श्रीबालाहृदयम् अस्य श्रीबालादेव्या हृदयमहामन्त्रस्य सदाशिवः ऋषिः । अनुष्टुप्छन्दः । बालात्रिपुरसुन्दरी देवता । न्यासा मूलमन्त्रवत् । ध्यानम्- वन्दे देवीं शिवां बालां भास्वन्मण्डलमध्यगाम् । चञ्चच्चन्द्राननां तप्तचामीकरसमप्रभाम् ॥ १॥ नृत्यत्खञ्ननेत्रस्य लोचनात्यन्तवल्लभाम् । मध्यभागे लसत्काञ्ची मणिमुक्ताविनिर्मिताम् ॥ २॥ पदविन्यस्तहंसालीं शुकनासाविराजिताम् । करिशुण्डोरुयुगलां मत्तकोकिलनिः स्वानाम् ॥ ३॥ पुस्तकं जपमालाञ्च वरदाभयपाणिनीम् । कुमारीवेशशोभाढ्यां कुमारीवृन्दमण्डिताम् ॥ ४॥ विद्रुमाधरशोभाढ्यां विद्रुमालिनखालिकाम् । क्कणत्काञ्चीं कलानाथसमानरुचिराननाम् ॥ ५॥ मृणालबाहुलतिकां नानारत्नविराजिताम् । करपद्मसमानाभां पादपद्मविराजिताम् ॥ ६॥ चारुचाम्पेयवसनां देवदेवनमस्कृताम् । चन्दनेन्दुविलप्ताङ्गीं रोमराजीविचित्रिताम् ॥ ७॥ तिलपुष्पसमानाभां नासारत्नसमन्विताम् । गजगण्डनितम्बाभां रम्भाजङ्घाविराजिताम् ॥ ८॥ हरविष्णुमहेन्द्राद्यैः पूज्यश्रीपादपङ्कजाम् । कल्याणीं कमलां कालीं कुञ्चिकां कमलेश्वरीम् ॥ ९॥ पावनीं परमां शक्तिं पवित्रां पावनीं शिवाम् । भवानीं भवपाशघ्नीं भीतिहां भुवनेश्वरीम् ॥ १०॥ भवानीं भवशक्तिञ्च भेरुण्डां मुण्डमालिनीम् । जलन्धरगिर्युत्सङ्गां पूर्णगिर्यनुरागिणीम् ॥ ११॥ कामरूपां च कामाख्यां देवीकोटकृतालयाम् । ओङ्कारपीठनिलयां महामायां महेश्वरीम् ॥ १२॥ विश्वेश्वरीं च मधुरां नानारूपाकृतापुरीम् । ऐं क्लीं सौः त्र्यक्षरां बालां तद्विलोमां कुमारिकाम् ॥ १३॥ ह्यैः ऐं हंसः नमो देवि त्रिपुरां जीवभैरवीम् । नारदो यस्य देवर्षिः महाशान्तिफलप्रदाम् ॥ १४॥ ॐ नमो श्रीमहालक्ष्म्यै लक्ष्मीं त्रिपुरभैरवीम् । ॐ ह्रीं जूं सः प्राणग्रन्थिः द्विधार्गकवचद्वयम् ॥ १५॥ इयं सञ्जीविनी देवी मृतान् जीवत्वदायिनी । फ्रेः फ्रं न फ ल व र यूं श्रों श्रों अमृतमावदेत् ॥ १६॥ स्रावय स्रावय तथा व्रीं व्रीं मृत्युञ्जयाभिधा । ॐ नमो प्रथममाभाष्य कालीबीजं द्विधा पठेत् ॥ १७॥ कूर्चद्वयं तथा माया आगामिपदमावदेत् । मृत्युं छिन्दि तथा भिन्दि महामृत्युञ्जयो भवेत् ॥ १८॥ तव शब्दं ममाभाष्य खड्गेन च विदारय । द्विधा भाष्य महेशानि तदन्ते वह्निसुन्दरी ॥ १९॥ इयं देवी महाविद्या आगामि कालवञ्चिनी । प्रातर्दीपदलाकारं वाग्भवं रसनातले ॥ २०॥ विचिन्त्य प्रजपेतच्च महाकविर्भवेद्ध्रुवम् । मध्याह्ने कामराजाख्यं जपाकुसुमसन्निभम् ॥ २१॥ विचिन्त्य हृदि मध्ये तु तच्च मन्त्रं जपेत्प्रिये । धर्मार्थकाममोक्षाणां भाजनो जायते ध्रुवम् ॥ २२॥ तार्तीयं चन्द्रसङ्काशं सायङ्काले विचिन्त्य च । प्रजपेत्तत्र देवेशि जायते मदनोपमः ॥ २३॥ वाग्भवं कामराजं तु तार्तीयं वह्निवल्लभाम् । अयुतं प्रजपेन्नित्यं आगामी कालो वञ्च्यते ॥ २४॥ त्रिकोणं चक्रमालिख्य मायायुक्तं महेश्वरि । तस्योपरि समास्तीर्य चासनं रक्तवर्णकम् । तस्योपरि विशेद्देवि साधकः प्राङ्मुखो निशि ॥ २६॥ क्रमेण प्रजपेद्वर्णान् वागादि नियतः शुचिः । मण्डलत्रितये देवि प्राप्यते सिद्धिरुत्तमा ॥ २७॥ नवयोन्यात्मकं चक्रं पूजयेच्छास्त्रवर्त्मना । प्रजपेद् द्वयक्षरीं बालां सर्वसिद्धीश्वरो भवेत् ॥ २८॥ यं यं चिन्तयते कामं तं तं प्राप्नोति सर्वशः । इदं तु हृदयं देवि तवाग्रे कथितं मया ॥ २९॥ मम भाग्यं च सर्वस्वं ब्रह्मादीनां च दुर्लभम् । गोपनीयं त्वया भाद्रे स्वयोनिरिव पार्वति ॥ ३०॥ शतवर्तेन देवेशि मानुषी वशमाप्नुयात् । सहस्रावर्तनाद्देवि देवा वै वशमाप्नुयुः ॥ ३१॥ लक्षमावर्तनाद्देवि शुनासीरः स्वकासनात् । क्षणाच्च्यवति तत्र वै किं पुनः क्षुद्रजन्तवः ॥ ३२॥ तस्मात्सर्वप्रयत्नेन ज्ञात्वा देवि जपेन्मनुम् । सर्वसिद्धिमपाप्नोति सर्वदा सुखवान्भवेत् ॥ ३३॥ (जालशम्बरमहातन्त्रे) पूजाङ्गत्वेन जपकाले मूलमन्त्रजपानन्तरं विग्रहादौ मूलमन्त्रेण देवीमावाह्य यथोचितं आवाहनाद्युपचारान् कृत्वा पूजासमाप्तौ पुनः हृदयादिन्यासं भूर्भुवस्सुवरों इति दिग्बन्धं ध्यानं लमित्यादिपूजां कृत्वा मूलमन्त्रं यथाशक्ति जप्त्वा पुनः हृदयादिन्यासं भूर्भुवस्सुवरों इति दिग्विमोकं लमित्यादि पञ्चपूजां च कृत्वा जपं देव्यग्रे समर्पयेत् । इति श्रीबालाहृदयं (२) समाप्तम् ।