॥ अथ श्रीरुद्राष्टाध्यायी पञ्चमोऽध्यायः ॥ मन्त्र १ नमः । ते । रुद्र । मन्यवे । उत । उत । ते । इषवे । नमः । बाहुभ्याम् । उत । ते । नमः ॥ मन्त्र २ या । ते । रुद्र । शिवा । तनुः । अघोरा । अपापकाशिनी । तया । नः । तन्वा । शन्तमया । गिरिशन्त । अभि । चाकशीहि ॥ मन्त्र ३ याम् । इषुम् । गिरिशन्त । हस्ते । बिभर्षि । अस्तवे । शिवाम् । गिरित्र । ताम् । कुरु । मा । हिंसीः । पुरुषम् । जगत् ॥ मन्त्र ४ शिवेन । वचसा । त्वा । गिरिश । अच्छ । वदामसि । यथा । नः । सर्वम् । इत् । जगत् । अयक्ष्मम् । सुमना । असत् ॥ मन्त्र ५ अध्य । अवोचत् । अधिवक्ता । प्रथमः । दैव्यः । भिषक् । अहींश् । च । सर्वान् । जम्भयन् । सर्वाः । च । यातुधान्यः । अधराचीः । परा । सुव ॥ मन्त्र ६ असौ । यः । ताम्रः । अरुणः । उत । बभ्रुः । सुमङ्गलः । ये । च । एनम् । रुद्राः । अभितः । दिक्षु । श्रिताः । सहस्रशः । अवैषाम् । हेडः । ईमहे ॥ मन्त्र ७ असौ । यः । अवसर्पति । नीलग्रीवः । विलोहितः । उत । एनम् । गोपाः । अदृशन् । अदृशन् । उदहार्यः । सः । दृष्टः । मृडयाति । नः ॥ मन्त्र ८ नमः । अस्तु । नीलग्रीवाय । सहस्राक्षाय । मीढुषे । अथो । ये । अस्य । सत्वानः । अहम् । तेभ्यः । अकरम् । नमः ॥ मन्त्र ९ प्र । मुञ्च । धन्वनः । त्वम् । उभयोः । आर्त्न्योः । ज्याम् । याः । च । ते । हस्ते । इषवः । परा । ताः । भगवः । वप ॥ मन्त्र १० विज्यम् । धनुः । कपर्दिनः । विशल्यः । बाणवान् । उत । अनेशन् । अस्य । याः । इषवः । आभुः । अस्य । निषङ्गधिः ॥ मन्त्र ११ या । ते । हेतिः । मीढुष्टम । हस्ते । बभूव । ते । धनुः । तया । अस्मान् । विश्वतः । त्वम् । अयक्ष्मया । परि । भुज ॥ मन्त्र १२ परि । ते । धन्वनः । हेतिः । अस्मान् । वृणक्तु । विश्वतः । अथो । यः । इषुधिः । तव । आरे । अस्मत् । निधेहि । तम् ॥ मन्त्र १३ अवतत्य । धनुः । त्वम् । सहस्राक्ष । शतेषुधे । निशीर्य । शल्यानाम् । मुखाः । शिवः । नः । सुमना । भव ॥ मन्त्र १४ नमः । ते । आयुधाय । अनातताय । धृष्णवे । उभाभ्याम् । उत । ते । नमः । बाहुभ्याम् । तव । धन्वने ॥ मन्त्र १५ मा । नः । महान्तम् । उत । मा । नः । अर्भकम् । मा । नः । उक्षन्तम् । उत । मा । नः । उक्षितम् । मा । नः । वधीः । पितरम् । मा । उत । मातरम् । मा । नः । प्रियाः । तन्वः । रुद्र । रीरिषः ॥ मन्त्र १६ मा । नः । स्तोके । तनये । मा । नः । आयुषि । मा । नः । गोषु । मा । नः । अश्वेषु । रीरिषः । मा । नः । वीरान् । रुद्र । भामिनः । वधीः । हविष्मन्तः । सदम् । इत् । त्वा । हवामहे ॥ मन्त्र १७ नमः । हिरण्यबाहवे । सेनान्ये । दिशाम् । च । पतये । नमः । नमः । वृक्षेभ्यः । हरिकेशेभ्यः । पशूनाम् । पतये । नमः । नमः । शष्पिञ्जराय । त्विषीमते । पथीनाम् । पतये । नमः । नमः । हरिकेशाय । उपवीतिने । पुष्टानाम् । पतये । नमः ॥ मन्त्र १८ नमः । बभ्लुशाय । व्याधिने । अन्नानाम् । पतये । नमः । नमः । भवस्य । हेत्यै । जगताम् । पतये । नमः । नमः । रुद्राय । आततायिने । क्षेत्राणाम् । पतये । नमः । नमः । सूताय । आहन्त्यै । वनानाम् । पतये । नमः ॥ मन्त्र १९ नमः । रोहिताय । स्थपतये । वृक्षाणाम् । पतये । नमः । नमः । भुवन्तये । वारिवस्कृताय । औषधीनाम् । पतये । नमः । नमः । मन्त्रिणे । वाणिजाय । कक्षाणाम् । पतये । नमः । नमः । उच्चैःघोषाय । आक्रन्दयते । पत्तीनाम् । पतये । नमः ॥ मन्त्र २० नमः । कृत्स्नायतये । धावते । सत्वनाम् । पतये । नमः । नमः । सहमानाय । निव्याधिने । आव्याधिनीनाम् । पतये । नमः । नमः । निषङ्गिणे । ककुभाय । स्तेनानाम् । पतये । नमः । नमः । निचेरवे । परिचराय । अरण्यानाम् । पतये । नमः ॥ मन्त्र २१ नमः । वञ्चते । परिवञ्चते । स्तायूनाम् । पतये । नमः । नमः । निषङ्गिणे । इषुधिमते । तस्कराणाम् । पतये । नमः । नमः । सृकायिभ्यः । जिघांसद्भ्यः । मुष्णताम् । पतये । नमः । नमः । असिमद्भ्यः । नक्तञ्चरद्भ्यः । विकृन्तानाम् । पतये । नमः ॥ मन्त्र २२ नमः । उष्णीषिणे । गिरिचराय । कुलुञ्चानाम् । पतये । नमः । नमः । इषुमद्भ्यः । धन्वायिभ्यः । च । वः । नमः । नमः । आतन्वानेभ्यः । प्रतिदधानेभ्यः । च । वः । नमः । नमः । आयच्छद्भ्यः । अस्यद्भ्यः । च । वः । नमः ॥ मन्त्र २३ नमः । विसृजद्भ्यः । विध्यद्भ्यः । च । वः । नमः । नमः । स्वपद्भ्यः । जाग्रद्भ्यः । च । वः । नमः । नमः । शयानेभ्यः । आसीनेभ्यः । च । वः । नमः । नमः । तिष्ठद्भ्यः । धावद्भ्यः । च । वः । नमः ॥ मन्त्र २४ नमः । सभाभ्यः । सभापतिभ्यः । च । वः । नमः । नमः । अश्वेभ्यः । अश्वपतिभ्यः । च । वः । नमः । नमः । आव्याधिनीभ्यः । विविध्यन्तीभ्यः । च । वः । नमः । नमः । उगणाभ्यः । त्रिहतीभ्यः । च । वः । नमः ॥ मन्त्र २५ नमः । गणेभ्यः । गणपतिभ्यः । च । वः । नमः । नमः । व्रातेभ्यः । व्रातपतिभ्यः । च । वः । नमः । नमः । गृत्सेभ्यः । गृत्सपतिभ्यः । च । वः । नमः । नमः । विरूपेभ्यः । विश्वरूपेभ्यः । च । वः । नमः ॥ मन्त्र २६ नमः । सेनाभ्यः । सेनानिभ्यः । च । वः । नमः । नमः । रथिभ्यः । अरथिभ्यः । च । वः । नमः । नमः । क्षत्तृभ्यः । सङ्ग्रहीतृभ्यः । च । वः । नमः । नमः । महद्भ्यः । अर्भकेभ्यः । च । वः । नमः ॥ मन्त्र २७ नमः । तक्षभ्यः । रथकारेभ्यः । च । वः । नमः । नमः । कुलालेभ्यः । कर्मारेभ्यः । च । वः । नमः । नमः । निषादेभ्यः । पुञ्जिष्टेभ्यः । च । वः । नमः । नमः । श्वनिभ्यः । मृगयुभ्यः । च । वः । नमः ॥ मन्त्र २८ नमः । श्वभ्यः । श्वपतिभ्यः । च । वः । नमः । नमः । भवाय । च । रुद्राय । च । नमः । शर्वाय । च । पशुपतये । च । नमः । नीलग्रीवाय । च । शितिकण्ठाय । च ॥ मन्त्र २९ नमः । कपर्दिने । च । व्युप्तकेशाय । च । नमः । सहस्राक्षाय । च । शतधन्वने । च । नमः । गिरिशयाय । च । शिपिविष्टाय । च । नमः । मीढुष्टमाय । च । इषुमते । च ॥ मन्त्र ३० नमः । ह्रस्वाय । च । वामनाय । च । नमः । बृहते । च । वर्षीयसे । च । नमः । वृद्धाय । च । सवृधे । च । नमः । अग्र्याय । च । प्रथमाय । च ॥ मन्त्र ३१ नमः । आशवे । च । अजिराय । च । नमः । शीघ्र्याय । च । शीभ्याय । च । नमः । ऊर्म्याय । च । अवस्वन्याय । च । नमः । नादेयाय । च । द्वीप्याय । च ॥ मन्त्र ३२ नमः । ज्येष्ठाय । च । कनिष्ठाय । च । नमः । पूर्वजाय । च । अपरजाय । च । नमः । मध्यमाय । च । अपगल्भाय । च । नमः । जघन्याय । च । बुध्न्याय । च ॥ मन्त्र ३३ नमः । सोभ्याय । च । प्रतिसर्याय । च । नमः । याम्याय । च । क्षेम्याय । च । नमः । श्लोक्याय । च । अवसान्याय । च । नमः । उर्वर्याय । च । खल्याय । च ॥ मन्त्र ३४ नमः । वन्याय । च । कक्ष्याय । च । नमः । श्रवाय । च । प्रतिश्रवाय । च । नमः । आशुषेणाय । च । आशुरथाय । च । नमः । शूराय । च । अवभेदिने । च ॥ मन्त्र ३५ नमः । बिल्मिने । च । कवचिने । च । नमः । वर्मिणे । च । वरूथिने । च । नमः । श्रुताय । च । श्रुतसेनाय । च । नमः । दुन्दुभ्याय । च । आहनन्याय । च ॥ मन्त्र ३६ नमः । धृष्णवे । च । प्रमृशाय । च । नमः । निषङ्गिणे । च । इषुधिमते । च । नमः । तीक्ष्णेषवे । च । आयुधिने । च । नमः । स्वायुधाय । च । सुधन्वने । च ॥ मन्त्र ३७ नमः । स्रुत्याय । च । पथ्याय । च । नमः । काट्याय । च । नीप्याय । च । नमः । कुल्याय । च । सरस्याय । च । नमः । नादेयाय । च । वैशन्ताय । च ॥ मन्त्र ३८ नमः । कूप्याय । च । अवट्याय । च । नमः । वीध्र्याय । च । आतप्याय । च । नमः । मेघ्याय । च । विद्युत्याय । च । नमः । वर्ष्याय । च । अवर्ष्याय । च ॥ मन्त्र ३९ नमः । वात्याय । च । रेष्म्याय । च । नमः । वास्तव्याय । च । वास्तुपाय । च । नमः । सोमाय । च । रुद्राय । च । नमः । ताम्राय । च । अरुणाय । च ॥ मन्त्र ४० नमः । शङ्गवे । च । पशुपतये । च । नमः । उग्राय । च । भीमाय । च । नमः । अग्रेवधाय । च । दूरेवधाय । च । नमः । हन्त्रे । च । हनीयसे । च । नमः । वृक्षेभ्यः । हरिकेशेभ्यः । नमः । ताराय ॥ मन्त्र ४१ नमः । शम्भवाय । च । मयोभवाय । च । नमः । शङ्कराय । च । मयस्कराय । च । नमः । शिवाय । च । शिवतराय । च ॥ मन्त्र ४२ नमः । पार्याय । च । अवार्याय । च । नमः । प्रतरणाय । च । उत्तरणाय । च । नमः । तीर्थ्याय । च । कूल्याय । च । नमः । शष्प्याय । च । फेन्याय । च ॥ मन्त्र ४३ नमः । सिकत्याय । च । प्रवाह्याय । च । नमः । किञ्शिलाय । च । क्षयणाय । च । नमः । कपर्दिने । च । पुलस्तये । च । नमः । इरिण्याय । च । प्रपथ्याय । च ॥ मन्त्र ४४ नमः । व्रज्याय । च । गोष्ठ्याय । च । नमः । तल्प्याय । च । गेह्याय । च । नमः । हृदय्याय । च । निवेष्प्याय । च । नमः । काट्याय । च । गह्वरेष्ठाय । च ॥ मन्त्र ४५ नमः । शुष्क्याय । च । हरित्याय । च । नमः । पासव्याय । च । रजस्याय । च । नमः । लोप्याय । च । उलप्याय । च । नमः । ऊर्व्याय । च । सूर्व्याय । च ॥ मन्त्र ४६ नमः । पर्णाय । च । पर्णशदाय । च । नमः । उद्गुरमाणाय । च । अभिघ्नते । च । नमः । आखिदते । च । प्रखिदते । च । नमः । इषुकृद्भ्यः । धनुष्कृद्भ्यः । च । वः । नमः । नमः । वः । किरिकेभ्यः । देवानाम् । हृदयेभ्यः । नमः । नमः । विचिन्वत्केभ्यः । नमः । विक्षिणत्केभ्यः । नमः । अनिर्हतेभ्यः ॥ मन्त्र ४७ द्रापे । अन्धसः । पते । दरिद्रम् । नीललोहित । आसाम् । प्रजानाम् । एषाम् । पशूनाम् । मा । भेः । मा । रुङ्भः । च । नः । किञ्चन । आममत् ॥ मन्त्र ४८ इमाः । रुद्राय । तवसे । कपर्दिने । क्षयद्वीराय । प्रभरामहे । मतीः । यथा । शम् । असत् । द्विपदे । चतुष्पदे । विश्वम् । पुष्टम् । ग्रामे । अस्मिन् । अनातुरम् ॥ मन्त्र ४९ या । ते । रुद्र । शिवा । तनूः । शिवा । विश्वाहा । भेषजी । शिवा । रुतस्य । भेषजी । तया । नः । मृड । जीवसे ॥ मन्त्र ५० परि । नः । रुद्रस्य । हेतिः । वृणक्तु । परि । त्वेषस्य । दुर्मतिः । अघायोः । अव । स्थिरा । मघवद्भ्यः । तनुष्व । मीढ्वः । स्तोकाय । तनयाय । मृड ॥ मन्त्र ५१ मीढुष्टम । शिवतम । शिवः । नः । सुमना । भव । परमे । वृक्षे । आयुधम् । निधाय । कृत्तिम् । वसानः । आचर । पिनाकम् । बिभ्रत् । आगहि ॥ मन्त्र ५२ विकिरिद्र । विलोहित । नमः । ते । अस्तु । भगवः । याः । ते । सहस्राणि । हेतयः । अन्याम् । अस्मत् । निवपन्तु । ताः ॥ मन्त्र ५३ सहस्राणि । सहस्रशः । बाह्वोः । तव । हेतयः । तासाम् । ईशानः । भगवः । पराचीना । मुखा । कृधि ॥ मन्त्र ५४ असंख्याता । सहस्राणि । ये । रुद्राः । अधि । भूम्याम् । तेषाम् । सहस्रयोजने । अव । धन्वानि । तन्मसि ॥ मन्त्र ५५ अस्मिन् । महति । अर्णवे । अन्तरिक्षे । भवा । अधि । तेषाम् । सहस्रयोजने । अव । धन्वानि । तन्मसि ॥ मन्त्र ५६ नीलग्रीवाः । शितिकण्ठाः । दिवम् । रुद्राः । उपश्रिताः । तेषाम् । सहस्रयोजने । अव । धन्वानि । तन्मसि ॥ मन्त्र ५७ नीलग्रीवाः । शितिकण्ठाः । शर्वाः । अधः । क्षमा । चराः । तेषाम् । सहस्रयोजने । अव । धन्वानि । तन्मसि ॥ मन्त्र ५८ ये । वृक्षेषु । शष्पिञ्जराः । नीलग्रीवाः । विलोहिताः । तेषाम् । सहस्रयोजने । अव । धन्वानि । तन्मसि ॥ मन्त्र ५९ ये । भूतानाम् । अधिपतयः । विशिखासः । कपर्दिनः । तेषाम् । सहस्रयोजने । अव । धन्वानि । तन्मसि ॥ मन्त्र ६० ये । पथाम् । पथिरक्षयः । ऐलबृदाः । आयुधः । तेषाम् । सहस्रयोजने । अव । धन्वानि । तन्मसि ॥ मन्त्र ६१ ये । तीर्थानि । प्रचरन्ति । सृकाहस्ताः । निषङ्गिणः । तेषाम् । सहस्रयोजने । अव । धन्वानि । तन्मसि ॥ मन्त्र ६२ ये । अन्नेषु । विविध्यन्ति । पात्रेषु । पिबतः । जनान् । तेषाम् । सहस्रयोजने । अव । धन्वानि । तन्मसि ॥ मन्त्र ६३ ये । एतावन्तः । च । भूयांसः । च । दिशः । रुद्राः । वितस्थिरे । तेषाम् । सहस्रयोजने । अव । धन्वानि । तन्मसि ॥ मन्त्र ६४ नमः । अस्तु । रुद्रेभ्यः । ये । दिवि । येषाम् । वर्षम् । इषवः । तेभ्यः । दश । प्राचीः । दश । दक्षिणाः । दश । प्रतीचीः । दश । उदीचीः । दश । ऊर्ध्वाः । तेभ्यः । नमः । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्विष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे । दध्मः ॥ मन्त्र ६५ नमः । अस्तु । रुद्रेभ्यः । ये । अन्तरिक्षे । येषाम् । वातः । इषवः । तेभ्यः । दश । प्राचीः । दश । दक्षिणाः । दश । प्रतीचीः । दश । उदीचीः । दश । ऊर्ध्वाः । तेभ्यः । नमः । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्विष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे । दध्मः ॥ मन्त्र ६६ नमः । अस्तु । रुद्रेभ्यः । ये । पृथिव्याम् । येषाम् । अन्नम् । इषवः । तेभ्यः । दश । प्राचीः । दश । दक्षिणाः । दश । प्रतीचीः । दश । उदीचीः । दश । ऊर्ध्वाः । तेभ्यः । नमः । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्विष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे । दध्मः ॥ 🟢 पञ्चमोऽध्यायः सम्पूर्ण ।