॥ रुद्राष्टाध्यायी — तृतीयोऽध्यायः ॥ (श्री रुद्रम् — नमकम्) मन्त्र १ ॐ आशुः शिशानः वृषभः न भीमः घनाघनः क्षोभणः चर्षणीनाम् । संक्रन्दनः अनिमिषः एकवीरः शतम् सेनाः अजयत् साकम् इन्द्रः ॥ मन्त्र २ संक्रन्दनेन अनिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तत् इन्द्रेण जयत तत् सहध्वम् युधः नरः इषु-हस्तेन वृष्णा ॥ मन्त्र ३ सः इषु-हस्तैः सनिषङ्गिभिः वशी स्रष्टा सयुधः इन्द्रः गणेन । सः संसृष्ट-जित् सोमपा बाहु-शर्धि उग्र-धन्वा प्रतिहिताभिः अस्ताः ॥ मन्त्र ४ बृहस्पते परिदीय रथेन रक्षो-हा अमित्रान् अपबाधमानः । प्रभञ्जन् सेनाः प्रमृणन् युधा जयन् अस्माकम् एध्यविता रथानाम् ॥ मन्त्र ५ बल-विज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमानः उग्रः । अभिवीरः अभित्त्वा सहोजाः जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥ मन्त्र ६ गोत्र-भिदम् गो-विदम् वज्र-बाहुम् जयन्तम् अज्म प्रमृणन्तम् ओजसा । इमम् सजाताः अनु वीरयध्वम् इन्द्रम् सखायः अनुसंरभध्वम् ॥ मन्त्र ७ अभि गोत्राणि सहसा गाहमानः अदयः वीरः शतमन्युः इन्द्रः । दुश्च्यवनः पृतना-षाट् अयुध्यः अस्माकम् सेनाः अवतु प्र युत्सु ॥ मन्त्र ८ इन्द्रः आसन् नेता बृहस्पतिः दक्षिणा यज्ञः पुरः एतु सोमः । देव-सेनानाम् अभिभञ्जतीनाम् जयन्तीनाम् मरुतः यन्तु अग्रिम् ॥ मन्त्र ९ इन्द्रस्य वृष्णः वरुणस्य राज्ञः आदित्यानाम् मरुताम् शर्द्धः उग्रम् । महामनसाम् भुवन-च्यवानाम् घोषः देवानाम् जयताम् उदस्थात् ॥ मन्त्र १० उद्धर्षय मघवन् आयुधानि उत्सत्वनाम् मामकानाम् मनांसि । उद् वृत्रहन् वाजिनाम् वाजिनानि उद् रथानाम् जयताम् यन्तु घोषाः ॥ मन्त्र ११ अस्माकम् इन्द्रः समृतेषु ध्वजेषु अस्माकम् याः इषवः ताः जयन्तु । अस्माकम् वीराः उत्तरे भवन्तु अस्मान् उ देवाः अवत हवेषु ॥ मन्त्र १२ अमीषाम् चित्तम् प्रतिलोभयन्ती गृहाण अङ्गानि अप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैः अन्धेन अमित्राः तमसा सचन्ताम् ॥ मन्त्र १३ अवसृष्टा परा पत शरव्ये ब्रह्म-संशिते । गच्छ अमित्रान् प्रपद्यस्व मा अमीषाम् कञ्चन उच्छिषः ॥ मन्त्र १४ प्रेत जयत नरः इन्द्रः वः शर्म यच्छतु । उग्राः वः सन्तु बाहवः अनाधृष्याः यथास्थ ॥ मन्त्र १५ असौ या सेना मरुतः परेषाम् अभ्यैति नः ओजसा स्पर्धमाना । ताम् गूहत तमसा अपव्रतेन यथा अमी अन्यः अन्यं न जानन् ॥ मन्त्र १६ यत्र बाणाः सम्पतन्ति कुमाराः विशिखाः इव । तत् नः इन्द्रः बृहस्पतिः अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ मन्त्र १७ मर्माणि ते वर्मणा आच्छादयामि सोमः त्वा राजा अमृतेन अनु वस्ताम् । उरोः वरीयः वरुणः ते कृणोतु जयन्तम् त्वा अनु देवाः मदन्तु ॥ ॥ इति तृतीयोऽध्यायः समाप्तः ॥