श्रीधूमावतीहृदयम् श्रीगणेशाय नमः ॥ श्रीउमामहेश्वराभ्यां नमः ॥ श्रीधूमावत्यै नमः ॥ ॐ अस्य श्रीधूमावतीहृदयस्तोत्रमन्त्रस्य पिप्पलाद ऋषिः । अनुष्टुप्छन्दः । श्रीधूमावती देवता । धूं बीजम् । ह्रीं शक्तिः । क्लीं कीलकम् । सर्वशत्रुसंहरणे पाठे विनियोगः ॥ अथ हृदयादि षडङ्गन्यासः । ॐ धां हृदयाय नमः । ॐ धीं शिरसे स्वाहा । ॐ धूं शिखायै वषट् । ॐ धैं कवचाय हुम् । ॐ धौं नेत्रत्रयाय वौषट् । ॐ धः अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः ॥ अथ करन्यासः । ॐ धां अङ्गुष्ठाभ्यां नमः । ॐ धीं तर्जनीभ्यां नमः । ॐ धूं मध्यमाभ्यां नमः । ॐ धैं अनामिकाभ्यां नमः । ॐ धौं कनिष्ठिकाभ्यां नमः । ॐ धः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ अथ ध्यानम् । ॐ धूम्राभां धूम्रवस्त्रां प्रकटितदशनां मुक्तवालाम्बराढ्यां काकाङ्कस्यन्दनस्थां धवलकरयुगां शूर्पहस्तातिरूक्षाम् । नित्यं क्षुत्क्षान्तदेहां मुहुरतिकुटिलां वारिवाञ्छाविचित्रां ध्यायेद्धूमावतीं वामनयनयुगलां भीतिदां भीषणास्याम् ॥ १॥ इति ध्यानम् । कल्पादौ या कालिकाद्याऽचीकलन्मधुकैटभौ । कल्पान्ते त्रिजगत्सर्वं धूमावतीं भजामि ताम् ॥ २॥ गुणागाराऽगम्यगुणा या गुणा गुणवर्द्धिनी । गीतावेदार्थतत्त्वज्ञैर्धूमावतीं भजामि ताम् ॥ ३॥ खट्वाङ्गधारिणी खर्वा खण्डिनी खलरक्षसाम् । धारिणी खेटकस्यापि धूमावतीं भजामि ताम् ॥ ४॥ घूर्णा घूर्णकरा घोरा घूर्णिताक्षी घनस्वना । घातिनी घातकानां या धूमावतीं भजामि ताम् ॥ ५॥ चर्वन्तीमस्थिखण्डानां चण्डमुण्डविदारिणीम् । चण्डाट्टहासिनीं देवीं भजे धूमावतीमहम् ॥ ६॥ छिन्नग्रीवां क्षताच्छन्नां छिन्नमस्तास्वरूपिणीम् । छेदिनीं दुष्टसङ्घानां भजे धूमावतीमहम् ॥ ७॥ जाता या याचिता देवैरसुरणां विघातिनी । जल्पन्ती बहु गर्जन्ती भजे तां धूम्ररूपिणीम् ॥ ८॥ झङ्कारकारिणीं झञ्झां झञ्झमाझमवादिनीम् । झटित्याकर्षिणीं देवीं भजे धूमावतीमहम् ॥ ९॥ टीपटङ्कारसंयुक्तां धनुष्टङ्कारकारिणीम् । घोरां घनघटाटोपां वन्दे धूमावतीमहम् ॥ १०॥ ठं ठं ठं ठं मनुप्रीतिं ठः ठः मन्त्रस्वरूपिणीम् । ठमकाह्वगतिप्रीतां भजे धूमावतीमहम् ॥ ११॥ डमरूडिण्डिमारावां डाकिनीगणमण्डिताम् । डाकिनीभोगसन्तुष्टां भजे धूमावतीमहम् ॥ १२॥ ढक्कानादेन सन्तुष्टां ढक्कावादकसिद्धिदाम् । ढक्कावादचलच्चित्तां भजे धूमावतीमहम् ॥ १३॥ तत्त्ववार्त्ताप्रियप्राणां भवपाथोधितारिणीम् । तारस्वरूपिणीं तारां भजे धूमावतीमहम् ॥ १४॥ थां थीं थूं थें मन्त्ररूपां थैं थौं थं थः स्वरूपिणीम् । थकारवर्णसर्वस्वां भजे धूमावतीमहम् ॥ १५॥ दूर्गास्वरूपिणीं देवीं दुष्टदानवदारिणीम् । देवदैत्यकृतध्वंसां वन्दे धूमावतीमहम् ॥ १६॥ ध्वान्ताकारान्धकध्वंसां मुक्तधम्मिल्लधारिणीम् । धूमधाराप्रभां धीरां भजे धूमावतीमहम् ॥ १७॥ नर्त्तकीनटनप्रीतां नाट्यकर्मविवर्द्धिनीम् । नारसिंहीन्नराराध्यां नौमि धूमावतीमहम् ॥ १८॥ पार्वतीपतिसम्पूज्यां पर्वतोपरिवासिनीम् । पद्मारूपां पद्मपूज्यां नौमि धूमावतीमहम् ॥ १९॥ फूत्कारसहितश्वासां फट् मन्त्रफलदायिनीम् । फेत्कारिगणसंसेव्यां सेवे धूमावतीमहम् ॥ २०॥ बलिपूज्यां बलाराध्यां बगलारूपिणीं वराम् । ब्रह्मादिवन्दितां विद्यां वन्दे धूमावतीमहम् ॥ २१॥ भव्यरूपां भवाराध्यां भुवनेशीस्वरूपिणीम् । भक्तभव्यप्रदान्देवीं भजे धूमावतीमहम् ॥ २२॥ मायां मधुमतीं मान्यां मकरध्वजमानिताम् । मत्स्यमांसमदास्वादां मन्ये धूमावतीमहम् ॥ २३॥ योगयज्ञप्रसन्नास्यां योगिनीपरिसेविताम् । यशोदां यज्ञफलदां यजे धूमावतीमहम् ॥ २४॥ रामाराध्यपदद्वन्द्वां रावणध्वंसकारिणीम् । रमेशरमणीं पूज्यामहं धूमावतीं श्रये ॥ २५॥ लक्षलीलाकलालक्ष्यां लोकवन्द्यपदाम्बुजाम् । लम्बितां बीजकोशाढ्यां वन्दे धूमावतीमहम् ॥ २६॥ बकपूज्यपदाम्भोजां बकध्यानपरायणाम् । बालां बकारिसन्ध्येयां वन्दे धूमावतीमहम् ॥ २७॥ शाङ्करीं शङ्करप्राणां सङ्कटध्वंसकारिणीम् । शत्रुसंहारिणीं शुद्धां श्रये धूमावतीमहम् ॥ २८॥ षडाननारिसंहन्त्रीं षोडशीरूपधारिणीम् । षड्रसास्वादिनीं सौम्यां सेवे धूमावतीमहम् ॥ २९॥ सुरसेवितपादाब्जां सुरसौख्यप्रदायिनीम् । सुन्दरीगणसंसेव्यां सेवे धूमावतीमहम् ॥ ३०॥ हेरम्बजननीं योग्यां हास्यलास्यविहारिणीम् । हारिणीं शत्रुसङ्घानां सेवे धूमावतीमहम् ॥ ३१॥ क्षीरोदतीरसंवासां क्षीरपानप्रहर्षिताम् । क्षणदेशेज्यपादाब्जां सेवे धूमावतीमहम् ॥ ३२॥ चतुस्त्रिंशद्वर्णकानां प्रतिवर्णादिनामभिः । कृतं तु हृदयस्तोत्रं धूमावत्यां सुसिद्धिदम् ॥ ३३॥ य इदं पठति स्तोत्रं पवित्रं पापनाशनम् । स प्राप्नोति परां सिद्धिं धूमावत्याः प्रसादतः ॥ ३४॥ पठन्नेकाग्रचित्तो यो यद्यदिच्छति मानवः । तत्सर्वं समवाप्नोति सत्यं सत्यं वदाम्यहम् ॥ ३५॥ इति धूमावतीहृदयं समाप्तम् ॥