॥ श्रीशुक्लयजुर्वेदीय श्रीरुद्राष्टाध्यायी षष्ठोऽध्यायः ॥ मन्त्र १ वयम् । सोम । व्रते । तव । मनः । तनूषु । बिभ्रतः । प्रजावन्तः । सचेमहि ॥ मन्त्र २ एषः । ते । रुद्र । भागः । सह । स्वस्रा । अम्बिकया । तम् । जुषस्व । स्वाहा । एषः । ते । रुद्र । भागः । आखुः । ते । पशुः ॥ मन्त्र ३ अव । रुद्रम् । अदीमहि । अव । देवम् । त्र्यम्बकम् । यथा । नः । वस्यसः । करत् । यथा । नः । श्रेयसः । करत् । यथा । नः । व्यवसाययात् ॥ मन्त्र ४ भेषजम् । असि । भेषजम् । गवे । अश्वाय । पुरुषाय । भेषजम् । सुखम् । मेषाय । मेष्यै ॥ मन्त्र ५ त्र्यम्बकम् । यजामहे । सुगन्धिम् । पुष्टिवर्धनम् । उर्वारुकम् । इव । बन्धनात् । मृत्योः । मुक्षीय । मा । अमृतात् । त्र्यम्बकम् । यजामहे । सुगन्धिम् । पतिवेदनम् । उर्वारुकम् । इव । बन्धनात् । इतः । मुक्षीय । मा । अमुतः ॥ मन्त्र ६ एतत् । ते । रुद्र । आवसम् । तेन । परः । मूजवतः । अतीहि । अवतत-धन्वा । पिनाक-आवसः । कृत्तिवासाः । अहिंसन् । नः । शिवः । अतीहि ॥ मन्त्र ७ त्रि-आयुषम् । जमदग्नेः । कश्यपस्य । त्रि-आयुषम् । यत् । देवेषु । त्रि-आयुषम् । तत् । नः । अस्तु । त्रि-आयुषम् ॥ मन्त्र ८ शिवः । नाम । असि । स्वधितिः । ते । पिता । नमः । ते । अस्तु । मा । मा । हिंसीः । निवर्तयामि । आयुषे । अन्नाद्याय । प्रजननाय । रायः-पोषाय । सु-प्रजास्त्वाय । सु-वीर्याय ॥ इति: महच्छिर / सोमस्तवन / त्र्यम्बक यजनम् नामरुद्री षष्ठोऽध्यायः ॥