॥अथ तन्त्रोक्तं रात्रिसूक्तम्॥ 1) ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥१॥ पद-विच्छेद: ॐ विश्व-ईश्वरीम् जगत्-धात्रीम् स्थिति-संहार-कारिणीम् निद्राम् भगवतीम् विष्णोः अतुलाम् तेजसः प्रभुः। (2) ब्रह्मोवाच: त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका। सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥२॥ पद-विच्छेद: ब्रह्मा उवाच: त्वम् स्वाहा त्वम् स्वधा त्वम् हि वषट्-कारः स्वर-आत्मिका सुधा त्वम् अक्षरे नित्ये त्रि-धा मात्रा-आत्मिका स्थिता। (3) अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः। त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा॥३॥ पद-विच्छेद: अर्ध-मात्रा-स्थिता नित्या या अन्-उच्चार्या विशेषतः त्वम् एव सन्ध्या सावित्री त्वम् देवि जननी परा। (4) त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्। त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥४॥ पद-विच्छेद: त्वया एतत् धार्यते विश्वम् त्वया एतत् सृज्यते जगत् त्वया एतत् पाल्यते देवि त्वम् अन्ते च सर्वदा। (5) विसृष्टौ सृष्टिरुपा त्वं स्थितिरूपा च पालने। तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये॥५॥ पद-विच्छेद: वि-सृष्टौ सृष्टि-रूपा त्वम् स्थिति-रूपा च पालने तथा संहृति-रूपा अन्ते जगतः अस्य जगत्-मये। (6) महाविद्या महामाया महामेधा महास्मृतिः। महामोहा च भवती महादेवी महासुरी॥६॥ पद-विच्छेद: महा-विद्या महा-माया महा-मेधा महा-स्मृतिः महा-मोहा च भवती महा-देवी महा-असुरी। (7) प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी। कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥७॥ पद-विच्छेद: प्रकृतिः त्वम् च सर्वस्य गुण-त्रय-विभाविनी काल-रात्रिः महा-रात्रिः मोह-रात्रिः च दारुणा। (8) त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा। लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च॥८॥ पद-विच्छेद: त्वम् श्रीः त्वम् ईश्वरी त्वम् ह्रीः त्वम् बुद्धिः बोध-लक्षणा लज्जा पुष्टिः तथा तुष्टिः त्वम् शान्तिः क्षान्तिः एव च। (9) खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा। शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा॥९॥ पद-विच्छेद: खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा शङ्खिनी चापिनी बाण-भुशुण्डी-परिघ-आयुधा। (10) सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी। परापराणां परमा त्वमेव परमेश्वरी॥१०॥ पद-विच्छेद: सौम्या सौम्य-तरा अशेष-सौम्येभ्यः त्वम् अति-सुन्दरी परा-अपराणाम् परमा त्वम् एव परम-ईश्वरी। (11) यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके। तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा॥११॥ पद-विच्छेद: यत् च किञ्चित् क्वचित् वस्तु सत्-असत् वा अखिल-आत्मिके तस्य सर्वस्य या शक्तिः सा त्वम् किम् स्तूयसे तदा। (12) यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत्। सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः॥१२॥ पद-विच्छेद: यया त्वया जगत्-स्रष्टा जगत् पाति अत्ति यः जगत् सः अपि निद्रा-वशम् नीतः कः त्वाम् स्तोतुम् इह ईश्वरः। (13) विष्णुः शरीरग्रहणमहमीशान एव च। कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्॥१३॥ पद-विच्छेद: विष्णुः शरीर-ग्रहणम् अहम् ईशानः एव च कारिताः ते यतः अतः त्वाम् कः स्तोतुम् शक्ति-मान् भवेत्। (14) सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता। मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ॥१४॥ पद-विच्छेद: सा त्वम् इत्थम् प्रभावैः स्वैः उदारैः देवि संस्तुता मोहय एतौ दुराधर्षौ असुरौ मधु-कैटभौ। (15) प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु। बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ॥१५॥ पद-विच्छेद: प्रबोधम् च जगत्-स्वामी नीयताम् अच्युतः लघु बोधः च क्रियताम् अस्य हन्तुम् एतौ महा-असुरौ। ।।इति रात्रि सूक्तम।।