।।अथ सप्तश्लोकी दुर्गा स्त्रोत।। शिव उवाच: देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः॥ पद-विच्छेद: देवि त्वम् भक्त-सुलभे सर्व-कार्य-विधायिनी कलौ हि कार्य-सिद्धि-अर्थम् उपायम् ब्रूहि यत्नतः देव्युवाच: शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्। मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते॥ पद-विच्छेद: शृणु देव प्रवक्ष्यामि कलौ सर्व-इष्ट-साधनम् मया तव एव स्नेहेन अपि अम्बा-स्तुतिः प्रकाश्यते। विनियोग: ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः अनुष्टुप् छन्दः श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यो देवताः श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः। पद-विच्छेद: ॐ अस्य श्री-दुर्गा-सप्त-श्लोकी-स्तोत्र-मन्त्रस्य नारायणः ऋषिः अनुष्टुप् छन्दः श्री-महा-काली-महा-लक्ष्मी-महा-सरस्वत्यः देवताः श्री-दुर्गा-प्रीति-अर्थम् सप्त-श्लोकी-दुर्गा-पाठे विनियोगः। (1) ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा। बलादाकृष्य मोहाय महामाया प्रयच्छति॥ १॥ पद-विच्छेद: ॐ ज्ञानिनाम् अपि चेतांसि देवी भगवती हि सा बलात् आकृष्य मोहाय महा-माया प्रयच्छति। (2) दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि। दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता॥ २॥ पद-विच्छेद: दुर्गे स्मृता हरसि भीतिम् अशेष-जन्तोः स्वस्थैः स्मृता मतिमती इव शुभाम् ददासि दारिद्र्य-दुःख-भय-हारिणि का त्वत् अन्या सर्व-उपकार-करणाय सदा-आर्द्र-चित्ता। (3) सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके। शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥ ३॥ पद-विच्छेद: सर्व-मङ्गल-मङ्गल्ये शिवे सर्व-अर्थ-साधिके शरण्ये त्रि-अम्बके गौरि नारायणि नमः अस्तु ते। (4) शरणागतदीनार्तपरित्राणपरायणे। सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥ ४॥ पद-विच्छेद: शरण-आगत-दीन-आर्त-परित्राण-परायणे सर्वस्य आर्ति-हरे देवि नारायणि नमः अस्तु ते। (5) सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते। भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥ ५॥ पद-विच्छेद: सर्व-स्व-रूपे सर्व-ईशे सर्व-शक्ति-समन्विते भयेभ्यः त्राहि नः देवि दुर्गे देवि नमः अस्तु ते। (6) रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान्। त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥ ६॥ पद-विच्छेद: रोगान् अशेषान् अपहंसि तुष्टा रुष्टा तु कामान् सकलान् अभीष्टान् त्वाम् आश्रितानाम् न विपन्नराणाम् त्वाम् आश्रिताः हि आश्रयताम् प्रयान्ति। (7) सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि। एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥ ७॥ पद-विच्छेद: सर्व-आ-बाधा-प्रशमनम् त्रै-लोक्यस्य अखिल-ईश्वरि एवम् एव त्वया कार्यम् अस्मत्-वैरि-विनाशनम्।। ।। इति दुर्गा सप्तलोकी स्त्रोतम् संपूर्णम।।