श्रीभैरवीहृदयम् ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ अथ श्रीभैरवीहृदय प्रारम्भः ॥ मेरौ गिरिवरेशानी शिवन्ध्यानपरायणम् । पार्वती परिपप्रच्छ परानुग्रहवाञ्छया ॥ १॥ श्रीपार्वत्युवाच भगवंस्त्वन्मुखाम्भोजाच्छ्रुता धर्मा अनेकशः । पुनह्स्श्रोतुं समिच्छामि भैरवीस्तोत्रमुत्तमम् ॥ २॥ श्रीशङ्कर उवाच शृणु देवि प्रवक्ष्यामि भैरवीहृदयाह्वयम् । स्तोत्रन्तु परमम्पुण्यं सर्वकल्याणकारणम् ॥ ३॥ यस्य श्रवणमात्रेण मङ्गलम्भवति ध्रुवम् । विना ध्यानादिना वापि भैरवी परितुष्यति ॥ ४॥ ॐ अस्य श्रीभैरवीहृदयमन्त्रस्य दक्षिणामूर्त्ति ऋषिः । पङ्क्ति छन्दः । भयविध्वंसिनी भैरवी देवता । हकारो बीजम् । रीं शक्तिः । रैः कीलकम् । सर्वभयविध्वंसनार्थे जपे (पाठे) विनियोगः ॥ ॥ अथ करन्यासः ॥ ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ श्रीं तर्जनीभ्यां नमः । ॐ ऐं मध्यमाभ्यां नमः । ॐ ह्रीं अनामिकाभ्यां नमः । ॐ श्रीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतलकरपृष्ठाभ्यां नमः ॥ ॥ इति करन्यासः ॥ ॥ अथ हृदयादिषडङ्गन्यासः ॥ ॐ ह्रीं हृदयाय नमः । ॐ श्रीं शिरसे स्वाहा । ॐ ऐं शिखायै वषट् । ॐ ह्रीं कवचाय हुम् । ॐ श्रीं नेत्रत्रयाय वौषट् । ॐ ऐं अस्त्राय फट् ॥ ॥ इति हृदयादिषडङ्गन्यासः ॥ ॥ अथ ध्यानम् ॥ देवैर्ध्द्ये यान्त्रिनेत्रामसुरदलघनारण्यरोराग्निरूपां रौद्रीं रक्ताम्बराढ्यां रतिघटिघटितोरोजयुग्मोग्ररूपाम् । चन्द्रार्द्धभ्राजिभव्याभरणकरलसद्भालबिम्बाम्भवानीं सिन्दूरापूरिताङ्गीं त्रिभुवनजननीं भैरवीं भावयामि ॥ भवभ्रमत्समस्तभूतवेदमार्गदायिनी- न्दुरन्तदुःखदारिणींविदारिणीं सुरद्रुहाम् । भवप्रदाम्भवान्धकारभेदनप्रभाकरा- मितप्रभाम्भवच्छिदाम्भजामि भैरवीं सदा ॥ १॥ उरः प्रलम्बिताहिमाल्यचन्द्रभालभूषणान्- नवाम्बुदप्रभां सरोजचारुलोचनत्रयाम् । सुपर्ववृन्दवन्दितां सुरापदन्तकारिका- म्भवानुभावभाविनीं भजामि भैरवीं सदा ॥ २॥ अखण्डभूमिमण्डलैकभारधीरधारिणीं सुभक्तिभावितात्मनां विभूतिभव्यदायिनीम् । भवप्रपञ्चकारिणीं विहारिणीं भवाम्बुधौ भवस्यहृदयभाविनीं भजामि भैरवीं सदा ॥ ३॥ शरच्चमत्कृतार्च्यचन्द्रचन्द्रिकाविरोधिक- प्रभावतीमुखाब्जमञ्जुमाधुरीमिलद्गिराम् । भुजङ्गमालया नृमुण्डमालया च मण्डितां सुभक्तिमुक्तिभूतिदां भजामि भैरवीं सदा ॥ ४॥ सुधांशुसूर्यवह्निलोचनत्रयान्विताननान्- नरान्तकान्तकप्रभूतिपर्वदत्त दक्षिणाम् । समुण्डचण्डखण्डनप्रचण्डचन्द्रहासिनी- न्तमोमतिप्रकाशिनीं भजामि भैरवीं सदा ॥ ५॥ त्रिशूलिनीं त्रिपुण्ड्रिनीं त्रिखण्डिनीं त्रिदण्डिनीं गुणत्रयातिरक्तमत्यचिन्त्यचित्स्वरूपिणीम् । सवासवादितेयवैरिवृन्दवंशभेदिनीं भवप्रभावभाविनीं भजामि भैरवीं सदा ॥ ६॥ सुदीप्तकोटिबालभानुमण्डलप्रभाङ्गमा- दिगन्तदारितान्धकारभूरिपुञ्जपद्धतिम् । द्विजन्मनित्यधर्म्मनीतिवृद्धिलग्नमानसां सरोजरोचिराननां भजामि भैरवीं सदा ॥ ७॥ चलत्सुवर्णकुण्डलप्रभोल्लसत्कपोलरुक्- समाकुलाननाम्बुजस्थशुभ्रकीर नासिकाम् । सचन्द्रभालभैरवस्य दर्शनस्पृहच्चकोर- नीलकञ्जदर्शनां भजामि भैरवीं सदा ॥ ८॥ इमं हृदाख्यसङ्गतस्तवम्पठन्ति येऽनिश- म्पतन्ति ते कदापिनान्धकूपरूपवद्भवे । भवन्ति च प्रभूतिभक्तिमुक्तिमन्त उज्ज्वला- स्ततः प्रसीदति प्रमोदमानसा च भैरवी ॥ ९॥ यशोजगत्यजस्रमुज्ज्वलञ्जयत्यलं समे न तस्य जायते पराजयोञ्जसा जगत्त्रये । सदा स्तुतिं शुभामिमाम्पठत्यनन्यमानसो भवन्ति तस्य सम्पदोऽपिसन्ततं सुखप्रदाः ॥ १०॥ जपपूजादिकास्सर्वाः स्तोत्रपाठादिकाश्च याः । भैरवीहृदयस्यास्य कलान्नार्हन्ति षोडशीम् ॥ ११॥ किमत्र बहुनोक्तेन शृणु देवि महेश्वरि । नातः परतरङ्किञ्चित्पुण्यमस्ति जगत्त्रये ॥ १२॥ ॥ इति श्रीभैरवीकुलसर्वस्वे श्रीभैरवीहृदयस्तोत्रं समाप्तम् ॥