II देवी माहात्म्यं नवावर्ण विधि II श्रीगणपतिर्जयति । ॐ अस्य श्रीनवावर्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः, गायत्र्युष्णिगनुष्टुभश्छन्दांसि श्रीमहाकालीमाहालक्ष्मीमहासरस्वत्यो देवताः, ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, श्रीमहाकालीमाहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे विनियोगः॥ ऋष्यादिन्यासः ब्रह्मविष्णुरुद्रा ऋषिभ्यो नमः, मुखे । महाकालीमाहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः,हृदि । ऐं बीजाय नमः, गुह्ये । ह्रीं शक्तये नमः, पादयोः । क्लीं कीलकाय नमः, नाभौ । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे -- इति मूलेन करौ संशोध्य करन्यासः ॐ ऐं अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ क्लीं मध्यमाभ्यां नमः । ॐ चामुण्डायै अनामिकाभ्यां नमः । ॐ विच्चे कनिष्ठिकाभ्यां नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः ॐ ऐं हृदयाय नमः । ॐ ह्रीं शिरसे स्वाह । ॐ क्लीं शिखायै वषट् । ॐ चामुण्डायै कवचाय हुम् । ॐ विच्चे नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् । अक्षरन्यासः ॐ ऐं नमः, शिखायाम् । ॐ ह्रीं नमः, दक्षिणनेत्रे । ॐ क्लीं नमः, वामनेत्रे । ॐ चां नमः, दक्षिणकर्णे । ॐ मुं नमः, वामकर्णे । ॐ डां नमः, दक्षिणनासापुटे । ॐ यैं नमः, वामनासापुटे । ॐ विं नमः, मुखे । ॐ च्चें नमः, गुह्ये । एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् । दिङ्न्यासः ॐ ऐं प्राच्यै नमः । ॐ ऐं आग्नेय्यै नमः । ॐ ह्रीं दक्षिणायै नमः । ॐ ह्रीं नैऋत्यै नमः । ॐ क्लीं पतीच्यै नमः । ॐ क्लीं वायुव्यै नमः । ॐ चामुण्डायै उदीच्यै नमः । ॐ चामुण्डायै ऐशान्यै नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः । ध्यानम् ॐ खड्गम् चक्रम् गदाम् इषुम् च आपम् परिघान् शूलम् भुशुण्डीम् शिरः शङ्खम् सन्दधतीम् करैः त्रि-नयनाम् सर्व-अङ्ग-भूषा-आवृताम्। नील-अश्म-द्युतिम् आस्य-पाद-दशकाम् सेवे महाकालिकाम् याम् अस्तौत् स्वपिते हरौ कमलजः हन्तुम् मधुम् कौटभम् ॥ ॐ अक्ष-स्रक् परशुम् गदाम् इषुम् कुलिशम् पद्मम् धनुः कुण्डिकाम् दण्डम् शक्तिम् असिम् च । चर्म जलजम् घण्टाम् सुरा-भाजनम् शूलम् पाशम् सुदर्शने च दधतीम् ॥ हस्तैः प्रवाल-प्रभाम् सेवे सैरिभ-मर्दिनीम् । इह महालक्ष्मीम् सरोज-स्थिताम् ॥ ॐ घण्टाम् शूलम् हलानि शङ्खम् मुसले चक्रम् धनुः सायकम् हस्त-अब्जैः दधतीम् घन-अन्त-विलसत् शीत-अंशु-तुल्य-प्रभाम् गौरी-देह-समुद्भवाम् त्रि-जगत्-आधार-भूताम् महापूर्वाम् अत्र सरस्वतीम् अनुभजे शुम्भ-आदि-दैत्य-अर्धिनीम् ॥ ॐ माम् माले महामाये सर्व-शक्ति-स्वरूपिणि । चतुः-वर्गः त्वयि न्यस्तः तस्मात् मे सिद्धि-दा भव ॥ ॐ अविघ्नम् कुरु माले त्वम् गृह्णामि दक्षिणे करे । जप-काले च सिद्धि-अर्थम् प्रसीद मम सिद्धये ॥ ऐं ह्रीं अक्षमालिकायै नमः ॥ 108 ॥ ॐ अक्ष-माला-अधिपतये सु-सिद्धिम् देहि देहि सर्व-मन्त्र-अर्थ-साधिनि साधय साधय सर्व-सिद्धिम् परिकल्पय परिकल्पय मे स्वाहा ॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥ 108 ॥ गुह्य-अति-गुह्य-गोप्त्री त्वम् गृहाण अस्मत्-कृतम् जपम् । सिद्धिः भवतु मे देवि त्वत्-प्रसादात् महेश्वरि ॥ ॐ अक्ष-माला-अधिपतये सु-सिद्धिम् देहि देहि सर्व-मन्त्र-अर्थ-साधिनि साधय साधय सर्व-सिद्धिम् परिकल्पय परिकल्पय मे स्वाहा ॥ गुह्य-अति-गुह्य-गोप्त्री त्वम् गृहाण अस्मत्-कृतम् जपम् । सिद्धिः भवतु मे देवि त्वत्-प्रसादात् महेश्वरि ॥ करन्यासः ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ चं तर्जनीभ्यां नमः । ॐ डिं मध्यमाभ्यां नमः । ॐ कां अनामिकाभ्यां नमः । ॐ यैं कनिष्ठिकाभ्यां नमः । ॐ ह्रीं चण्डिकायै करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाणभुशुण्डी पैघायुधा । हृदयाय नमः ॥ ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च । शिरसे स्वाहा ॥ ॐ प्राच्यां रक्ष प्रतीञ्च्यां च रक्ष चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ॥ ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् । कवचाय हुम् ॥ ॐ खड्गशूलगदादीनि यानिचास्त्राणि तेऽम्बिके । करपल्लव सङ्गीनि तैरस्मान् रक्ष सर्वतः । नेत्रत्रयाय वौषट् ॥ ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तुते । अस्त्राय फट् ॥ ध्यानम् ॐ विद्युत्-दाम-प्रभाम् मृग-पति-स्कन्ध-स्थिताम् भीषणाम् । कन्याभिः करवाल-खेट-विलसत्-हस्ताभिः आसेविताम् । हस्तैः चक्र-गदा-असि-खेट-विशिखान् चापम् गुणम् तर्जनीम् । बिभ्राणाम् अनल-आत्मिकाम् शशि-धराम् दुर्गाम् त्रि-नेत्राम् भजे ॥...