श्रीभुवनेश्वरीहृदयम् श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । देव्युवाच । भगवन् ब्रूहि तत्स्तोत्रं सर्वकामप्रसाधनम् । यस्य श्रवणमात्रेण नान्यच्छ्रोतव्यमिष्यते ॥ १॥ यदि मेऽनुग्रहः कार्यः प्रीतिश्चापि ममोपरि । तदिदं कथय ब्रह्मन् विमलं यन्महीतले ॥ २॥ ईश्वर उवाच । शृणुदेवि प्रवक्ष्यामि सर्वकामप्रसाधनम् । हृदयं भुवनेश्वर्याः स्तोत्रमस्ति यशोदयम् ॥ ३॥ विनियोगः । ॐ अस्य श्रीभुवनेश्ववरीहृदयस्तोत्रमन्त्रस्य शक्तिरृषिः । गायत्री छन्दः । श्रीभुवनेश्ववरी देवता । हकारो बीजम् । ईकारः शक्तिः । रेफः कीलकम् । सकलमनोवाञ्छितसिद्धयर्थे जपे विनियोगः ॥ पाठे हृदयादिषडङ्गन्यासः ॥ ॐ ह्रीं हृदयाय नमः । ॐ श्रीं शिरसे स्वाहा । ॐ ऐं शिखायै वषट् । ॐ ह्रीं कवचाय हुं । ॐ श्रीं नेत्रत्रयाय वौषट् । ॐ ऐं अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः ॥ करन्यासः ॥ ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ श्रीं तर्जनीभ्यां नमः । ॐ ऐं मध्यमाभ्यां नमः । ॐ ह्रीं अनामिकाभ्यां नमः । ॐ श्रीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ अथ ध्यानम् । ध्यायेद्ब्रह्मादिकानां कृतजनिजननीं योगिनीं योगयोनिं देवानां जीवनायोज्ज्वलितजयपरज्योतिरुग्राङ्गधात्रीम् । शङ्खं चक्रं च बाणं धनुरपि दधतीं दोश्चतुष्काम्बुजातैर्मायामाद्यां विशिष्टां भवभवभुवनां भूभवा भारभूमिम् ॥ ४॥ इति ध्यानम् ॥ यदाज्ञयेदं गगनाद्यशेषं सृजत्यजः श्रीपतिरौरसं वा । var यदाज्ञया यो जगदाद्यशेषं बिभर्ति संहन्ति भवस्तदन्ते भजामहे श्रीभुवनेश्वरीं ताम् ॥ ५॥ जगज्जनानन्दकरीं जयाख्यां यशस्विनीं यन्त्रसुयज्ञयोनिम् । जितामितामित्रकृतप्रपञ्चां भजामहे श्रीभुवनेश्वरीं ताम् ॥ ६॥ हरौ प्रसुप्ते भुवनत्रयान्ते अवातरन्नाभिजपद्मजन्मा । विधिस्ततोऽन्धे विदधार यत्पदं भजामहे श्रीभुवनेश्वरीं ताम् ॥ ७॥ न विद्यते क्वापि तु जन्म यस्या न वा स्थितिः सान्ततिकीह यस्याः । न वा निरोधेऽखिलकर्म यस्या भजामहे श्रीभुवनेश्वरीं ताम् ॥ ८॥ कटाक्षमोक्षाचरणोग्रवित्ता निवेशितार्णा करुणार्द्रचित्ता । सुभक्तये एति समीप्सितं या भजामहे श्रीभुवनेश्वरीं ताम् ॥ ९॥ यतो जगज्जन्म बभूव योनेस्तदेव मध्ये प्रतिपाति या वा । तदत्ति यान्तेऽखिलमुग्रकाली भजामहे श्रीभुवनेश्वरीं ताम् ॥ १०॥ सुषुप्तिकाले जनमध्ययन्त्या यया जनः स्वप्नमवैति किञ्चित् । प्रबुद्ध्यते जाग्रति जीव एष भजामहे श्रीभुवनेश्वरीं ताम् ॥ ११॥ दयास्फुरत्कोरकटाक्षलाभान्नैकत्र यस्याः प्रलभन्ति सिद्धाः । कवित्वमीशित्वमपि स्वतन्त्रा भजामहे श्रीभुवनेश्वरीं ताम् ॥ १२॥ लसन्मुखाम्भोरुहमुत्स्फुरन्तं हृदि प्रणिध्याय दिशि स्फुरन्तः । यस्याः कृपार्द्रं प्रविकाशयन्ति भजामहे श्रीभुवनेश्वरीं ताम् ॥ १३॥ यदानुरागानुगतालिचित्राश्चिरन्तनप्रेमपरिप्लुताङ्गाः । सुनिर्भयाः सन्ति प्रमुद्य यस्याः भजामहे श्रीभुवनेश्वरीं ताम् ॥ १४॥ हरिर्विरञ्चिर्हर ईशितारः पुरोऽवतिष्ठन्ति प्रपन्नभङ्गाः । यस्याः समिच्छन्ति सदानुकूल्यं भजामहे श्रीभुवनेश्वरीं ताम् ॥ १५॥ मनुं यदीयं हरमग्निसंस्थं ततश्च वामश्रुतिचन्द्रसक्तम् । जपन्ति ये स्युर्हि सुवन्दितास्ते भजामहे श्रीभुवनेश्वरीं ताम् ॥ १६॥ प्रसीदतु प्रेमरसार्द्रचित्ता सदा हि सा श्रीभुवनेश्ववरी मे । कृपाकटाक्षेण कुबेरकल्पा भवन्ति यस्याः पदभक्तिभाजः ॥ १७॥ मुदा सुपाठ्यं भुवनेश्वरीयं सदा सतां स्तोत्रमिदं सुसेव्यम् । सुखप्रदं स्यात्कलिकल्मषघ्नं सुशृण्वतां सम्पठतां प्रशस्यम् ॥ १८॥ एतत्तु हृदयं स्तोत्रं पठेद्यस्तु समाहितः । भवेत्तस्येष्टदा देवी प्रसन्ना भुवनेश्वरी ॥ १९॥ ददाति धनमायुष्यं पुण्यं पुण्यमतिं तथा । नैष्ठिकीं देवभक्तिं च गुरुभक्तिं विशेषतः ॥ २०॥ पूर्णिमायां चतुर्दश्यां कुजवारे विशेषतः । पठनीयमिदं स्तोत्रं देवसद्मनि यत्नतः ॥ २१॥ यत्रकुत्रापि पाठेन स्तोत्रस्यास्य फलं भवेत् । सर्वस्थानेषु देवेश्याः पूतदेहः सदा पठेत् ॥ २२॥ ॥ इति नीलसरस्वतीतन्त्रे भुवनेश्वरीपटले श्रीदेवीश्वरसंवादे श्रीभुवनेश्ववरी हृदयस्तोत्रं समाप्तम् ॥