।।श्रीमद्भगवद्गीता अष्टादशोऽध्यायः ।। ॥ अथ अष्टादशोऽध्यायः ॥ (मोक्षसंन्यासयोगः) अर्जुन उवाच: श्लोक 1 संन्यासस्य महा-बाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशि-निषूदन ॥ श्रीकृष्ण उवाच: श्लोक 2 काम्यानाम् कर्मणाम् न्यासम् संन्यासम् कवयः विदुः । सर्व-कर्म-फल-त्यागम् प्राहुः त्यागम् विचक्षणाः ॥ श्लोक 3 त्याज्यम् दोषवत् इति एके कर्म प्राहुः मनीषिणः । यज्ञ-दान-तपः-कर्म न त्याज्यम् इति च अपरे ॥ श्लोक 4 निश्चयम् शृणु मे तत्र त्यागे भरत-सत्तम । त्यागः हि पुरुष-व्याघ्र त्रिविधः संप्रकीर्तितः ॥ श्लोक 5 यज्ञ-दान-तपः-कर्म न त्याज्यम् कार्यम् एव तत् । यज्ञः दानम् तपः च एव पावनानि मनीषिणाम् ॥ श्लोक 6 एतानि अपि तु कर्माणि संगम् त्यक्त्वा फलानि च । कर्तव्यानि इति मे पार्थ निश्चितम् मतम् उत्तमम् ॥ श्लोक 7 नियतस्य तु संन्यासः कर्मणः न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥ श्लोक 8 दुःखम् इति एव यत् कर्म काय-क्लेश-भयात् त्यजेत् । सः कृत्वा राजसम् त्यागम् न एव त्याग-फलम् लभेत् ॥ श्लोक 9 कार्यम् इति एव यत् कर्म नियतम् क्रियते अर्जुन । संगम् त्यक्त्वा फलम् च एव सः त्यागः सात्त्विकः मतः ॥ श्लोक 10 न द्वेष्टि अकुशलम् कर्म कुशले न अनुशज्जते । त्यागी सत्त्व-समाविष्टः मेधावी छिन्न-संशयः ॥ श्लोक 11 न हि देह-भृता शक्यम् त्यक्तुम् कर्माणि अशेषतः । यः तु कर्म-फल-त्यागी सः त्यागी इति अभिधीयते ॥ श्लोक 12 अनिष्टम् इष्टम् मिश्रं च त्रिविधम् कर्मणः फलम् । भवति अत्यागिनाम् प्रेत्य न तु संन्यासिनाम् क्वचित् ॥ श्लोक 13 पंच एतानि महा-बाहो कारणानि निबोध मे । सांख्ये कृत-अन्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥ श्लोक 14 अधिष्ठानम् तथा कर्ता करणम् च पृथक्-विधम् । विविधाः च पृथक् चेष्टाः दैवम् च एव अत्र पंचमम् ॥ श्लोक 15 शरीर-वाक्-मनःभिः यत् कर्म प्रारभते नरः । न्याय्यम् वा विपरीतम् वा पंच एते तस्य हेतवः ॥ श्लोक 16 तत्र एवम् सति कर्तारम् आत्मानम् केवलम् तु यः । पश्यति अकृत-बुद्धित्वात् न सः पश्यति दुर्मतिः ॥ श्लोक 17 यस्य न अहंकृतः भावः बुद्धिः यस्य न लिप्यते । हत्वा अपि सः इमान् लोकान् न हन्ति न निबध्यते ॥ श्लोक 18 ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म-चोदना । करणम् कर्म कर्ता इति त्रिविधः कर्म-संग्रहः ॥ श्लोक 19 ज्ञानम् कर्म च कर्ता च त्रिधा एव गुण-भेदतः । प्रोच्यते गुण-संख्याने यथा-वच्छृणु तानि अपि ॥ श्लोक 20 सर्व-भूतेषु येन एकम् भावम् अव्ययम् ईक्षते । अविभक्तम् विभक्तेषु तत् ज्ञानम् विद्धि सात्त्विकम् ॥ श्लोक 21 पृथक्त्वेन तु यत् ज्ञानम् नाना-भावान् पृथक्-विधान् । वेत्ति सर्वेषु भूतेषु तत् ज्ञानम् विद्धि राजसम् ॥ श्लोक 22 यत् तु कृत्स्नवत् एकस्मिन् कार्ये सक्तम् अहैतुकम् । अतत्त्व-अर्थवत् अल्पम् च तत् तामसम् उदाहृतम् ॥ श्लोक 23 नियतं संग-रहितम् अराग-द्वेषतः कृतम् । अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ श्लोक 24 यत् तु काम-इप्सुना कर्म सह-अहंकारेण वा पुनः । क्रियते बहुल-आयासम् तत् राजसम् उदाहृतम् ॥ श्लोक 25 अनुबन्धम् क्षयम् हिंसाम् अनपेक्ष्य च पौरुषम् । मोहात् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥ श्लोक 26 मुक्त-संगः अनहं-वादी धृति-उत्साह-समन्वितः । सिद्धि-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ॥ श्लोक 27 रागी कर्म-फल-प्रेप्सुः लुब्धः हिंसात्मकः अशुचिः । हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः ॥ श्लोक 28 अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः । विषादी दीर्घ-सूत्री च कर्ता तामसः उच्यते ॥ श्लोक 29 बुद्धेः भेदम् धृतेः च एव गुणतः त्रिविधम् शृणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय ॥ श्लोक 30 प्रवृत्तिम् च निवृत्तिम् च कार्य-अकार्ये भय-अभये । बंधम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ श्लोक 31 यया धर्मम् अधर्मम् च कार्यम् च अकार्यं एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ श्लोक 32 अधर्मम् धर्मम् इति या मन्यते तमसा आवृता । सर्व-अर्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥ श्लोक 33 धृत्या यया धारयते मनः-प्राण-इन्द्रिय-क्रियाः । योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ श्लोक 34 यया तु धर्म-काम-अर्थान् धृत्या धारयते अर्जुन । प्रसंगेन फल-आकांक्षी धृतिः सा पार्थ राजसी ॥ श्लोक 35 यया स्वप्नम् भयम् शोकम् विषादम् मदम् एव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ श्लोक 36 सुखम् तु इदानीम् त्रिविधम् शृणु मे भरत-ऋषभ । अभ्यासात् रमते यत्र दुःख-अन्तम् च निगच्छति ॥ श्लोक 37 यत् तत् अग्रे विषम् इव परिणामे अमृत-उपमम् । तत् सुखम् सात्त्विकम् प्रोक्तम् आत्म-बुद्धि-प्रसाद-जम् ॥ श्लोक 38 विषय-इन्द्रिय-संयोगात् यत् तत् अग्रे अमृत-उपमम् । परिणामे विषम् इव तत् सुखम् राजसम् स्मृतम् ॥ श्लोक 39 यत् अग्रे च अनुबन्धे च सुखम् मोहनम् आत्मनः । निद्रा-आलस्य-प्रमाद-उत्थम् तत् तामसम् उदाहृतम् ॥ श्लोक 40 न तत् अस्ति पृथिव्याम् वा दिवि देवेषु वा पुनः । सत्त्वम् प्रकृति-जैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः ॥ श्लोक 41 ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च परंतप । कर्माणि प्रविभक्तानि स्वभाव-प्रभवैः गुणैः ॥ श्लोक 42 शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च । ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्म-कर्म स्वभावजम् ॥ श्लोक 43 शौर्यम् तेजः धृतिः दाक्ष्यम् युद्धे च अपि अपलायनम् । दानम् ईश्वर-भावः च क्षात्रम् कर्म स्वभावजम् ॥ श्लोक 44 कृषि-गौरक्ष्य-वाणिज्यम् वैश्य-कर्म स्वभावजम् । परिचर्या-आत्मकम् कर्म शूद्रस्य अपि स्वभावजम् ॥ श्लोक 45 स्वे स्वे कर्मणि अभिरतः संसिद्धिम् लभते नरः । स्व-कर्म-निरतः सिद्धिम् यथा विन्दति तत् शृणु ॥ श्लोक 46 यतः प्रवृत्तिः भूतानाम् येन सर्वम् इदम् ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिम् विन्दति मानवः ॥ श्लोक 47 श्रेयान् स्व-धर्मः विगुणः पर-धर्मात् स्व-अनुष्ठितात् । स्वभाव-नियतं कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ श्लोक 48 सहजम् कर्म कौंतेय सदोषम् अपि न त्यजेत् । सर्व-आरम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥ श्लोक 49 असक्त-बुद्धिः सर्वत्र जित-आत्मा विगत-स्पृहः । नैष्कर्म्य-सिद्धिम् परमाम् संन्यासेन अधिगच्छति ॥ श्लोक 50 सिद्धिम् प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे । समासेन एव कौंतेय निष्ठा ज्ञानस्य या परा ॥ श्लोक 51 बुद्ध्या विशुद्धया युक्तः धृत्या आत्मानम् नियम्य च । शब्द-आदीन् विषयान् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥ श्लोक 52 विविक्त-सेवी लघु-आशी यत-वाक्-काय-मानसः । ध्यान-योग-परः नित्यम् वैराग्यम् समुपाश्रितः ॥ श्लोक 53 अहंकारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् । विमुच्य निर्ममः शान्तः ब्रह्म-भूयाय कल्पते ॥ श्लोक 54 ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न कांक्षति । समः सर्वेषु भूतेषु मद्भक्तिम् लभते पराम् ॥ श्लोक 55 भक्त्या माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः । ततः माम् तत्त्वतः ज्ञात्वा विशते तत् अनन्तरम् ॥ श्लोक 56 सर्व-कर्माणि अपि सदा कुर्वाणः मद्-व्यपाश्रयः । मत्-प्रसादात् अवाप्नोति शाश्वतम् पदम् अव्ययम् ॥ श्लोक 57 चेतसा सर्व-कर्माणि मयि संन्यस्य मत्-परः । बुद्धि-योगम् उपाश्रित्य मत्-चित्तः सततम् भव ॥ श्लोक 58 मत्-चित्तः सर्व-दुर्गाणि मत्-प्रसादात् तरिष्यसि । अथ चेत् त्वम् अहंकारात् न श्रोष्यसि विनंक्ष्यसि ॥ श्लोक 59 यत् अहंकारम् आश्रित्य न योत्स्ये इति मन्यसे । मिथ्या एष व्यवसायः ते प्रकृतिः त्वाम् नियोक्ष्यति ॥ श्लोक 60 स्वभाव-जेन कौंतेय निबद्धः स्वेन कर्मणा । कर्तुम् न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥ श्लोक 61 ईश्वरः सर्व-भूतानाम् हृद्-देशे अर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया ॥ श्लोक 62 तम् एव शरणम् गच्छ सर्व-भावेन भारत । तत्-प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् ॥ श्लोक 63 इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरम् मया । विमृश्य एतत् अशेषेण यथा इच्छसि तथा कुरु ॥ श्लोक 64 सर्व-गुह्यतमम् भूयः शृणु मे परमम् वचः । इष्टः असि मे दृढम् इति ततः वक्ष्यामि ते हितम् ॥ श्लोक 65 मन्मना भव मद्भक्तः मद्याजी माम् नमस्कुरु । माम् एव एष्यसि सत्यं ते प्रतिजाने प्रियः असि मे ॥ श्लोक 66 सर्व-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज । अहम् त्वा सर्व-पापेभ्यः मोक्षयिष्यामि मा शुचः ॥ श्लोक 67 इदम् ते न अतपस्काय न अभक्ताय कदाचन । न च अशुश्रूषवे वाच्यम् न च माम् यः अभ्यसूयति ॥ श्लोक 68 यः इदम् परमम् गुह्यम् मद्-भक्तेषु अभिधास्यति । भक्तिम् मयि पराम् कृत्वा माम् एव एष्यति असंशयः ॥ श्लोक 69 न च तस्मात् मनुष्येषु कश्चित् मे प्रिय-कृत्-तमः । भविता न च मे तस्मात् अन्यः प्रियतरो भुवि ॥ श्लोक 70 अध्येष्यते च यः इदम् धर्म्यम् संवादम् आवयोः । ज्ञान-यज्ञेन तेन अहम् इष्टः स्याम् इति मे मतिः ॥ श्लोक 71 श्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः । सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥ श्लोक 72 कच्चित् एतत् श्रुतम् पार्थ त्वया एकाग्रेण चेतसा । कच्चित् अज्ञान-संमोहः प्रनष्टः ते धनंजय ॥ अर्जुन उवाच: श्लोक 73 नष्टः मोहः स्मृतिः लब्धा त्वत्-प्रसादात् मया अच्युत । स्थितः अस्मि गत-संदेहः करिष्ये वचनम् तव ॥ संजय उवाच: श्लोक 74 इति अहम् वासुदेवस्य पार्थस्य च महात्मनः । संवादम् इमम् अश्रौषम् अद्भुतम् रोम-हर्षणम् ॥ श्लोक 75 व्यास-प्रसादात् श्रुतवान् एतत् गुह्यम् अहम् परम् । योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ श्लोक 76 राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशव-अर्जुनयोः पुण्यम् हृष्यामि च मुहुः मुहुः ॥ श्लोक 77 तत् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतम् हरेः । विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥ श्लोक 78 यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः । तत्र श्रीः विजयः भूतिः ध्रुवा नीतिर्मतिर्मम ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ॥ 18 ॥...