।।श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्।। (1) ईश्वर उवाच – शतनाम प्रवक्ष्यामि शृणुष्व कमलानने । यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥१॥ पद-विच्छेद: ईश्वरः उवाच शत-नाम प्रवक्ष्यामि शृणुष्व कमल-आनने यस्य प्रसाद-मात्रेण दुर्गा प्रीता भवेत् सती। (2) ॐ सती साध्वी भवप्रीता भवानी भवमोचनी । आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ॥२॥ पद-विच्छेद: ॐ सती साध्वी भव-प्रीता भवानी भव-मोचनी आर्या दुर्गा जया च आद्या त्रि-नेत्रा शूल-धारिणी। (3) पिनाकधारिणी चित्रा चण्डघण्टा महातपाः । मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः ॥३॥ पद-विच्छेद: पिनाक-धारिणी चित्रा चण्ड-घण्टा महा-तपाः मनः बुद्धिः अहंकारा चित्त-रूपा चिता चितिः। (4) सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरूपिणी । अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः ॥४॥ पद-विच्छेद: सर्व-मन्त्र-मयी सत्ता सत्य-आनन्द-स्वरूपिणी अनन्ता भाविनी भाव्या भव्य-अभव्या सदा-गतिः। (5) शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा । सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ॥५॥ पद-विच्छेद: शाम्भवी देव-माता च चिन्ता रत्न-प्रिया सदा सर्व-विद्या दक्ष-कन्या दक्ष-यज्ञ-विनाशिनी। (6) अपर्णानेकवर्णा च पाटला पाटलावती। पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी ॥ ६ ॥ पद-विच्छेद: अपर्णा अनेक-वर्णा च पाटला पाटला-वती पट्ट-अम्बर-परीधाना कल-मञ्जीर-रञ्जिनी। (7) अमेयविक्रमा क्रूरा सुन्दरी सुरसुन्दरी। वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥ ७ ॥ पद-विच्छेद: अमेय-विक्रमा क्रूरा सुन्दरी सुर-सुन्दरी वन-दुर्गा च मातङ्गी मतङ्ग-मुनि-पूजिता। (8) ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा। चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥ ८ ॥ पद-विच्छेद: ब्राह्मी माहेश्वरी च ऐन्द्री कौमारी वैष्णवी तथा चामुण्डा च एव वाराही लक्ष्मीः च पुरुष-आकृतिः। (9) विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा। बहुला बहुलप्रेमा सर्ववाहनवाहना ॥ ९ ॥ पद-विच्छेद: विमल-उत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धि-दा बहुला बहुल-प्रेमा सर्व-वाहन-वाहना। (10) निशुम्भशुम्भहननी महिषासुरमर्दिनी। मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥ १० ॥ पद-विच्छेद: नि-शुम्भ-शुम्भ-हननी महिष-असुर-मर्दिनी मधु-कैटभ-हन्त्री च चण्ड-मुण्ड-विनाशिनी। (11) सर्वासुरविनाशा च सर्वदानवघातिनी। सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ॥ ११ ॥ पद-विच्छेद: सर्व-असुर-विनाशा च सर्व-दानव-घातिनी सर्व-शास्त्र-मयी सत्या सर्व-अस्त्र-धारिणी तथा। (12) अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी। कुमारी चैककन्या च कैशोरी युवती यतिः ॥ १२ ॥ पद-विच्छेद: अनेक-शस्त्र-हस्ता च अनेक-अस्त्रस्य धारिणी कुमारी च एका-कन्या च कैशोरी युवती यतिः। (13) अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा। महोदरी मुक्तकेशी घोररूपा महाबला ॥ १३ ॥ पद-विच्छेद: अप्रौढा च एव प्रौढा च वृद्ध-माता बल-प्रदा महा-उदरी मुक्त-केशी घोर-रूपा महा-बला। (14) अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी। नारायणी भद्रकाली विष्णुमाया जलोदरी ॥ १४ ॥ पद-विच्छेद: अग्नि-ज्वाला रौद्र-मुखी काल-रात्रिः तपस्विनी नारायणी भद्र-काली विष्णु-माया जल-उदरी। (15) शिवदूती कराली च अनन्ता परमेश्वरी। कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥ १५ ॥ पद-विच्छेद: शिव-दूती कराली च अनन्ता परम्-ईश्वरी कात्यायनी च सावित्री प्रत्यक्षा ब्रह्म-वादिनी। (16) य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम्। नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥ १६ ॥ पद-विच्छेद: यः इदम् प्रपठेत् नित्यम् दुर्गा-नाम-शत-अष्टकम् न असाध्यम् विद्यते देवि त्रिषु लोकेषु पार्वति। (17) धनं धान्यं सुतं जायां हयं हस्तिनमेव च। चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम् ॥ १७ ॥ पद-विच्छेद: धनम् धान्यम् सुतम् जायाम् हयम् हस्तिनम् एव च चतुः-वर्गम् तथा च अन्ते लभेत् मुक्तिम् च शाश्वतीम्। (18) कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम्। पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ॥ १८ ॥ पद-विच्छेद: कुमारीम् पूजयित्वा तु ध्यात्वा देवीम् सुर-ईश्वरीम् पूजयेत् परया भक्त्या पठेत् नाम-शत-अष्टकम्। (19) तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि। राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात् ॥ १९ ॥ पद-विच्छेद: तस्य सिद्धिः भवेत् देवि सर्वैः सुर-वरैः अपि राजानः दास-ताम् यान्ति राज्य-श्रियम् अवाप्नुयात्। (20) गोरोचनालक्तककुङ्कुमेन सिन्दूरकर्पूरमधुत्रयेण। विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः॥२०॥ पद-विच्छेद: गो-रोचना-अलक्तक-कुङ्कुमेन सिन्दूर-कर्पूर-मधु-त्रयेण विलिख्य यन्त्रम् विधिना विधि-ज्ञः भवेत् सदा धारयते पुर-अरिः (21) भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते। विलिख्य प्रपठेत् स्तोत्रं स भवेत् सम्पदां पदम् ॥ २१ ॥ पद-विच्छेद: भौम-अमावास्या-निशा-अग्रे चन्द्रे शत-भिषाम् गते विलिख्य प्रपठेत् स्तोत्रम् सः भवेत् सम्पदाम् पदम्।...