॥ रुद्राष्टाध्यायी — चतुर्थोऽध्यायः ॥ (सूर्यसूक्त) मन्त्र १ ॐ विभ्राट् बृहत् पिबतु सोम्यम् मधु आयुः दधत् यज्ञ-पतौ अविह्रुतम् । वात-जूतः यः अभि रक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ मन्त्र २ उत् उत्यम् जात-वेदसम् देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ मन्त्र ३ येन पावक चक्षसा भुरण्यन्तम् जनान् अनु । त्वम् वरुण पश्यसि ॥ मन्त्र ४ दैव्यौ अध्वर्यू आ गतम् रथेन सूर्य-त्वचा । मध्वा यज्ञम् समञ्जाथे । तम् प्रत्नथा अयम् वेनः चित्रम् देवानाम् ॥ मन्त्र ५ तम् प्रत्नथा पूर्वथा विश्वथा एमथा ज्येष्ठ-तातिम् बर्हिषदं स्वर्विदम् । प्रतीचीनम् वृजनम् दोहसे धुनिम् आशुम् जयन्तम् अनु यासु वर्द्धसे ॥ मन्त्र ६ अयम् वेनः चोदयत् पृश्नि-गर्भा ज्योतिः जरायू रजसः विमाने । इमम् अपाम् सङ्गमे सूर्यस्य शिशुम् न विप्राः मतिभिः रिहन्ति ॥ मन्त्र ७ चित्रम् देवानाम् उदगात् अनीकम् चक्षुः मित्रस्य वरुणस्य अग्नेः । आप्रा द्यावा-पृथिवी अन्तरिक्षम् सूर्यः आत्मा जगतः तस्थुषः च ॥ मन्त्र ८ आ नः इडाभिः विदथे सु-शस्ति विश्वानरः सविता देवः एतु । अपि यथा युवानः मत्सथा नः विश्वम् जगत् अभि-पित्वे मनीषा ॥ मन्त्र ९ यत् अद्य कचित् वृत्रहन् उदगात् अभि सूर्य । सर्वम् तत् इन्द्र ते वशे ॥ मन्त्र १० तरणिः विश्व-दर्शतः ज्योतिष्-कृत् असि सूर्य । विश्वम् आ भासि रोचनम् ॥ मन्त्र ११ तत् सूर्यस्य देवत्वम् तत् महित्वम् मध्या कर्तोः विततम् संजभार । यत् एद् युक्ताः हरितः सधस्थात् आ रात्रिः वासः तनुते सिम् अस्मै ॥ मन्त्र १२ तत् मित्रस्य वरुणस्य अभि-चक्षे सूर्यः रूपम् कृणुते द्योः उपस्थे । अनन्तम् अन्यत् रुशदस्य पाजः कृष्णम् अन्यत् हरितः सम्भरन्ति ॥ मन्त्र १३ बण्महान् असि सूर्य बट् आदित्य महान् असि । महः ते सतः महिमा पनस्यते इद्धा देव महान् असि ॥ मन्त्र १४ बट् सूर्य श्रवसा महान् असि सत्रा देव महान् असि । मन्हा देवानाम् असुर्यः पुरोहितः विभु ज्योतिः अदाभ्यम् ॥ मन्त्र १५ श्रायन्त इव सूर्यं विश्वे इन्द्रस्य भक्षत । वसूनि जाते जनमान ओजसा प्रति भागम् न दीधिम ॥ मन्त्र १६ अद्य देवाः उदिताः सूर्यस्य निरंहसः पिपृता निरवद्यात् । तत् नः मित्रः वरुणः मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ मन्त्र १७ आ कृष्णेन रजसा वर्त्तमानः निवेशयन् अमृतम् मर्त्यम् च । हिरण्ययेन सविता रथेन देवः याति भुवनानि पश्यन् ॥ इति रुद्राष्टाध्यायी चतुर्थोऽध्यायः ॥४॥