॥ रुद्राष्टाध्यायी द्वितीयोऽध्यायः ॥ (पुरुषसूक्त) मन्त्र १ ॐ सहस्र-शीर्षा पुरुषः सहस्र-अक्षः सहस्र-पात् । सः भूमिम् सर्वतः स्पृत्वा अत्यतिष्ठत् दश-अङ्गुलम् ॥ मन्त्र २ पुरुषः एव इदम् सर्वम् यत् भूतम् यत् च भाव्यम् । उत अमृतत्वस्य ईशानः यत् अन्नेन अतिरोहति ॥ मन्त्र ३ एतावान् अस्य महिमा अतः ज्यायान् च पुरुषः । पादः अस्य विश्वा भूतानि त्रि-पात् अस्य अमृतम् दिवि ॥ मन्त्र ४ त्रि-पात् ऊर्ध्व उदैत् पुरुषः पादः अस्य इह अभवत् पुनः । ततः विष्वङ् व्यक्रामत् स-अशन-अनशने अभि ॥ मन्त्र ५ ततः विराट् अजायत विराजः अधि पुरुषः । सः जातः अत्यरिच्यत पश्चात् भूमिम् अथो पुरः ॥ मन्त्र ६ तस्मात् यज्ञात् सर्व-हुतः सम्भृतम् पृषद्-आज्यम् । पशून् तान् चक्रे वायव्यान् आरण्यान् ग्राम्यान् च ये ॥ मन्त्र ७ तस्मात् यज्ञात् सर्व-हुतः ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्मात् यजुः तस्मात् अजायत ॥ मन्त्र ८ तस्मात् अश्वाः अजायन्त ये के च उभयादतः । गावः ह जज्ञिरे तस्मात् तस्मात् जाताः अजा-अवयः ॥ मन्त्र ९ तम् यज्ञम् बर्हिषि प्रौक्षन् पुरुषम् जातम् अग्रतः । तेन देवाः अयजन्त साध्याः ऋषयः च ये ॥ मन्त्र १० यत् पुरुषम् व्यदधुः कतिधा व्यकल्पयन् । मुखम् किम् अस्य आसीत् किम् बाहू किम् ऊरू पादाः उच्येते ॥ मन्त्र ११ ब्राह्मणः अस्य मुखम् आसीत् बाहू राजन्यः कृतः । ऊरू तत् अस्य यत् वैश्यः पद्भ्याम् शूद्रः अजायत ॥ मन्त्र १२ चन्द्रमा मनसः जातः चक्षोः सूर्यः अजायत । श्रोत्रात् वायुः च प्राणः च मुखात् अग्निः अजायत ॥ मन्त्र १३ नाभ्या आसीत् अन्तरिक्षम् शीर्ष्णः द्यौः समवर्तत । पद्भ्याम् भूमिः दिशः श्रोत्रात् तथा लोकान् अकल्पयन् ॥ मन्त्र १४ यत् पुरुषेण हविषा देवाः यज्ञम् अतन्वत । वसन्तः अस्य आसीत् आज्यम् ग्रीष्मः इध्मः शरद् हविः ॥ मन्त्र १५ सप्त अस्य आसन् परिधयः त्रिः सप्त समिधः कृताः । देवाः यत् यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् ॥ मन्त्र १६ यज्ञेन यज्ञम् अयजन्त देवाः तानि धर्माणि प्रथमानि आसन् । ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ मन्त्र १७ अद्भ्यः सम्भृतः पृथिव्यै रसात् च विश्वकर्मणः समवर्तत अग्रे । तस्य त्वष्टा विदधत् रूपम् एति तत् मर्त्यस्य देवत्वम् आजानम् अग्रे ॥ मन्त्र १८ वेद अहम् एतम् पुरुषम् महान्तम् आदित्य-वर्णम् तमसः परस्तात् । तम् एव विदित्वा अति मृत्युम् एति न अन्यः पन्था विद्यते अयनाय ॥ मन्त्र १९ प्रजापतिः चरति गर्भे अन्तर् अजायमानः बहुधा विजायते । तस्य योनिम् परिपश्यन्ति धीराः तस्मिन् ह तस्थुः भुवनानि विश्वा ॥ मन्त्र २० यः देवेभ्यः आतपति यः देवानाम् पुरोहितः । पूर्वः यः देवेभ्यः जातः नमः रुचाय ब्राह्मये ॥ मन्त्र २१ रुचम् ब्राह्मम् जनयन्तः देवाः अग्रे तत् अब्रुवन् । यः तु एवम् ब्राह्मणः विद्यात् तस्य देवाः आसन् वशे ॥ मन्त्र २२ श्रीः च ते लक्ष्मीः च पत्न्यौ अहः-रात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् । इष्णन् इषाणाम् अमुम् मे इषाण । सर्व-लोकम् मे इषाण ॥ ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवीस्स्वस्तिरस्तुनः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शं चतुष्पदे । ॐ शान्तिः शान्तिः शान्तिः । इति रुद्राष्टाध्यायी द्वितीयोऽध्यायः ॥२॥