श्रीबालाहृदयम् श्रीपार्वयुत्युवाच- महादेव नमस्तुभ्यं विरूपाक्षाय ते नमः । बालाया हृदयं मन्त्रं गोप्याद्गोप्यतरं तथा ॥ १॥ यस्य श्रवणमात्रेण मन्त्रसिद्धिमवाप्नुयात् । बालाया हृदयं मन्त्रं ब्रह्मादीनां च दुर्लभम् ॥ २॥ सकृच्छ्रवणमात्रेण वाञ्छितं फलमाप्नुयात् । सञ्चारवान् भवेत्पङ्गुः मूको वाग्मी तु यो भवेत् ॥ ३॥ अस्य श्रीबालात्रिपुरसुन्दरी हृदयमहामन्त्रस्य दक्षिणामूर्तिःऋषिः । पङ्क्तिश्छन्दः । श्रीबालात्रिपुरसुन्दरी देवता । ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् । श्रीबालात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे श्रीबालात्रिपुरसुन्दरी हृदय महामन्त्र जपे विनियोगः । मूलेन द्विरावृत्त्या कर हृदयन्यासः । ध्यानम् - अरुणकिरणजालैरञ्जिता सावकाशा, विधृतजपवटीकापुस्तकाभीतिहस्ता । इतरकरवराढया फुल्लकल्हारसंस्था निवसतु ह्यदी बाला नित्यकल्याणशीला ॥ लमित्यादि पञ्चपूजा मनुः -आं ह्रीं क्रों ऐं क्लीं सौः ह्रीं श्रीं बालापरमेश्वरि आवेशय आवेशय आं ह्सौं मम हृदये चिरं तिष्ठ तिष्ठ हुं फट् स्वाहा । इति जपेत् । बालाया हृदयेनैव त्रिकालं सप्तमन्त्रितम् । पयः पिबति या वन्ध्या सा च पुत्रवती भवेत् ॥ नित्यमष्टोत्तरशतं बालाया हृदयं जपन् । चिन्तितं च लभेद्देवि ! नात्र कार्या विचारणा ॥ इति श्रीबालाहृदयं सम्पूर्णम् ।