श्रीदक्षिणकालिकायाः त्रैलोक्यमोहनकवचम् श्रीगणेशाय नमः । श्रीदेव्युवाच । देवदेव! महादेव! संसारप्रीतिकारक । सर्वविद्येश्वरी-विद्याकवचं कथयध्रुवम् ॥ १॥ (कथयाद्भुताम्) श्रीशिव उवाच । शृणु देवि महाविद्यां सर्वविद्योत्तमोत्तमाम् । सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥ २॥ यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरः । बभूव कमलानाथो विष्णुर्ब्रह्मा प्रजापतिः ॥ ३॥ (विभुर्ब्रह्मा) शचीस्वामी देवनाथो यमोऽपि धर्मनायकः । (यमनायकः) त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥ ४॥ दिनस्वामी रविश्चन्द्रो निशापतिर्ग्रहेश्वरः । जलाधिपश्च वरुणो कुबेरोऽपि धनेश्वरः ॥ ५॥ अव्याहतगतिर्वायुर्गजास्यो विघ्ननाशकः । (विघ्ननायकः) वागीश्वरः सुराचार्यो दैत्याचार्यो गुरुः कविः ॥ ६॥ (महाकविः) एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये । तस्यास्तु कवचं दिव्यं मन्त्ररूपं विभावय ॥ ७॥ ॐ अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः, अनुष्टुप् छन्दः, श्मशानकाली देवता, धर्मार्थकाममोक्षार्थे जपे विनियोगः । (ऋष्यादि न्यासः । श्रीमहाकालभैरवाय नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीदक्षिकालिकादेवतायै नमः हृदि । धर्मार्थकाममोक्षार्थे पाठे विनियोगाय नमः अञ्जलौ ।) ललाटं पातु च क्रीं मे हरेणाराधिता सदा । नेत्रे मे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥ ८॥ क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा । क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥ ९॥ क्रीं स्वाहा श्रवणं पातु यमेनैव प्रपूजिता । क्रीं हूँ ह्रीं स्वाहा रसनां गङ्गया सेविताऽवतु ॥ १०॥ दन्तपङ्क्तिं सदा पातु ॐ क्रीं हूँ ह्रीं स्वाहा मम । भुक्तिमुक्तिप्रदा काली श्रिया नित्यं सुसेविता ॥ ११॥ ओष्ठाधरं सदा पातु क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं मम सूर्येणाराधिता विद्या सर्वसिद्धि-प्रदायिका ॥ १२॥ कण्ठं पातु महाकाली ॐ क्रीं ह्रीं में स्वाहा मम । चन्द्रेणाराधिता विद्या चतुर्वर्गफलप्रदा ॥ १३॥ हस्तयुग्मं सदा पातु क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं स्वाहा । सौख्यदा मोक्षदा काली वरुणेनैव सेविता ॥ १४॥ ॐ क्रीं क्रीं हूँ ह्रीं फट् स्वाहा, हृदयं पातु सर्वदा । सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥ १५॥ ऐं ह्रीं ॐ ऐं हूँ फट् स्वाहा स्तनद्वन्द्वं सदावतु । वायुनोपासिता काली यशोबल-सुखप्रदा ॥ १६॥ क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् च सा पातु जठरं मम । सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥ १७॥ क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममाऽवतु । सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥ १८॥ लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं ह्रीं । शुक्रेणाराधिता काली त्रैलोक्य-जयदायिनी ॥ १९॥ पात्वण्ड-कोशं फट् क्रीं क्रीं ,दक्षिणे कालिके स्वाहा । धरया सेविता विद्या सर्वरत्न-प्रदायिनी ॥ २०॥ पातु गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा । द्वादशी च महाविद्या राघवेणार्चिता सदा ॥ २१॥ जानुनी पातु ॐ क्रीं क्रीं दक्षिणे कालिके स्वाहा । एकादशी महाविद्या मेघनादेन सेविता ॥ २२॥ क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेऽवतु द्वादशी च महाविद्या प्रह्लादेन च सेविता ॥ २३॥ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहाऽवतु । चतुर्दशी पादयुग्मं गुरुदेवेन सेविता ॥ २४॥ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाऽङ्गुलीः । पातु मे द्वादशी काली क्षेत्रपालेन सेविता ॥ २५॥ ॐ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा च । नखान्सर्वान्सदा पातु पञ्चदशी ग्रहेश्वरी ॥ २६॥ क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं । मम पृष्ठे सदा पातु षोडशी परमेश्वरी ॥ २७॥ क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि । मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणकालिका ॥ २८॥ क्रीं क्रीं क्रीं पातु मे चास्थि मज्जां हूँ हूँ सदाऽवतु । ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममाऽवतु ॥ २९॥ द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा । महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥ ३०॥ सूर्यवंशेन सोमेन रामेण जमदग्निना । जयन्तेन सुनन्देन बलिना नारदेन च ॥ ३१॥ विभीषणेन बाणेन भृगुणा कश्यपेन च । कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥ ३२॥ मार्कण्डयेन ध्रुवेणैव द्रोणेन सत्यभामया । ऋष्यशृङ्गेन कर्णेन भारद्वाजेन संयुता ॥ ३३॥ सर्वैराराधिता विद्या जरामृत्यु-विनाशिनी । पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥ ३४॥ काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी । विप्रचित्ता तथोग्रोग्र-प्रभा दीप्ता घनत्विषा ॥ ३५॥ नीला घना बलाका च मात्रा मुद्रा मिताऽपि च । एताः सर्वा खड्गधरा मुण्डमाला-विभूषणा ॥ ३६॥ हूँ हूँकाराट्टहासेन सर्वत्र पातु मां सदा । ब्रह्माणी पातु मां पूर्वे चाग्नेय्यां वैष्णवी तथा ॥ ३७॥ माहेश्वरी पातु याम्ये चामुण्डा नैरृते सदा । कौमारी वारुणे पातु वायव्ये चाऽपराजिता ॥ ३८॥ वाराही चोत्तरे पातु चेशान्यां नारसिंहिका । अध ऊर्ध्वे पातु काली पार्श्वे पृष्ठे च कालिका ॥ ३९॥ जले स्थले च पाताले शयने भोजने गृहे राजस्थाने कानने च विवादे मरणे रणे ॥ ४०॥ पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा । शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥ ४१॥ यत्र यत्र भयप्राप्तिः सर्वत्र पातु कालिका । नक्षत्रतिथिवारेषु योग-करणयोरपि ॥ ४२॥ मासे पक्षे वत्सरे च दण्डे यामे निमेषके । दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥ ४३॥ सर्वत्र कालिका पातु कालिका पातु सर्वदा । सकृद्यः शृणुयान्नित्यं कवचं शिवनिर्मितम् ॥ ४४॥ सर्वपापं परित्यज्य गच्छेच्छिवस्य चालयम् । त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥ ४५॥ यः पठेत्साधकाधीशः सर्वकर्म-जयान्वितः । सर्वधर्मे भवेद्धर्मी सर्वविद्येश्वरेश्वरः ॥ ४६॥ कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः । कवित्वे व्याससदृशो गणेशवच्छ्रुतिधरः ॥ ४७॥ कामदेवसमो रूपे वायुतुल्यः पराक्रमे । महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥ ४८॥ बृहस्पतिसमो धीमान् जरामृत्यु-विवर्जितः । सर्वज्ञः सर्वदर्शी च निष्पापः सकलप्रियः ॥ ४९॥ अव्याहतगतिः शान्तो भार्यापुत्र-समन्वितः । यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥ ५०॥ न शोको न भयं क्लेशो न रोगो न पराजयः । धनहानिर्विषादोऽपि परव्याधिर्भवेन्नहि ॥ ५१॥ सङ्ग्रामेषु जयेच्छत्रून् यथा वह्निर्दहेद्वनम् । ब्रह्मास्त्रास्त्रान्य-शस्त्राणि पशवः कण्टकादयः ॥ ५२॥ तस्य देहं न भिनत्ति वज्राधिकं भवेद्वपुः । ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥ ५३॥ सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् । तद्देहं न दहेदग्निर्न तापयति भास्करः ॥ ५४॥ न शोषयति वातोऽपि न क्लेदं कुरुते पयः । पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥ ५५॥ जल-सूर्येन्दु-वातानां स्तम्भके नात्र संशयः । बहु किं कथयिष्यामि सर्वसिद्धिमुपालभेत् ॥ ५६॥ राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् । मोहन-स्तम्भनाकर्ष-मारणोच्चाटनं भवेत् ॥ ५७॥ काकवन्ध्या च या नारी वन्ध्या वा मृतपुत्रिका । कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥ ५८॥ तदा पुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः । स्वामिनो वल्लभा सापि धनधान्य-सुतान्विता ॥ ५९॥ इदं कवचमज्ञात्वा यो जपेत्कालिकामनुम् । ध्यानेन कोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥ ६०॥ पदे पदे भवेद्दुखं लोकानां निन्दितो ध्रुवम् । इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥ ६१॥ गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् । तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥ ६२॥ य इदं कवचं दिव्यं प्रकाश्य सिद्धिहा भवेत् । भक्ताय श्रेष्ठपुत्राय साधकाय प्रकाशयेत् ॥ ६३॥ ॥ इति श्रीरुद्रयामले देवीशङ्कर संवादे त्रैलोक्यमोहनं नाम कवचं अथवा दक्षिणाकालिकाकवचं सम्पूर्णम् ॥