श्लोक 20
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥
पद-विच्छेद —
अजिता — वाम-पार्श्वे — तु ।
दक्षिणे — च — अपराजिता ।
शिखाम् — उद्योतिनी — रक्षेत् ।
उमा — मूर्ध्नि — व्यवस्थिता ॥
🔸 श्लोक 21
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥
पद-विच्छेद —
माला-धरी — ललाटे — च ।
भ्रुवौ — रक्षेत् — यशस्विनी ।
त्रि-नेत्रा — च — भ्रुवोः — मध्ये ।
यम-घण्टा — च — नासिके ॥
🔸 श्लोक 22
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥
पद-विच्छेद —
शङ्खिनी — चक्षुषोः — मध्ये ।
श्रोत्रयोः — द्वार-वासिनी ।
कपोलौ — कालिका — रक्षेत् ।
कर्ण-मूले — तु — शाङ्करी ॥
🔸 श्लोक 23
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला जिह्वायां च सरस्वती ॥
पद-विच्छेद —
नासिकायाम् — सु-गन्धा — च ।
उत्तर-ओष्ठे — च — चर्चिका ।
अधरे — च — अमृत-कला ।
जिह्वायाम् — च — सरस्वती ॥
🔸 श्लोक 24
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥
पद-विच्छेद —
दन्तान् — रक्षतु — कौमारी ।
कण्ठ-देशे — तु — चण्डिका ।
घण्टिकाम् — चित्र-घण्टा — च ।
महा-माया — च — तालुके ॥
🔸 श्लोक 25
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥
पद-विच्छेद —
काम-अक्षी — चिबुकम् — रक्षेत् ।
वाचम् — मे — सर्व-मङ्गला ।
ग्रीवायाम् — भद्र-काली — च ।
पृष्ठ-वंशे — धनुः-धरी ॥
🔸 श्लोक 26
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥
पद-विच्छेद —
नील-ग्रीवा — बहिः — कण्ठे ।
नलिकाम् — नलकूबरी ।
स्कन्धयोः — खड्गिनी — रक्षेत् ।
बाहू — मे — वज्र-धारिणी ॥
🔸 श्लोक 27
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥
पद-विच्छेद —
हस्तयोः — दण्डिनी — रक्षेत् ।
अम्बिका — च — अङ्गुलीषु — च ।
नखान् — शूल-ईश्वरी — रक्षेत् ।
कुक्षौ — रक्षेत् — कुल-ईश्वरी ॥
🔸 श्लोक 28
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥
पद-विच्छेद —
स्तनौ — रक्षेत् — महा-देवी ।
मनः-शोक-विनाशिनी ।
हृदये — ललिता — देवी ।
उदरे — शूल-धारिणी ॥
🔸 श्लोक 29
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥
पद-विच्छेद —
नाभौ — च — कामिनी — रक्षेत् ।
गुह्यम् — गुह्य-ईश्वरी — तथा ।
पूतना — कामिका — मेढ्रम् ।
गुदे — महिष-वाहिनी ॥
🔸 श्लोक 30
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥
पद-विच्छेद —
कट्याम् — भगवती — रक्षेत् ।
जानुनी — विन्ध्य-वासिनी ।
जङ्घे — महा-बला — रक्षेत् ।
सर्व-काम-प्रदायिनी ॥
🔸 श्लोक 31
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥
पद-विच्छेद —
गुल्फयोः — नारसिंही — च ।
पाद-पृष्ठे — तु — तैजसी ।
पाद-अङ्गुलीषु — श्री — रक्षेत् ।
पाद-अधः-तल-वासिनी ॥
🔸 श्लोक 32
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौमारी त्वचं वागीश्वरी तथा ॥
पद-विच्छेद —
नखान् — दंष्ट्र-कराली — च ।
केशान् — च — एव — ऊर्ध्व-केशिनी ।
रोम-कूपेषु — कौमारी ।
त्वचम् — वाग्-ईश्वरी — तथा ॥
🔸 श्लोक 33
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥
पद-विच्छेद —
रक्त — मज्जा — वसा — मांसानि ।
अस्थि — मेदांसि — पार्वती ।
अन्त्राणि — काल-रात्रिः — च ।
पित्तम् — च — मुकुट-ईश्वरी ॥
🔸 श्लोक 34
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥
पद-विच्छेद —
पद्मावती — पद्म-कोशे ।
कफे — चूडा-मणिः — तथा ।
ज्वाला-मुखी — नख-ज्वालाम् ।
अभेद्या — सर्व-सन्धिषु ॥
🔸 श्लोक 35
शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥
पद-विच्छेद —
शुक्रम् — ब्रह्माणि — मे — रक्षेत् ।
छायाम् — छत्र-ईश्वरी — तथा ।
अहङ्कारम् — मनः — बुद्धिम् ।
रक्षेत् — मे — धर्म-धारिणी ॥
🔸 श्लोक 36
प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥
पद-विच्छेद —
प्राण — अपानौ — तथा ।
व्यानम् — उदानम् — च — समानकम् ।
वज्र-हस्ता — च — मे — रक्षेत् ।
प्राणम् — कल्याण-शोभना ॥
🔸 श्लोक 37
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥
पद-विच्छेद —
रसे — रूपे — च ।
गन्धे — च ।
शब्दे — स्पर्शे — च — योगिनी ।
सत्त्वम् — रजः — तमः — च — एव ।
रक्षेत् — नारायणी — सदा ॥
🔸 श्लोक 38
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥
पद-विच्छेद —
आयुः — रक्षतु — वाराही ।
धर्मम् — रक्षतु — वैष्णवी ।
यशः — कीर्तिम् — च ।
लक्ष्मीम् — च ।
धनम् — विद्याम् — च — चक्रिणी ॥
🔸 श्लोक 39
गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥
पद-विच्छेद —
गोत्रम् — इन्द्राणि — मे — रक्षेत् ।
पशून् — मे — रक्ष — चण्डिके ।
पुत्रान् — रक्षेत् — महा-लक्ष्मीः ।
भार्याम् — रक्षतु — भैरवी ॥
🔸 श्लोक 40
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥
पद-विच्छेद —
पन्थानम् — सु-पथा — रक्षेत् ।
मार्गम् — क्षेम-कारी — तथा ।
राज-द्वारे — महा-लक्ष्मीः ।
विजया — सर्वतः — स्थिता ॥
🔸 श्लोक 41
रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ॥
पद-विच्छेद —
रक्षा-हीनम् — तु — यत् — स्थानम् ।
वर्जितम् — कवचेन — तु ।
तत् — सर्वम् — रक्ष — मे — देवि ।
जयन्ती — पाप-नाशिनी ॥
🔸 श्लोक 42
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥
पद-विच्छेद —
पदम् — एकम् — न — गच्छेत् — तु ।
यदि — इच्छेत् — शुभम् — आत्मनः ।
कवचेन — आवृतः — नित्यम् ।
यत्र — यत्र — एव — गच्छति ॥
🔸 श्लोक 43
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥
पद-विच्छेद —
तत्र — तत्र — अर्थ-लाभः — च ।
विजयः — सर्व-कामिकः ।
यम् — यम् — चिन्तयते — कामम् ।
तम् — तम् — प्राप्नोति — निश्चितम् ॥
🔸 श्लोक 44
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ॥
पद-विच्छेद —
परम-ऐश्वर्यम् — अतुलम् ।
प्राप्स्यते — भू-तले — पुमान् ।
निर्भयः — जायते — मर्त्यः ।
सङ्ग्रामेषु — अपराजितः ॥
🔸 श्लोक 45
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥
पद-विच्छेद —
त्रै-लोक्ये — तु — भवेत् — पूज्यः ।
कवचेन — आवृतः — पुमान् ।
इदम् — तु — देव्याः — कवचम् ।
देवानाम् — अपि — दुर्लभम् ॥
🔸 श्लोक 46
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः ॥
पद-विच्छेद —
यः — पठेत् — प्रयतः — नित्यम् — त्रि-सन्ध्यं — श्रद्धया — अन्वितः ।
दैवी-कला — भवेत् — तस्य — त्रै-लोक्येषु — अपराजितः ॥
🔸 श्लोक 47
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ।
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥
पद-विच्छेद —
जीवेत् — वर्ष-शतं — साग्रम् — अप-मृत्यु-विवर्जितः ।
नश्यन्ति — व्याधयः — सर्वे — लूताः — विस्फोटका — आदयः ॥
🔸 श्लोक 48
स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ।
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥
पद-विच्छेद —
स्थावरम् — जङ्गमम् — च — एव ।
कृत्रिमम् — च — एव — यत् — विषम् ।
अभिचाराणि — सर्वाणि — मन्त्र-यन्त्राणि — भू-तले ॥
🔸 श्लोक 49
भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः ।
सहजा कुलजा माला डाकिनी शाकिनी तथा ॥
पद-विच्छेद —
भू-चराः — खे-चराः — च — एव ।
जुलजा — च — उपदेशिकाः ।
सहजा — कुलजा — माला — डाकिनी — शाकिनी — तथा ॥
🔸 श्लोक 50
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥
पद-विच्छेद —
अन्तरिक्ष-चरा — घोरा — डाकिन्यः — च — महा-बलाः ।
ग्रह-भूत-पिशाचाः — च — यक्ष — गन्धर्व — राक्षसाः ॥
🔸 श्लोक 51
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥
पद-विच्छेद —
ब्रह्म-राक्षस — वेतालाः — कूष्माण्डा — भैरव — अदयः ।
नश्यन्ति — दर्शनात् — तस्य — कवचे — हृदि — संस्थिते ॥
🔸 श्लोक 52
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ।
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥
पद-विच्छेद —
मानोन्नतिर्भवेत् — राज्ञः ।
तेजः — वृद्धि-करम् — परम् ।
यशसा — वर्धते — सः — अपि — कीर्ति-मण्डित — भू-तले ॥
🔸 श्लोक 53
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥
पद-विच्छेद —
जपेत् — सप्त-शतीम् — चण्डीं — कृत्वा — तु — कवचम् — पुरा ।
यावत् — भू-मण्डलं — धत्ते — सः — शैल-वन-काननम् ॥
🔸 श्लोक 54
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥
पद-विच्छेद —
तावत् — तिष्ठति — मेदिन्याम् ।
सन्ततिः — पुत्र-पौत्रिकी ।
देहान्ते — परमम् — स्थानम् ।
यत् — सुरैः — अपि — दुर्लभम् ॥
🔸 श्लोक 55
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ।
लभते परमं रूपं शिवेन सह मोदते ॥
पद-विच्छेद —
प्राप्नोति — पुरुषः — नित्यम् — महा-माया — प्रसादतः ।
लभते — परमम् — रूपम् ।
शिवेन — सह — मोदते ॥
🔸 श्लोक 56 (अंतिम)
॥ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ॥
पद-विच्छेद —
इति — वाराह-पुराणे — हरिहर-ब्रह्म — विरचितम् —
देव्याः — कवचम् — सम्पूर्णम् ॥