॥अथ श्रीरुद्राष्टाध्यायी सप्तमोऽध्यायः ॥ हरिः ॐ॥ मन्त्र १ उग्रः । च । भीमः । च । ध्वान्तः । च । धुनिः । च । सासह्वान् । च । अभियुग्वा । च । विक्षिपः । स्वाहा ॥ मन्त्र २ अग्निम् । हृदयेन । अशनििम् । हृदय-अग्रेण । पशुपतिम् । कृत्स्न-हृदयेन । भवम् । यक्ना । शर्वम् । मतस्नाभ्याम् । ईशानम् । मन्युना । महा-देवम् । अन्तः-पर्शव्येन । उग्रम् । देवम् । वनिष्ठुना । वसिष्ठ-हनुः । शिङ्गीनि । कोश्याभ्याम् ॥ मन्त्र ३ उग्रम् । लोहितेन । मित्रम् । सौव्रत्येन । रुद्रम् । दौर्व्रत्येन । इन्द्रम् । प्रक्रीडेन । मरुतः । बलेन । साध्यान् । प्रमुदा । भवस्य । कण्ठ्यम् । रुद्रस्य । अन्तः-पार्श्व्यम् । महा-देवस्य । यकृत् । शर्वस्य । वनिष्ठुः । पशुपतेः । पुरीतत् ॥ मन्त्र ४ लोमभ्यः । स्वाहा । लोमभ्यः । स्वाहा । त्वचे । स्वाहा । त्वचे । स्वाहा । लोहिताय । स्वाहा । लोहिताय । स्वाहा । मेदोभ्यः । स्वाहा । मेदोभ्यः । स्वाहा । मांसभ्यः । स्वाहा । मांसभ्यः । स्वाहा । स्नावभ्यः । स्वाहा । स्नावभ्यः । स्वाहा । अस्थिभ्यः । स्वाहा । अस्थिभ्यः । स्वाहा । मज्जभ्यः । स्वाहा । मज्जभ्यः । स्वाहा । रेतसे । स्वाहा । पायवे । स्वाहा ॥ मन्त्र ५ आयासाय । स्वाहा । प्रायासाय । स्वाहा । संयासाय । स्वाहा । वियासाय । स्वाहा । उद्यासाय । स्वाहा । शुचे । स्वाहा । शोचते । स्वाहा । शोचमानाय । स्वाहा । शोकाय । स्वाहा ॥ मन्त्र ६ तपसे । स्वाहा । तप्यते । स्वाहा । तप्यमानाय । स्वाहा । तप्ताय । स्वाहा । घर्माय । स्वाहा । निष्कृत्यै । स्वाहा । प्रायश्चित्त्यै । स्वाहा । भेषजाय । स्वाहा ॥ मन्त्र ७ यमाय । स्वाहा । अन्तकाय । स्वाहा । मृत्यवे । स्वाहा । ब्रह्मणे । स्वाहा । ब्रह्म-हत्यायै । स्वाहा । विश्वेभ्यः । देवेभ्यः । स्वाहा । द्यावा-पृथिवीभ्याम् । स्वाहा ॥ इति: जटाऽध्याय नामरुद्री सप्तम: ॥ ७॥