श्रीबालामहामाला (न्यासा ध्यानमन्यच्च मूलमन्त्रवत्) ॐ नमो भगवति पराशक्ते चण्डि कपालिनि योगिनि अट्टाट्टहासिनि ओड्याणपीठनिवासिनि । एह्येहि पीठे महापीठे श्रीं ह्रीं ऐं सौः सर्वकार्यार्थसाधिनि, योगिनि, योगपीठस्थिते, त्र्यक्षरि (त्रिपदे), त्रिकोणनिवासिनि, वेतालापस्मारयक्षराक्षसभूतप्रेतपिशाचोपद्रवनिवारिणि । ऐं एह्येहि पुत्रमित्रकलत्रबान्धवभ्रातृपरिजनसहितस्य मम वज्रशरीरं कुरु कुरु । स्वकुलस्थितं राजकुलस्थितं सुषुप्तिस्थितं जाग्रत्स्थितं दिक्षुस्थितं गृहस्थितं बाह्यस्थितं अन्तःस्थितं मां गृहपरिवारान् रक्ष रक्ष । सर्वशङ्का विनाशय विनाशय । एकाक्षरि व्द्यक्षरि त्र्यक्षरि पञ्चाक्षरि, कालमृत्युं निवारय निवारय, बन्धय बन्धय, स्रावय स्रावय, ग्रासय ग्रासय । ओड्याणपीठप्रसादिनि, जालन्धरपीठप्रसादिनि, कामगिरिपीठप्रसादिनि, देवि त्वत्प्रसादं कुरु कुरु । एकाहिक द्व्याहिक त्र्याहिक चातुर्थिकादि सर्वज्वरान् नाशय नाशय । सर्वं भर्त्सय भर्त्सय । विषज्वरं नाशय नाशय ऐं एह्येहि इन्द्रवज्रेण यमदण्डेन गरुडपक्षवातेन महाकालीस्वरूपिणि सर्वानर्थानापदो विद्रावय विद्रावय । निर्भयं कुरु कुरु, मां रक्ष रक्ष । ममाभयं कुरु कुरु । सर्वविद्यावाग्धोरणीं कुरु कुरु । ऐं क्लीं सौः क्लीं ऐं मम सर्वजनवशं कुरु कुरु । मम दुरितान् हुं फट् स्वाहा । इति श्रीबालामहामाला समाप्ता ।