श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम् ॥ श्रीललितात्रिपुरसुन्दर्यै नमः ॥ ॥ अथ श्रीमत् ललितात्रिपुरसुन्दरीहृदयस्तोत्रसाधना ॥ ॐ शुद्धस्फटिकसङ्काशं द्विनेत्रं करुणानिधिम् । वराभयकरं वन्दे श्रीगुरुं शिवरूपिणम् ॥ १॥ भक्ताज्ञानतमोभानुं मूर्ध्नि पङ्कजसंस्थितम् । सदाशिवमयं नित्यं श्रीगुरुं प्रणमाम्यहम् ॥ २॥ श्रीविद्यां जगतां धात्रीं सर्गस्थितिलयेश्वरीम् । नमामि ललितां नित्यं महात्रिपुरसुन्दरीम् ॥ ३॥ बिन्दुत्रिकोणसंयुक्तं वसुकोणसमन्वितम् । दशकोणद्वयोपेतं भुवनारसमन्वितम् ॥ ४॥ दलाष्टकसमोपेतं दलषोडशकान्वितम् । वृत्तत्रयान्वितं भूमिसदनत्रयभूषितम् ॥ ५॥ नमामि ललिताचक्रं भक्तानामेतदिष्टदम् । अमृताम्भोनिधौ तत्र रत्नद्वीपं नमाम्यहम् ॥ ६॥ नानावृक्षमहोद्यानं वन्देऽहं कल्पवाटिकाम् । सन्तानवाटिकां वन्दे हरिचन्दनवाटिकाम् ॥ ७॥ मन्दारवाटिकां वन्दे पारिजाताख्यवाटिकाम् । नमामि तव देवेशि कदम्बवनवाटिकाम् ॥ ८॥ पुष्परागमहारत्नप्राकारं प्रणमाम्यहम् । पद्मरागाख्यमणिभिः प्राकारं सर्वदा भजे ॥ ९॥ गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये । वैडूर्यरत्नप्राकारं प्रणमामि तवेश्वरि ॥ १०॥ इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् । मुक्तारत्नमयं चैव प्राकारं सर्वदा भजे ॥ ११॥ मरकताख्यमहारत्नप्राकाराय नमस्तव । विद्रुमाख्यमहारत्नप्राकारं तु तवाश्रये ॥ १२॥ माणिक्यमण्डपं वन्दे सहस्रस्तम्भमण्डपम् । ललिते तव देवेशि भजाम्यमृतवापिकाम् ॥ १३॥ आनन्दवापिकां वन्दे भजे चैव विमर्शिकाम् । भजे बालातपोद्गारं चन्द्रिकोद्गारमाश्रये ॥ १४॥ महाशृङ्गारपरिखां महापद्माटवीं भजे । चिन्तामणिमहारत्नगृहराजं नमाम्यहम् ॥ १५॥ पूर्वाम्नायमयं पूर्वद्वारं देवि भजामि ते । दक्षिणाम्नाय रूपं ते दक्षिणद्वारमाश्रये ॥ १६॥ नमामि ते परं द्वारं पश्चिमाम्नायरूपकम् । वन्देऽहमुत्तरं द्वारमुत्तराम्नायरूपकम् ॥ १७॥ ऊर्ध्वाम्नायमऽहं वन्दे ऊर्ध्वद्वारं कुलेश्वरि । ललिते तव देवेशि महासिंहासनं भजे ॥ १८॥ ब्रह्मात्मकमञ्चपादमेकं तव नमाम्यहम् । एकं विष्णुमयं मञ्चपादं तव नमाम्यहम् ॥ १९॥ एकं रुद्रमयं मञ्चपादं तव नमाम्यहम् । मञ्चपादं नमाम्येकं तव देवीश्वरात्मकम् ॥ २०॥ मञ्चैकफलकं वन्दे सदाशिवमयं शुभम् । नमामि ते हंसतूलतलिमां परमेश्वरि ॥ २१॥ भजामि ते हंसतूल महोपाधानमुत्तमम् । कौसुम्भास्तरणं देवि तव नित्यं नमाम्यहम् ॥ २२॥ मानसपूजा । महावितानकं वन्दे महाजवनिकां भजे । एवं पूजागृहं ध्यात्वा श्रीचक्रस्य शिवप्रिये ॥ २३॥ मद्दक्षिणे स्थापयामि भागे पुष्पाक्षतादिकम् । अभितस्ते महादेवि दीपाँस्तान् दर्शयाम्यहम् ॥ २४॥ मूलेन त्रिपुराचक्रं तव सम्पूजयाम्यहम् । त्रिभिःखण्डैस्तव त्र्यस्त्रं पूजयामि शिवप्रिये ॥ २५॥ वाय्वग्निजलसंयुक्तप्राणायामैरहं शिवे । शोषणं दाहनं देवि करोम्याप्लावनं तथा ॥ २६॥ त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहम् । अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ॥ २७॥ ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । करोम्यनेन मन्त्रेण तालत्रयमहं शिवे ॥ २८॥ नारायणोऽहं ब्रह्माऽहं भैरवोऽहं शिवोऽस्म्यहम् । देवोऽहं परमात्माऽहं महात्रिपुरसुन्दरि ॥ २९॥ ध्यात्वैवं वज्रकवचं न्यासं तव करोम्यहम् । कुमारीबीजसंयुक्तं महात्रिपुरसुन्दरि ॥ ३०॥ मां रक्ष रक्षेति हृदि करोम्यञ्जलिमीश्वरि । नमो देव्यासनायेति ते करोम्यासनं शिवे ॥ ३१॥ चक्रासनं नमस्यामि सर्वमन्त्रासनं भजे । साध्यसिद्धासनं वन्दे मन्त्रैरेभिर्महेश्वरि ॥ ३२॥ करोम्यस्मिंश्चक्रमन्त्रदेवतासनमुत्तमम् । करोम्यथ षडङ्गाख्यं मातृकाश्च करोम्यहम् ॥ ३३॥ वशिन्याद्यष्टकं न्यासं षोढान्यासं करोम्यहम् । महाषोढां ततः कुर्वे नवयोन्याख्यमुत्तमम् ॥ ३४॥ चक्रन्यासं ततः कुर्वे श्रीकण्ठन्यासमुत्तमम् । केशवादि महान्यासं कामन्यासं करोम्यहम् ॥ ३५॥ कलान्यासं ततः कुर्वे कुर्वे कामकलाह्वयम् । पीठन्यासं ततः कुर्वे तत्त्वन्यासं करोम्यहम् ॥ ३६॥ ततः करोमि स्थित्यादिन्यासं तत् त्रिपुरेश्वरि । ततः शुद्धोदकेनाहं वामभागे महेश्वरि ॥ ३७॥ करोमि मण्डलं वृत्तं चतुरस्रं शिवप्रिये । पुष्पैरभ्यर्च्य साधारं शङ्खं संस्थापयाम्यहम् ॥ ३८॥ अर्चयामि षडङ्गेन जलमापूरयाम्यहम् । ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितम् ॥ ३९॥ तज्जलेन जगन्मातस्त्रिकोणं वृत्तसंयुतम् । षट्कोणं चतुरस्त्रं च मण्डलं प्रकरोम्यहम् ॥ ४०॥ विद्यया पूजनं मध्ये खण्डैस्त्र्यस्त्राभिपूजनम् । बीजावृत्या कोणषट्कं पूजयामि शिवप्रिये ॥ ४१॥ तस्मिन् दशकलायुक्तमग्निमण्डलमाश्रये । धूमार्चिषं नमस्यामि ऊष्मां च ज्वलिनीं भजे ॥ ४२॥ ज्वलिनीं च नमस्यामि वन्देऽहं विस्फुल्लिङ्गिनीम् । सुश्रियं च सुरूपां च कपिलां प्रणमाम्यहम् ॥ ४३॥ नौमि हव्यवहां नित्यं भजे कव्यवहां कलाम् । यादिभिः सहिता वह्नेः कला दश तथा भजे ॥ ४४॥ सूर्यस्य मण्डलं तत्र कलाद्वादशकात्मकम् । अर्घ्यपात्रे त्वऽहं वन्दे तपिनीं तापिनीं भजे ॥ ४५॥ धूम्रां मरीचिं वन्देऽहं ज्वालिनीं च रुचिं भजे । सुषुम्णां भोगदां वन्दे भजे विश्वां च बोधिनीम् ॥ ४६॥ धारिणीं च क्षमां वन्दे सौरा एताः कला भजे । सोमस्य मण्डलं तत्र कलाः षोडशकात्मकाः ॥ ४७॥ अर्घ्यामृतात्मकं वन्देऽमृतां मानदां स्तुवे । पूषां तुष्टिं भजे पुष्टिं रतिं धृतिमहं भजे ॥ ४८॥ शशिनीं चन्द्रिकां वन्दे कान्तिं ज्योत्स्नां श्रियं भजे । नौमि प्रीतिं चाङ्गदां च पूर्णां पूर्णामृतां भजे ॥ ४९॥ स्वरैः षोडशभिर्युक्ता भजे सोमस्य वै कलाः । त्रिकोणलेखनं कुर्वे अकथादिसुरेखकम् ॥ ५०॥ हळक्षवर्णसंयुक्तं स्थितान्तर्हंसभास्वरम् । वाक्कामशक्तिसंयुक्तं हंसेनाराधयाम्यहम् ॥ ५१॥ वृत्ताद्बहिः षडस्रे च लेखनं प्रकरोम्यहम् । पुरोभागादि षट्कोणं षडङ्गेनार्चयाम्यहम् ॥ ५२॥ श्रीविद्यायाः सप्तवारं करोम्यत्राभिमन्त्रणम् । समर्पयामि विश्वेशि तस्मिन् गन्धाक्षतादिकम् ॥ ५३॥ ध्यायामि पूजाद्रव्यं ते सर्वं विद्यामयं शुभम् । चतुर्नवति सन्मन्त्रान् स्पृष्ट्वा तत्प्रजपाम्यहम् ॥ ५४॥ वह्नेर्दशकलाः सूर्यकलाद्वादशकं भजे । आश्रये षोडशकलास्तत्र सोमस्य कामदाः ॥ ५५॥ सृष्टिमृद्धिं स्मृतिं वन्दे मेधां कान्तिं नमाम्यहम् । लक्ष्मीं धृतिं स्थिरांवन्दे स्थितिं सिद्धिं भजाम्यहम् ॥ ५६॥ एतां ब्रह्मकलां वन्दे जरां तां पालिनीं भजे । शान्तिं नमामीश्वरीं च रतिं वन्दे च कामिकाम् ॥ ५७॥ वरदां ह्लादिनीं वन्दे प्रीतिं दीर्घां भजाम्यहम् । टादिभिः सहिता विष्णोः कला दश तथा भजे ॥ ५८॥ एता विष्णोः कला वन्दे तीक्ष्णां रौद्रीं भयां तथा । निद्रां तन्द्रां क्षुधां वन्दे नमामि क्रोधिनीं क्रियाम् ॥ ५९॥ उद्गारीं च भजे मृत्युमेता रुद्रकला भजे । पीतां श्वेतां भजे नित्यमरुणां च तथा भजे ॥ ६०॥ भजेऽसितां तथाऽनन्तां षादिभिः सहितास्तथा । ईश्वरस्य कला ह्येता वन्दे नित्यमभीष्टदाः ॥ ६१॥ निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं नमाम्यहम् । इन्धिकां दीपिकां चैव रेचिकां मोचिकां तथा ॥ ६२॥ परां सूक्ष्मां नमस्यामि नौमि सूक्ष्मामृतां कलाम् । वन्दे ज्ञानां कलां चैव तथा ज्ञानामृतां कलाम् ॥ ६३॥ आप्यायिनीं व्यापिनीं च व्योमरूपां नमाम्यहम् । कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् ॥ ६४॥ हांसाख्यं च महामन्त्रं ज्योतिषं हंसमाश्रये । प्रतत्प्रथमविश्वान्तं मन्त्रं ज्योतिषमाश्रये ॥ ६५॥ त्र्यम्बकं च नमस्यामि तद्विष्णोः प्रणमाम्यहम् । विष्णुर्योनिं मूलविद्यां मन्त्रैरेभिरनुत्तमैः ॥ ६६॥ अमृतं मन्त्रितं वन्दे चतुर्नवतिभिस्तव । अखण्डैकरसानन्दकरेऽपरसुधात्मनि ॥ ६७॥ स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि । अकुलस्थामृताकारे शुद्धज्ञानकरे परे ॥ ६८॥ अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि । तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि ॥ ६९॥ भूत्वा परामृताऽऽकारा मयि चित्स्फुरणं कुरु । अमृतेशीं नमस्यामि सर्वदामृतवर्षिणीम् ॥ ७०॥ वाग्वादिनीं नमस्यामि श्रीविद्यां प्रणमाम्यहम् । एभिर्मनूत्तमैर्वन्दे मन्त्रितं परमामृतम् ॥ ७१॥ ज्योतिर्मयमिदं कुर्वे परमर्घ्यं महेश्वरि। तद्बिन्दुभिर्मे शिरसि त्रिगुरून् पूजयाम्यहम् ॥ ७२॥ ब्रह्माऽहमस्मि तद्बिन्दुं कुण्डलिन्या जुहोम्यहम् । हृच्चक्रस्था महादेवीं महात्रिपुरसुन्दरीम् ॥ ७३॥ निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् । नासापुटे परकलामथ निर्गमयाम्यहम् ॥ ७४॥ समानयामि तां हस्ते त्रिखण्डकुसुमाञ्जलौ । जगन्मातर्महादेवि महात्रिपुरसुन्दरि ॥ ७५॥ सुधाचैतन्यमूर्तिं ते कल्पयामि नमः शिवे । अनेन मनुना देवि यन्त्रे त्वां स्थापयाम्यहम् ॥ ७६॥ महापद्मवनान्तःस्थे कारणानन्दविग्रहे । सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ ७७॥ देवेशि भक्तिसुलभे सर्वावरणसंयुते । यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥ ७८॥ अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् । कल्पयामि नमः पाद्यमर्घ्यं ते कल्पयाम्यहम् ॥ ७९॥ सुगन्धतैलाभ्यङ्गं च मज्जशालाप्रवेशनम् । कल्पयामि नमस्तस्मिन् मणिपीठोपवेशनम् ॥ ८०॥ दिव्यस्नानीयमीशानि गृहाणोद्वर्तनं शुभम् । गृहाणोष्णोदकस्नानं कल्पयामि नमस्तव ॥ ८१॥ हेमकुम्भच्युतैस्तीर्थैः कल्पयाम्यभिषेचनम् । कल्पयामि नमस्तुभ्यं धौतेन परिमार्जनम् ॥ ८२॥ बालभानुप्रतीकाशं दुकूलपरिधानकम् । अरुणेन दुकूलेनोत्तरीयं कल्पयामि ते ॥ ८३॥ प्रवेशनं कल्पयामि तवालेपनमण्डपम् । नमस्ते कल्पयाम्यत्र मणिपीठोपवेशनम् ॥ ८४॥ अष्टगन्धैः कल्पयामि सर्वाङ्गेषु विलेपनम् । कालागरु महाधूपस्तव केशभरस्य हि ॥ ८५॥ मल्लिकामालतीजातीचम्पकादिमनोरमैः । रचिताःकुसुमैर्मालाः कल्पयामि नमस्तव ॥ ८६॥ प्रवेशनं कल्पयामि नमो भूषणमण्डपम् । उपवेशं रत्नपीठे तत्र ते कल्पयाम्यहम् ॥ ८७॥ नवमाणिक्यमुकुटं तच्चन्द्रशकलं ततः । ततः सीमन्तसिन्दूरं ततस्तिलकमुत्तमम् ॥ ८८॥ कालाञ्जनं कल्पयामि पालीयुगलमुत्तमम् । मणिकुण्डलयुग्मं ते नासाभरणमीश्वरि ॥ ८९॥ ते कल्पयामि त्रिपुरे ललिताऽधरयावकम् । अथाऽऽद्यभूषणं कण्ठे हेमचिन्ताकमुत्तमम् ॥ ९०॥ पदकं ते कल्पयामि महापदकमुत्तमम् । कल्पयामि नमो मुक्तावलिमेकावलिं च ते ॥ ९१॥ छन्नवीरं च केयूरयुगलानां चतुष्टयम् । वलयावलिमीशानि ऊर्मिकावलिमीश्वरि ॥ ९२॥ काञ्चीदामकटीसूत्रं सौभाग्याभरणं च ते । त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् ॥ ९३॥ पादाङ्गुलीयकं तुभ्यं पाशमेककरे तव । अन्यस्मिन्नङ्कुशं देवि पुण्ड्रेक्षुधनुषं परे ॥ ९४॥ अपरे पुष्पबाणाँश्च श्रीमन्माणिक्यपादुके । नवावरणदेवीभिर्महाचक्राधिरोहणम् ॥ ९५॥ कामेश्वराङ्कपर्यङ्क उपवेशनमुत्तमम् । सुधासवाख्यं चषकं ततः आचमनीयकम् ॥ ९६॥ कर्पूरवीटिकां तुभ्यं कल्पयामि नमः शिवे । आनन्दोल्लासवेलासहासं ते कल्पयाम्यहम् ॥ ९७॥ मङ्गलारार्तिकं देवि छत्रं ते कल्पयाम्यहम् । ततश्चामरयुग्मं ते दर्पणं कल्पयाम्यहम् ॥ ९८॥ तालवृन्तं कल्पयामि गन्धं पुष्पं महेश्वरि । धूपं दीपं च नैवेद्यं कल्पयामि नमस्तव ॥ ९९॥ अथाऽहं वैन्दवे चक्रे सर्वानन्दमयात्मिके । रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् ॥ १००॥ ध्यानम् । उद्यद्भानुसहस्राभ्यां जपापुष्पसमप्रभाम् । नवरत्नप्रभादीप्तमुकुटेन विराजिताम् ॥ १०१॥ चन्द्ररेखासमोपेतां कस्तूरीतिलकाञ्चिताम् । कामकोदण्डसौन्दर्यनिर्जितभ्रूलतायुगाम् ॥ १०२॥ अञ्जनाञ्चितनेत्रां तां पद्मपत्रनिभेक्षणाम् । मणिकुण्डलसंयुक्तकर्णद्वयविराजिताम् ॥ १०३॥ मुक्तामाणिक्यखचितनासिकाभरणान्विताम् । मदपाटलसंयुक्तकपोलयुगलान्विताम् ॥ १०४॥ पक्वबिम्बफलाभासाधरद्वयविराजिताम् । शुद्धमुक्तावलिप्रख्यदन्तपङ्क्तिविराजिताम् ॥ १०५॥ ताम्बूलपूरितमुखीं सुस्मितास्यविराजिताम् । आद्यभूषणसंयुक्तां हेमचिन्ताकसंयुताम् ॥ १०६॥ पदकेन समोपेतां महापदकसंयुताम् । मुक्तावलिसमोपेतामेकावलिविराजिताम् ॥ १०७॥ केयूराङ्गदसंयुक्तचतुर्बाहुविराजिताम् । अष्टगन्धसमोपेतां श्रीचन्दनविलेपनाम् ॥ १०८॥ हेमकुम्भसमप्रख्यस्तनद्वयविराजिताम् । रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुताम् ॥ १०९॥ सूक्ष्मरोमावलीयुक्ततनुमध्यविराजिताम् । मुक्तामाणिक्यखचितकाञ्चीयुतनितम्बिनीम् ॥ ११०॥ सदाशिवाङ्कस्थपृथुमहाजघनमण्डलाम् । कदलीस्तम्भसङ्काशऊरुयुग्मविराजिताम् ॥ १११॥ कदलीकान्तिसङ्काशजङ्घायुगलशोभिताम् । गूढगुल्फद्वयोपेतां रक्तपादयुगान्विताम् ॥ ११२॥ ब्रह्माविष्णुमहादेवशिरोमुकुटजातया । कान्त्या विराजितपदां भक्तत्राणपरायणाम् ॥ ११३॥ इक्षुकार्मुकपुष्पेषु पाशाङ्कुशधरां पराम् । संवित्स्वरूपिणीं देवीं ध्यायामि परमेश्वरीम् ॥ ११४॥ इति ध्यानम् । प्रदर्शयाम्यथ शिवे नवमुद्रा वरप्रदाः । त्वां तर्पयामि त्रिपुरे त्रिधा मूलेन पार्वति ॥ ११५॥ आग्नेय्यामीशदिग्भागे नैरृत्यां मारुते तथा । मध्ये दिक्षु षडङ्गानि क्रमादभ्यर्चयाम्यहम् ॥ ११६॥ आद्यां कामेश्वरीं वन्दे नमामि भगमालिनीम् । नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहम् ॥ ११७॥ वह्निवासां नमस्यामि महावज्रेश्वरीं स्तुवे । शिवदूतीं नमस्यामि त्वरितां कुलसुन्दरीम् ॥ ११८॥ नित्यां नीलपताकां च विजयां सर्वमङ्गलाम् । ज्वालामालां च चित्रां च महानित्यां च संस्तुवे ॥ ११९॥ दिव्यौघेभ्यो नमस्यामि परेशपरमेश्वरीम् । मित्रेशमथ षष्ठीशमुड्डीशं प्रणमाम्यहम् ॥ १२०॥ चर्यानाथं नमस्यामि लोपामुद्रामहं भजे । अगस्त्यं प्रणमस्यामि सिद्धौघे कालतापनम् ॥ १२१॥ धर्माचार्यं नमस्यामि मुक्तकेशीश्वरं भजे । भजे दीपकलानाथं मानवौघे ततः परम् ॥ १२२॥ विष्णुदेवं नमस्यामि प्रभाकरमहं भजे । तेजोदेवं नमस्यामि मनोजमथ संस्तुवे ॥ १२३॥ कल्याणदेवं कलये रत्नदेवं भजाम्यहम् । वासुदेवं नमस्यामि श्रीरामानन्दमाश्रये ॥ १२४॥ परमेष्ठिगुरुं वन्दे परमं गुरुमाश्रये । श्रीगुरुं प्रणमस्यामि मूर्ध्नि ब्रह्मबिले स्थितम् ॥ १२५॥ कं बिलेऽहं नमस्यामि श्रीगुरोः पादुकां ततः । अथ प्राथमिके देवि चतुरस्रे तवेश्वरि ॥ १२६॥ अणिमां लघिमां वन्दे महिमां प्रणमाम्यहम् । ईशित्वसिद्धिं वन्देऽहं वशित्वं च नमाम्यहम् ॥ १२७॥ प्राकाम्यसिद्धिं वन्देऽहं भुक्तिमिच्छामहं भजे । प्राप्तिसिद्धिं सर्वकामप्रदासिद्धिमहं भजे ॥ १२८॥ मध्यमे चतुरस्रेऽहं ब्राह्मीं माहेश्वरीं भजे । कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहम् ॥ १२९॥ माहेन्द्रीमपि चामुण्डां महालक्ष्मीमहं भजे । तृतीये चतुरस्रेऽहं सर्वसंक्षोभिणीं भजे ॥ १३०॥ सर्वविद्राविणीं मुद्रां सर्वाकर्षिणिकां भजे । मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे ॥ १३१॥ भजे महाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहम् । बीजमुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीम् ॥ १३२॥ त्रैलोक्यमोहनं चक्रं नमामि ललिते तव । नमामि योगिनीं तत्र प्रकटाख्यामभीष्टदाम् ॥ १३३॥ सुधार्णवासनं वन्दे तत्र ते परमेश्वरि । चक्रेश्वरीं तत्र वन्दे त्रिपुरां परमेश्वरीम् ॥ १३४॥ सर्वेसंक्षोभिणीं मुद्रां ततोऽहं कलये शिवे । अथाऽहं षोडशदले कामाकर्षणिकां भजे ॥ १३५॥ बुद्ध्याकर्षणिकां वन्देऽहङ्काराकर्षणीं भजे । शब्दाकर्षणिकां वन्दे स्पर्शाकर्षणिकां भजे ॥ १३६॥ रूपाकर्षणिकां वन्दे रसाकर्षणिकां भजे । गन्धाकर्षणिकां वन्दे चित्ताकर्षणिकां भजे ॥ १३७॥ धैर्याकर्षणिकां वन्दे स्मृत्याकर्षणिकां भजे । नामाकर्षणिकां वन्दे बीजाकर्षणिकां भजे ॥ १३८॥ आत्माकर्षणिकां वन्दे ह्यमृताकर्षणीं भजे । शरीराकर्षणीं वन्दे नित्यां श्रीपरमेश्वरीम् ॥ १३९॥ सर्वाशापूरकं चक्रं कलयेऽहं तवेश्वरि । गुप्ताख्यां योगिनीं वन्दे तत्राऽहं गुप्तपूजिताम् ॥ १४०॥ पीताम्बुजासनं तत्र नमामि ललिते तव । त्रिपुरेशीं महादेवीं भजामीष्टार्थंसिद्धिदाम् ॥ १४१॥ सर्वंविद्राविणीं मुद्रां तत्राऽहं तां विचिन्तये । शिवे तवाष्टपत्रेऽहमनङ्गकुसुमां भजे ॥ १४२॥ अनङ्गमेखलां वन्दे ह्यनङ्गमदनां भजे । ततोऽहं प्रणमस्यामि ह्यनङ्गमदनातुराम् ॥ १४३॥ अनङ्गरेखां कलये भजे तेऽनङ्गवेगिनीम् । भजेऽनङ्गाङ्कुशां देवि तव चानङ्गमालिनीम् ॥ १४४॥ सर्वसंक्षोभणं चक्रं तत्राऽहं कलये सदा । वन्दे गुप्ततराख्यां तां योगिनीं सर्वकामदाम् ॥ १४५॥ तत्राऽहं प्रणमस्यामि देव्यात्मासनमुत्तमम् । नमामि जगदीशानीमऽहं त्रिपुरसुन्दरीम् ॥ १४६॥ सर्वाकर्षणिकां मुद्रां तत्राऽहं कलयामि ते । भुवनारे तव शिवे सर्वसंक्षोभिणीं भजे ॥ १४७॥ सर्वविद्राविणीं वन्देऽहं सर्वाकर्षिणिकां भजे । सकलाह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे ॥ १४८॥ सकल स्तम्भिनीं वन्दे कलये सर्वजृम्भिनीम् । वशङ्करीं नमस्यामि सर्वरञ्जनिकां भजे ॥ १४९॥ सकलोन्मादिनीं वन्दे भजे सर्वार्थसाधिनीम् । सम्पत्तिपूरिणीं वन्दे सर्वमन्त्रमयीं भजे ॥ १५०॥ भजाम्यहं ततः शक्तिं सर्वद्वन्द्वक्षयङ्करीम् । तत्राऽहं कलये चक्रं सर्वसौभाग्यदायकम् ॥ १५१॥ नमामि जगतां धात्रीं सम्प्रदायाख्ययोगिनीम् । शिवे तव नमस्यामि श्रीचक्रासनमुत्तमम् ॥ १५२॥ नमामि जगदीशानीमहं त्रिपुरवासिनीम् । कलयेऽहं तव शिवे मुद्रां सर्ववशङ्करीम् ॥ १५३॥ बहिर्दशारे ते देवि सर्वसिद्धिप्रदां भजे । सर्वसम्पत्प्रदां वन्दे भजे सर्वप्रियङ्करीम् ॥ १५४॥ नमाम्यहं ततो देवीं सर्वमङ्गलकारिणीम् । सर्वकामप्रदां वन्दे सर्वदुःखविमोचिनीम् ॥ १५५॥ सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् । सर्वाङ्गसुन्दरीं देवीं सर्वसौभाग्यदायिनीम् ॥ १५६॥ सर्वार्थसाधकं चक्रं तथाऽहं कलये सदा । कलयामि ततो देवीं कुलोत्तीर्णाख्ययोगिनीम् ॥ १५७॥ सर्वमन्त्रासनं वन्दे त्रिपुराश्रीयमाश्रये । कलयामि ततो मुद्रां सर्वोन्मादनकारिणीम् ॥ १५८॥ अन्तर्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् । सर्वशक्तिं नमस्यामि सर्वैश्वर्यप्रदां भजे ॥ १५९॥ सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीम् । सर्वाधारस्वरूपां च सर्वपापहरां भजे ॥ १६०॥ सर्वानन्दमयीं वन्दे सर्वरक्षास्वरूपिणीम् । प्रणमामि महादेवीं सर्वेप्सितप्रदां भजे ॥ १६१॥ सर्वरक्षाकरं चक्रं तत्राऽहं कलये सदा । निगर्भयोगिनीं वन्दे तत्राऽहं परमेश्वरीम् ॥ १६२॥ साध्यसिंहासनं वन्दे भजे त्रिपुरमालिनीम् । कलयामि ततो देवि मुद्रां सर्वमहाङ्कुशाम् ॥ १६३॥ अष्टारे वशिनीं वन्दे भजे कामेश्वरीं सदा । मोदिनीं विमलां वन्दे ह्यरुणां जयिनीं भजे ॥ १६४॥ सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् । सर्वरोगहरं चक्रं तवाऽहं देवि चिन्तये ॥ १६५॥ रहस्ययोगिनीं देवीं सदाऽहं कलयामि ते । नमामि त्रिपुरासिद्धां भजे मुद्रां च खेचरीम् ॥ १६६॥ महात्रिकोणस्य बाह्ये चतुर्दिक्षु महेश्वरि । नमामि जृम्भ्णान् बाणान् चापं सम्मोहनं भजे ॥ १६७॥ पाशं वशङ्करं वन्दे भजे स्तम्भनमङ्कुशम् । त्रिकोणेऽहं जगद्धात्रीं महाकामेश्वरीं भजे ॥ १६८॥ महावज्रेश्वरीं वन्दे महाश्रीमालिनीं भजे । महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदाम् ॥ १६९॥ सर्वसिद्धिप्रदं चक्रं तव देवि नमाम्यहम् । नमाम्यतिरहस्याख्यां योगिनीं तत्र कामदाम् ॥ १७०॥ त्रिपुराम्बां नमस्यामि बीजमुद्रां नमाम्यहम् । मूलमन्त्रेण ललिते त्वां बिन्दौ पूजयाम्यहम् ॥ १७१॥ सर्वानन्दमयं चक्रं नमामि ललिते तव । परापररहस्याख्यां योगिनीं कलये सदा ॥ १७२॥ महाचक्रेश्वरीं वन्दे योनिमुद्रामहं भजे । धूपादिकं सर्वमयि ते कल्पयाम्यहम् ॥ १७३॥ त्वत्प्रीतये महामुद्रां दर्शयामि ततः शिवे । त्रिधा त्वां मूलमन्त्रेण तर्पयामि ततः शिवे ॥ १७४॥ शाल्यन्नं मधुसंयुक्तं पायसापूपसंयुतम् । घृतसूपसमायुक्तं सर्वभक्ष्यसमन्वितम् ॥ १७५॥ ससितं क्षीरसंयुक्तं बहुशाकसमन्वितम् । निक्षिप्य काञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥ १७६॥ सङ्कल्प्य बिन्दुना वक्त्रं कुचौ बिन्दुद्वयेन च । योनिं तु सपरार्धेन कृत्वा श्रीत्रिपुरे तव ॥ १७७॥ एतत् कामकलारूपं भक्तानां सर्वकामदम् । सर्वसम्पत्प्रदं वन्दे नमस्ते त्रिपुरेश्वरि ॥ १७८॥ वामभागे त्रिकोणं च वृत्तं च चतुरस्रकम् । कृत्वा गन्धाक्षताद्यैश्च ह्यर्चयामि महेश्वरि ॥ १७९॥ वाग्भवाद्यं नमस्यामि तत्र व्यापकमण्डलम् । जलयुक्तार्द्रान्नयुक्तं मकारत्रयभाजनम् ॥ १८०॥ तत्र विन्यस्य दास्यामि भूतेभ्यो बलिमुत्तमम् । नमस्ते देवदेवेशि नमस्त्रैलोक्यवन्दिते ॥ १८१॥ नमः परशिवाङ्कस्थे नमस्त्रिपुरसुन्दरि । प्रदक्षिणां नमस्कारं मनसाऽहं करोमि ते ॥ १८२॥ ततः सकलमन्त्राणां सम्राज्ञीं परमेश्वरीम् । प्रजपामि महाविद्यां त्वत्प्रीत्यार्थमहं सदा । तव विद्यां प्रजप्त्वाऽथ स्तौमि त्वां परमेश्वरीम् ॥ १८३॥ महादेवि महेशानि सदाशिव महाप्रिये । महानित्ये महासिद्धे त्वामहं शरणं व्रजे ॥ १८४॥ जय त्वं त्रिपुरे देवि ललिते जगदीश्वरि । सदाशिवप्रियकरि पाहि मां करुणाकरि ॥ १८५॥ जगन्मातर्जगद्रूपे जगदीश्वरवल्लभे । जगन्मये जगस्तुल्ये गौरि त्वामहमाश्रये ॥ १८६॥ अनाद्ये सर्वलोकानामाद्ये भक्तेष्टदायिनि । गिरिराजस्य तनये नमस्ते त्रिपुरेश्वरि ॥ १८७॥ जयादिदेवदेवेशि ब्रह्ममातर्नमोऽस्तु ते । विष्णुमातरनाद्यन्ते हरमातः सुरेश्वरि ॥ १८८॥ ब्रह्मादिसुरसंस्तुत्ये लोकत्रयवशङ्करि । सर्वसम्पत्प्रदे नित्ये त्वामहं कलये सदा ॥ १८९॥ नित्यानन्दे निराधारे चिद्रूपिणि शिवप्रिये । अणिमादिगुणाधारे त्वां सदा कलयाम्यहम् ॥ १९०॥ ब्राह्म्यादिमातृसंस्तुत्ये सर्वावरणसंयुते । ज्योतिर्मये महारूपे पाहि मां त्रिपुरे सदा ॥ १९१॥ लक्ष्मीवाण्यादिसम्पूज्ये ब्रह्मविष्णुशिवस्तुते । भजामि तव पादाब्जं सर्वकामफलप्रदम् ॥ १९२॥ सर्वशक्तिसमोपेतं सर्वाभीष्टफलप्रदे । नमामि तव पादाब्जं देवि त्रिपुरसुन्दरि ॥ १९३॥ त्वत्प्रियार्थं ततः कांश्चिच्छक्तिं सम्पूजयाम्यहम् । मपञ्चकेन तां शक्तिं तर्पयामि महेश्वरि ॥ १९४॥ तयोपेतं हविःशेषं चिदग्नौ प्रजुहोम्यहम् । त्वत्प्रियार्थं महादेवि ममाभीष्टार्थसिद्धये ॥ १९५॥ बद्ध्वा तां खेचरीं मुद्रां क्षमस्वोद्वासयाम्यहम् । तिष्ठ मे हृदये नित्यं त्रिपुरे परमेश्वरि ॥ १९६॥ जगदम्बे महाराज्ञि महाशक्ति शिवप्रिये । हृच्चक्रे तिष्ठ सततं महात्रिपुरसुन्दरि ॥ १९७॥ सर्वलोकैकसम्पूज्ये सकलावरणैर्युते । हृच्चक्रे तिष्ठ मे नित्यं महात्रिपुरसुन्दरि ॥ १९८॥ ॥ फलश्रुति ॥ एतत् त्रिपुरसुन्दर्या हृदयं सर्वकामदम् । महारहस्यं परमं दुर्लभं दैवतैरपि ॥ १॥ साक्षात् सदाशिवेनोक्तं गुह्याद्गुह्यमनुत्तमम् ॥ २॥ यः पठेन्नित्यमेकाग्रः शृणुयाद् वा समाहितः । नित्यपूजाफलं देव्याः स लभेन्नात्र संशयः ॥ ३॥ पापैः स मुच्यते सद्यः कायवाक्चित्तसम्भवैः । सर्वजन्मसमुद्भूतैर्ज्ञानकृतैरपि ॥ ४॥ सर्वक्रतुषु यत्पुण्यं सर्वतीर्थेषु यत् फलम् । तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ ५॥ अचलां लभते लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् । साक्षाद् विष्णुसमो मर्त्यो शीघ्रमेव भवेत् सदा ॥ ६॥ अष्टैश्वर्यमवाप्नोति स शीघ्रं मानवोत्तमः । गुटिकापादुकासिद्ध्याद्यष्टकं शीघ्रमश्नुते ॥ ७॥ शङ्खाद्या निध्यो वाऽपि तं नित्यं पर्युपासते । वश्यादीन्यष्टकर्माणि शीघ्रं सिद्ध्यन्ति सर्वदा ॥ ८॥ भूलोकस्थाः सर्वनार्यः पातालस्थाः सदाङ्गनाः । सर्वलोकस्थिताः सर्वा याश्चान्यारूपगर्विताः ॥ ९॥ रमन्ते तेन सततं शीघ्रं वश्या न संशयः । राजाद्याः सकला मर्त्याः हरहर्यादयः सुराः ॥ १०॥ अनन्ताद्या महानागाः सिद्धयोगेश्वरादयः । ऋषयो मुनयो यक्षास्तं नित्यं पर्युपासते ॥ ११॥ महतीं कीर्तिमाप्नोति शिवविष्णुसमप्रभाम् । परमं योगमासाद्य खेचरो जायते सदा ॥ १२॥ अपमृत्युविनिर्मुक्तः कालमृत्युविवर्जितः । परमायुष्यमाप्नोति हरहर्यादिदुर्लभम् ॥ १३॥ अश्रुतानि च शास्त्राणि व्याचष्टे विधिवत् सदा । मूढोऽपि सर्वविद्यावान् दक्षिणामूर्तिवद्भवेत् ॥ १४॥ ग्रहभूतपिशाचाद्या यक्षगन्धर्वराक्षसाः । एतस्य स्मरणादेव विनश्यन्ति हि सर्वदा ॥ १५॥ तद्गात्रं प्राप्य सकलं विषं सद्यो विनश्यति । सहस्रकामसङ्काशः कान्त्या यः सर्वदा भवेत् ॥ १६॥ तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् । जपेद् यः सर्वदा साक्षाद् भवेद् देवीस्वरूपकः ॥ १७॥ साङ्गं त्रिपुरसुन्दर्या नित्यपूजाफलं लभेत् । विमुक्तो रोगसङ्घातैरारोग्यं महदश्नुते ॥ १८॥ प्राप्नोति महदैश्वर्यं सर्वविद्यानिधिर्भवेत् । तत्करस्पर्शमात्रेण नरो ब्राह्मणतां लभेत् ॥ १९॥ मुच्यते सकलैर्विघ्नैः स नित्यं मानवोत्तमः । स भुङ्क्ते सकलान् भोगान् दुर्लभांश्च दिने दिने ॥ २०॥ लभते पुत्रपौत्रांश्च महालक्ष्मीसमन्वितान् । परमायुष्यसंयुक्तान् साक्षच्छिवसमान् गुणैः ॥ २१॥ सृष्टिपालनसंहारकर्तेवायं सदा भवेत् । यस्ते कृपावान् भवति स त्रिमूर्तिर्न संशयः ॥ २२॥ तत्समीपस्थितः शीघ्रं सदा जातिस्मरोभवेत् । तस्य गेहे सदा कामधेनुः कल्पतरुस्तथा ॥ २३॥ चिन्तामणिश्च सततं तिष्ठत्येव न संशयः । महाजयमवाप्नोति सदा सर्वत्र मानवः ॥ २४॥ वज्रकायसमो भूत्वा चरत्येव जगत्ययम् । महासुखी भवेन्नित्यं परमात्मा भवेत् सदा ॥ २५॥ मुच्यते सकलेभ्योऽपि बन्धनैः शृङ्खलादिभिः । तं पूजयन्ति सततं हरिरुद्रादयोऽपि च ॥ २६॥ शुभमेव भवेन्नित्यं सदापद्भिर्विमुच्यते । देवगन्धर्वरक्षाद्यैर्ब्रह्माद्यैरपि दुर्लभान् ॥ २७॥ प्राप्नोति सकलान् कामान् शीघ्रमेव न संशयः । दिव्यभोगयुतो दिव्यकन्याभिः सह संयुतः ॥ २८॥ विमानं स समास्थाय दिव्याभरणभूषितः । दिव्यचन्दनलिप्ताङ्गः सदा विंशतिवार्षिकः ॥ २९॥ स भुङ्क्ते सकलान् भोगान् देवलोके नरः सदा । तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् । जपेद्यः सततं भक्त्या भवेत् साक्षात् सदा शिवः ॥ ३०॥ ॥ इति श्री रुद्रयामले ईश्वरपार्वतीसंवादे श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम् ॥