श्रीब्रह्मास्त्रबगलामुखीकवचम् श्री गणेशाय नमः । श्री बगलायै नमः । अथ ब्रह्मास्त्रबगलाकवचम् । श्रीब्रह्मोवाच । विश्वेश दक्षिणामूर्ते निगमागमवित् प्रभो । मह्यं पुरा त्वया दत्ता विद्या ब्रह्मास्त्रसंज्ञिता ॥ १॥ तस्य मे कवचं ब्रूहि येनाहं सिद्धिमाप्नुयाम् ॥ भवामि वज्रकवचं ब्रह्मास्त्रन्यासमात्रतः ॥ २॥ श्रीदक्षिणामूर्तिरुवाच । शृणु ब्रह्मन् परं गुह्य ब्रह्मास्त्रकवचं शुभम् । यस्योच्चारणमात्रेण भवेद् वै सूर्यसन्निभः ॥ ३॥ सुदर्शनं मया दत्तं कृपया विष्णवे तथा । तद्वत् ब्रह्मास्त्रविद्यायाः कवचं कवयाम्यहम् ॥ ४॥ अष्टाविंशत्यस्त्रहेतुमाद्यं ब्रह्मास्त्रमुत्तमम् । सर्वतेजोमयं सर्वं सामर्थ्यं विग्रहं परम् ॥ ५॥ सर्वशत्रुक्षयकरं सर्वदारिद्र्यनाशनम् । सर्वापच्छैलराशीनामस्त्रकं कुलिशोपमम् ॥ ६॥ न तस्य शत्रवश्चापि भयं चौर्यभयं जरा । नरा नार्यश्च राजेन्द्र खगा व्याघ्रादयोऽपि च ॥ ७॥ तं दृष्ट्वा वशमायान्ति किमन्यत् साधवो जनाः । यस्य देहे न्यसेद् धीमान् कवचं बगलामयम् ॥ ८॥ स एव पुरुषो लोके केवलः शङ्करोपमः । न देयं परशिष्याय शठाय पिशुनाय च ॥ ९॥ दातव्यं भक्तियुक्ताय गुरुदासाय धीमते । कवचस्य ऋषिः श्रीमान् दक्षिणामूर्तिरेव च ॥ १०॥ अस्यानुष्टप् छन्दः स्यात् श्रीबगला चास्य देवता । बीजं श्रीवह्निजाया च शक्तिः श्रीबगलामुखी ॥ ११॥ कीलकं विनियोगश्च स्वकार्ये सर्वसाधके । अथ ध्यानम् । शुद्धस्वर्णनिभां रामां पीतेन्दुखण्डशेखराम् । पीतगन्धानुलिप्ताङ्गीं पीतरत्नविभूषणाम् ॥ १॥ पीनोन्नतकुचां स्निग्धां पीतलाङ्गीं सुपेशलाम् । त्रिलोचनां चतुर्हस्तां गम्भीरां मदविह्वलाम् ॥ २॥ वज्रारिरसनापाशमुद्गरं दधतीं करैः । महाव्याघ्रासनां देवीं सर्वदेवनमस्कृताम् ॥ ३॥ प्रसन्नां सुस्मितां क्लिन्नां सुपीतां प्रमदोत्तमाम् । सुभक्तदुःखहरणे दयार्द्रां दीनवत्सलाम् ॥ ४॥ एवं ध्यात्वा परेशानि बगलाकवचं स्मरेत् । अथ रक्षाकवचम् । बगला मे शिरः पातुः ललाटं ब्रह्मसंस्तुता । बगला मे भ्रुवौ नित्यं कर्णयोः क्लेशहारिणी ॥ १॥ त्रिनेत्रा चक्षुषी पातु स्तम्भिनी गण्डयोस्तथा । मोहिनी नासिकां पातु श्रीदेवी बगलामुखी ॥ २॥ ओष्ठयोर्दुर्धरा पातु सर्वदन्तेषु चञ्चला । सिद्धान्नपूर्णा जिह्वायां जिह्वाग्रे शारदाम्बिके ॥ ३॥ अकल्मषा मुखे पातु चिबुके बगलामुखी । धीरा मे कण्ठदेशे तु कण्ठाग्रे कालकर्षिणी ॥ ४॥ शुद्धस्वर्णनिभा पातु कण्ठमध्ये तथाऽम्बिका । कण्ठमूले महाभोगा स्कन्धौ शत्रुविनाशिनी ॥ ५॥ भुजौ मे पातु सततं बगला सुस्मिता परा । बगला मे सदा पातु कूर्परे कमलोद्भवा ॥ ६॥ बगलाऽम्बा प्रकोष्ठौ तु मणिबन्धे महाबला । बगलाश्रीर्हस्तयोश्च कुरुकुल्ला कराङ्गुलिम् ॥ ७॥ नखेषु वज्रहस्ता च हृदये ब्रह्मवादिनी । स्तनौ मे मन्दगमना कुक्षयोर्योगिनी तथा ॥ ८॥ उदरं बगला माता नाभिं ब्रह्मास्त्रदेवता । पुष्टिं मुद्गरहस्ता च पातु नो देववन्दिता ॥ ९॥ पार्श्वयोर्हनुमद्वन्द्या पशुपाशविमोचिनी । करौ रामप्रिया पातु ऊरुयुग्मं महेश्वरी ॥ १०॥ भगमाला तु गुह्यं मे लिङ्गं कामेश्वरी तथा । लिङ्गमूले महाक्लिन्ना वृषणौ पातु दूतिका ॥ ११॥ बगला जानुनी पातु जानुयुग्मं च नित्यशः । जङ्घे पातु जगद्धात्री गुल्फौ रावणपूजिता ॥ १२॥ चरणौ दुर्जया पातु पीताम्बा चरणाङ्गुलीः । पादपृष्ठं पद्महस्ता पादाधश्चक्रधारिणी ॥ १३॥ सर्वाङ्गं बगला देवी पातु श्रीबगलामुखी । ब्राह्मी मे पूर्वतः पातु माहेशी वह्निभागतः ॥ १४॥ कौमारी दक्षिणे पातु वैष्णवी स्वर्गमार्गतः । ऊर्ध्वं पाशधरा पातु शत्रुजिह्वाधरा ह्यधः ॥ १५॥ रणे राजकुले वादे महायोगे महाभये । बगला भैरवी पातु नित्यं क्लीङ्काररूपिणी ॥ १६॥ फलश्रुतिः । इत्येवं वज्रकवचं महाब्रह्मास्त्रसंज्ञकम् । त्रिसन्ध्यं यः पठेद् धीमान् सर्वैश्वर्यमवाप्नुयात् ॥ १॥ न तस्य शत्रवः केऽपि सखायः सर्व एव च । बलेनाकृष्य शत्रुं स्यात् सोऽपि मित्रत्वमाप्नुयात् ॥ २॥ शत्रुत्वे मरुता तुल्यो धनेन धनदोपमः । रूपेण कामतुल्यः स्याद् आयुषा शूलधृक्समः ॥ ३॥ सनकादिसमो धैर्ये श्रिया विष्णुसमो भवेत् । तत्तुल्यो विद्यया ब्रह्मन् यो जपेत् कवचं नरः ॥ ४॥ नारी वापि प्रयत्नेन वाञ्छितार्थमवाप्नुयात् । द्वितीया सूर्यवारेण यदा भवति पद्मभूः ॥ ५॥ तस्यां जातं शतावृत्या शीघ्रं प्रत्यक्षमाप्नुयात् । याता तुरीयं सन्ध्यायां भूशय्यायां प्रयत्नतः ॥ ६॥ सर्वान् शत्रून् क्षयं कृत्वा विजयं प्राप्नुयान् नरः । दारिद्र्यान् मुच्यते चाऽऽशु स्थिरा लक्ष्मीर्भवेद् गृहे ॥ ७॥ सर्वान् कामानवाप्नोति सविषो निर्विषो भवेत् । ऋणं निर्मोचनं स्याद् वै सहस्रावर्तनाद् विधे ॥ ८॥ भूतप्रेतपिशाचादिपीडा तस्य न जायते । द्युमणिर्भ्राजते यद्वत् तद्वत् स्याच्छ्रीप्रभावतः ॥ ९॥ स्थिराभया भवेत् तस्य यः स्मरेद् बगलामुखीम् । जयदं बोधनं कामममुकं देहि मे शिवे ॥ १०॥ जपस्यान्ते स्मरेद् यो वै सोऽभीष्टफलमाप्नुयात् । इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥ ११॥ न स सिद्धिमवाप्नोति साक्षाद् वै लोकपूजितः । तस्मात् सर्वप्रयत्नेन कवचं ब्रह्मतेजसम् ॥ १२॥ नित्यं पदाम्बुजध्यानान् महेशानसमो भवेत् । इति श्रीदक्षिणामूर्तिसंहितायां ब्रह्मास्त्रबगलामुखीकवचं समाप्तम् ।