॥ अथ श्रीरुद्राष्टाध्यायी नवमोऽध्यायः (शान्त्यध्यायः) ॥ मन्त्र १ ऋचम्-वाचम्-प्रपद्ये-मनः-यजुः-प्रपद्ये-साम-प्राणम्-प्रपद्ये-चक्षुः-श्रोत्रम्-प्रपद्ये-वाक्-ओजः-सह-ओजः-मयि-प्राण-अपानौ ॥ मन्त्र २ यत्-मे-छिद्रम्-चक्षुषः-हृदयस्य-मनसः-वाति-तृण्णम्-बृहस्पतिः-मे-तत्-दधातु-शम्-नः-भवतु-भुवनस्य-यः-पतिः ॥ मन्त्र ३ भूः-भुवः-स्वः-तत्-सवितुः-वरेण्यम्-भर्गः-देवस्य-धीमहि-धियः-यः-नः-प्रचोदयात् ॥ मन्त्र ४ कया-नः-चित्रः-आ-भुवत्-ऊती-सदा-वृधः-सखा-कया-शचिष्ठया-वृता ॥ मन्त्र ५ कः-त्वा-सत्यः-मदानाम्-महिष्ठः-मत्सत्-अन्धसः-दृढा-चित्-आ-रुजे-वसु ॥ मन्त्र ६ अभी-षु-नः-सखीनाम्-अविता-जरितॄणाम्-शतम्-भव-असि-ऊतिभिः ॥ मन्त्र ७ कया-त्वम्-नः-ऊत्या-अभि-प्रमन्दसे-वृषन्-कया-स्तोतृभ्यः-आ-भर ॥ मन्त्र ८ इन्द्रः-विश्वस्य-राजति-शम्-नः-अस्तु-द्विपदे-शम्-चतुष्पदे ॥ मन्त्र ९ शम्-नः-मित्रः-शम्-वरुणः-शम्-नः-भवतु-अर्यमा-शम्-नः-इन्द्रः-बृहस्पतिः-शम्-नः-विष्णुः-उरुक्रमः ॥ मन्त्र १० शम्-नः-वातः-पवताम्-शम्-नः-तपतু-सूर्यः-शम्-नः-कनिक्रदत्-देवः-पर्जन्यः-अभि-वर्षतु ॥ मन्त्र ११ अहानि-शम्-भवन्तु-नः-शम्-रात्रीः-प्रतिधीयताम्-शम्-नः-इन्द्र-अग्नी-भवताम्-अवोभिः-शम्-नः-इन्द्रा-वरुणा-रात-हव्या-शम्-नः-इन्द्रा-पूषणा-वाज-सातौ-शम्-इन्द्रा-सोमा-सुविताय-शम्-योः ॥ मन्त्र १२ शम्-नः-देवीः-अभिष्टये-आपः-भवन्तु-पीतये-शम्-योः-अभि-स्रवन्तु-नः ॥ मन्त्र १३ स्योना-पृथिवि-नः-भव-अनृक्षरा-निवेशनी-यच्छ-नः-शर्म-स-प्रथाः ॥ मन्त्र १४ आपः-हि-ष्ठा-मयो-भुवः-ता-नः-ऊर्जे-दधातन-महे-रणाय-चक्षसे ॥ मन्त्र १५ यः-वः-शिवतमः-रसः-तस्य-भाजयत-इह-नः-उशतीः-इव-मातरः ॥ मन्त्र १६ तस्मै-अरम्-गमाम-वः-यस्य-क्षयाय-जिन्वथ-आपः-जनयथ-च-नः ॥ मन्त्र १७ द्यौः-शान्तिः-अन्तरिक्षम्-शान्तिः-पृथिवी-शान्तिः-आपः-शान्तिः-ओषधयः-शान्तिः-वनस्पतयः-शान्तिः-विश्वे-देवाः-शान्तिः-ब्रह्म-शान्तिः-सर्वम्-शान्तिः-शान्तिः-एव-शान्तिः-सा-मा-शान्तिः-एधि ॥ मन्त्र १८ दृते-दृंह-मा-मित्रस्य-मा-चक्षुषा-सर्वाणि-भूतानि-समीक्षन्ताम्-मित्रस्य-अहम्-चक्षुषा-सर्वाणि-भूतानि-समीक्षे-मित्रस्य-चक्षुषा-समीक्षामहे ॥ मन्त्र १९ दृते-दृंह-मा-मित्रस्य-मा-चक्षुषा-सर्वाणि-भूतानि-समीक्षन्ताम्-ज्योक्ते-सन्दृशि-जीव्यासम्-ज्योक्ते-सन्दृशि-जीव्यासम् ॥ मन्त्र २० नमः-ते-हरसे-शोचिषे-नमः-ते-अस्तु-अर्चिषे-अन्यान्-ते-अस्मत्-तपन्तु-हेतयः-पावकः-अस्मभ्यम्-शिवः-भव ॥ मन्त्र २१ नमः-ते-अस्तु-विद्युते-नमः-ते-स्तनयित्नवे-नमः-ते-भगवन्-अस्तु-यतः-स्वः-समीहसे ॥ मन्त्र २२ यतः-यतः-समीहसे-ततः-नः-अभयम्-कुरु-शम्-नः-कुरु-प्रजाभ्यः-अभयम्-नः-पशुभ्यः ॥ मन्त्र २३ सु-मित्रिया-नः-आपः-ओषधयः-सन्तु-दुर्-मित्रियाः-तस्मै-सन्तु-यः-अस्मान्-द्वेष्टि-यम्-च-वयम्-द्विष्मः ॥ मन्त्र २४ तत्-चक्षुः-देव-हितम्-पुरस्तात्-शुक्रम्-उच्चरत्-पश्येम-शरदः-शतम्-जीवेम-शरदः-शतम्-शृणुयाम-शरदः-शतम्-प्र-ब्रवाम-शरदः-शतम्-अदीनाः-स्याम-शरदः-शतम्-भूयः-च-शरदः-शतात् ॥ समाप्ति इति-शान्ति-अध्यायः-नाम-रुद्री-नवमः ॥ ९ ॥