श्रीषोडशीहृदयम् ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ अथ श्रीषोडशीहृदयप्रारम्भः ॥ कैलासे करुणाक्रान्ता परोपकृतिमानसा । पप्रच्छ करुणासिन्धुं सुप्रसन्नं महेश्वरम् ॥ १॥ श्रीपार्वत्युवाच ॥ आगामिनि कलौ ब्रह्मन् धर्मकर्मविवर्जिताः । भविष्यन्ति जनास्तेषां कथं श्रेयो भविष्यति ॥ २॥ श्रीशिव उवाच ॥ शृणु देवि प्रवक्ष्यामि तव स्नेहान्महेश्वरि । दुर्लभं त्रिषु लोकेषु सुन्दरीहृदयस्तवम् ॥ ३॥ ये नरा दुःखसन्तप्ता दारिद्र्यहतमानसाः । अस्यैव पाठमात्रेण तेषां श्रेयो भविष्यति ॥ ४॥ विनियोगः ॐ अस्य श्रीमहाषोडशीहृदयस्तोत्रमन्त्रस्य आनन्दभैरव ऋषिः । देवी गायत्री छन्दः । श्रीमहात्रिपुरसुन्दरी देवता । ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् । धर्मार्थकाममोक्षार्थे जपे (पाठे) विनियोगः । ॥ अथ ऋष्यादिन्यासः ॥ ॐ आनन्दभैरवऋषये नमः शिरसि । देवी गायत्री छन्दसे नमः मुखे । श्रीमहात्रिपुरसुन्दरीदेवतायै नमः हृदये । ऐं बीजाय नमः नाभौ । सौः शक्तये नमः स्वाधिष्ठाने । क्लीं कीलकाय नमः मूलाधारे । विनियोगाय नमः पादयोः ॥ ॥ इति ऋष्यादिन्यासः ॥ ॥ अथ करन्यासः ॥ ऐं ह्रीं क्लीं अङ्गुष्ठाभ्यां नमः । क्लीं श्रीं सौः ऐं तर्जनीभ्यां नमः । सौः ॐ ह्रीं श्रीं मध्यमाभ्यां नमः । ऐं कएलह्रीं हसकलह्रीं अनामिकाभ्यां नमः । क्लीं सकल कनिष्ठिकाभ्यां नमः । सौः सौः ऐं क्लीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः । ॥ इतिकरन्यास ॥ ॥ अथ हृदयादिषडङ्गन्यासः ॥ ऐं ह्रीं क्लीं हदयाय नमः । क्लीं श्रीं सौः ऐं शिरसे स्वाहा । सौः ॐ ह्रीं श्रीं शिखायै वषट् । ऐं कएलह्रीं हसकलह्रीं कवचाय हुम् । क्लीं सकल नेत्रत्रयाय वौषट् । सौः सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट् ॥ ॥ इति हृदयादिषडङ्गन्यासः ॥ ॥ अथ ध्यानम् ॥ बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारती- मीषत्फुल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् । पाशं साभयमङ्कुशं च वरदं सम्बिभ्रतीं भूतिदां भ्राजन्तीं चतुरम्बुजाकृतकरैर्भक्त्या भजे षोडशीम् ॥ ५॥ ॥ इति ध्यानम् ॥ सुन्दरी सकलकल्मषापहा कोटिकञ्जकमनीयकान्तिभृत् । Var (कोटिकञ्जप्रियकाम्यकान्तिका) कोटिकल्पकृतपुण्यकर्मणा पूजनीयपदपुण्यपुष्करा ॥ ६॥ शर्वरीशसमसुन्दरानना श्रीशशक्तिसुकृताश्रयाश्रिता । सज्जनानुशरणीयसत्पदा सङ्कटे सुरगणैः सुवन्दिता ॥ ७॥ या सुरासुररणे जवान्विता आजघान जगदम्बिकाऽजिता । सञ्जघान तां भजामि जननीं जगज्जनिं युद्धयुक्तदितिजान्सुदुर्जयान् ॥ ८॥ Var तां भजामि जगतां जनिं जयां युद्धयुक्तदितिजान्सुदुर्जयान् योगिनां हृदयसङ्गतां शिवां योगयुक्तमनसां यतात्मनाम् । जाग्रतीं जगति यत्नतो द्विजा यां जपन्ति हृदि तां भजाम्यहम् ॥ ९॥ कल्पकास्तु कलयन्ति कालिकां यत्कला कलिजनोपकारिका । कौलिकालिकलितान्घ्रिपङ्कजां तां भजामि कलिकल्मषापहाम् ॥ १०॥ Var कौलिकालिकलितान्घ्रिकञ्जकां बालार्कानन्तशोचिर्न्निजतनुकिरणैर्द्दीपयन्तीं दिगन्तान् दीप्तैर्द्देदीप्तमानां दनुजदलवनानल्पदावानलाभाम् । दान्तोदन्तोग्रचितां दलितदितिसुतां दर्शनीयां दुरन्तां देवीं दीनार्द्रचित्तां हृदि मुदितमनाः षोडशीं संस्मरामि ॥ ११॥ धीरान्धन्यान्धरित्रीधवविधृतशिरो धूतधूल्यब्जपादां घृष्टान्धाराधराधो विनिधृतचपलाचारुचन्दप्रभाभाम् । धर्म्यान्धूतोपहारान्धरणिसुरधवोद्धारिणीं ध्येयरूपां धीमद्धन्यातिधन्यान्धनदधनवृतां सुन्दरीं चिन्तयामि ॥ १२॥ जयतु जयतु जल्पा योगिनी योगयुक्ता जयतु जयतु सौम्या सुन्दरी सुन्दरास्या । जयतु जयतु पद्मा पद्मिनी केशवस्य जयतु जयतु काली कालिनी कालकान्ता ॥ १३॥ जयतु जयतु खर्वा षोडशी वेदहस्ता जयतु जयतु धात्री धर्मिणी धातृशान्तिः । जयतु जयतु वाणी ब्रह्मणो ब्रह्मवन्द्या जयतु जयतु दुर्गा दारिणी देवशत्रोः ॥ १४॥ देवि त्वं सृष्टिकाले कमलभवभृता राजसी रक्तरूपा रक्षाकाले त्वमम्बा हरिहृदयधृता सात्विकी श्वेतरूपा । भूरिक्रोधा भवान्ते भवभवनगता तामसी कृष्णरूपा एताश्चान्यास्त्वमेव क्षितमनुजमला सुन्दरी केवलाद्या ॥ १५॥ सुमलशमनमेतद्देवि गोप्यं गुणज्ञे ग्रहणमननयोग्यं षोडशीयं खलघ्नम् । सुरतरुसमशीलं सम्प्रदं पाठकानां प्रभवति हृदयाख्यं स्तोत्रमत्यन्तमान्यम् ॥ १६॥ इदं त्रिपुरसुन्दर्याः षोडश्याः परमाद्भुतम् । यः शृणोति नरः स्तोत्रं स सदा सुखमश्नुते ॥ १७॥ न शूद्राय प्रदातव्यं शठाय मलिनात्मने । समलात्मने देयं दान्ताय भक्ताय ब्राह्मणाय विशेषतः ॥ १८॥ इति श्रीषोडशीहृदयस्तोत्रं अथवा श्रीललितात्रिपुरसुन्दरीह्रिदयस्तोत्रं समाप्तम् ।