।।श्रीमद्भगवद्गीता सप्तदशोऽध्यायः ।। ॥ अथ सप्तदशोऽध्यायः ॥ (श्रद्धात्रयविभागयोगः) अर्जुन उवाच: श्लोक 1 ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः । तेषाम् निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः ॥ श्रीभगवानुवाच: श्लोक 2 त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभावजा । सात्त्विकी राजसी च एव तामसी च इति ताम् शृणु ॥ श्लोक 3 सत्त्व-अनुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धा-मयः अयम् पुरुषः यः यत् श्रद्धः सः एव सः ॥ श्लोक 4 यजन्ते सात्त्विकाः देवान् यक्ष-रक्षांसि राजसाः । प्रेतान् भूत-गणान् च अन्ये यजन्ते तामसाः जनाः ॥ श्लोक 5 अशास्त्र-विहितम् घोरम् तप्यन्ते ये तपः जनाः । दम्भ-अहंकार-संयुक्ताः काम-राग-बल-अन्विताः ॥ श्लोक 6 कर्षयन्तः शरीर-स्थम् भूत-ग्रामम् अचेतसः । माम् च एव अन्तः-शरीर-स्थम् तान् विद्धि आसुर-निश्चयान् ॥ श्लोक 7 आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः । यज्ञः तपः तथा दानम् तेषाम् भेदम् इमम् शृणु ॥ श्लोक 8 आयुः-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक-प्रियाः ॥ श्लोक 9 कटु-अम्ल-लवण-अत्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । आहाराः राजसस्य इष्टाः दुःख-शोक-आमय-प्रदाः ॥ श्लोक 10 यात-यामम् गत-रसम् पूति पर्युषितम् च यत् । उच्छिष्टम् अपि च अमेध्यम् भोजनम् तामस-प्रियम् ॥ श्लोक 11 अफल-आकांक्षिभिः यज्ञः विधि-दृष्टः यः इज्यते । यष्टव्यम् एव इति मनः समाधाय सः सात्त्विकः ॥ श्लोक 12 अभिसंधाय तु फलम् दम्भ-अर्थम् अपि च एव यत् । इज्यते भरत-श्रेष्ठ तम् यज्ञम् विद्धि राजसम् ॥ श्लोक 13 विधि-हीनम् असृष्ट-अन्नम् मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितम् यज्ञम् तामसम् परिचक्षते ॥ श्लोक 14 देव-द्विज-गुरु-प्राज्ञ-पूजनम् शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च शारीरम् तपः उच्यते ॥ श्लोक 15 अनुद्वेग-करम् वाक्यम् सत्यम् प्रिय-हितम् च यत् । स्वाध्याय-अभ्यसनम् च एव वाङ्मयम् तपः उच्यते ॥ श्लोक 16 मनः-प्रसादः सौम्यत्वम् मौनम् आत्म-विनिग्रहः । भाव-संशुद्धिः इति एतत् तपः मानसम् उच्यते ॥ श्लोक 17 श्रद्धया परया तप्तम् तपः तत् त्रिविधम् नरैः । अफल-आकांक्षिभिः युक्तैः सात्त्विकम् परिचक्षते ॥ श्लोक 18 सत्कार-मान-पूजा-अर्थम् तपः दम्भेन च एव यत् । क्रियते तत् इह प्रोक्तम् राजसम् चलम् अध्रुवम् ॥ श्लोक 19 मूढ-ग्राहेण आत्मनः यत् पीडया क्रियते तपः । परस्य उत्सादन-अर्थम् वा तत् तामसम् उदाहृतम् ॥ श्लोक 20 दातव्यम् इति यत् दानम् दीयते अनुपकारिणे । देशे काले च पात्रे च तत् दानम् सात्त्विकम् स्मृतम् ॥ श्लोक 21 यत् तु प्रत्युपकार-अर्थम् फलम् उद्दिश्य वा पुनः । दीयते च परिक्लिष्टम् तत् दानम् राजसम् स्मृतम् ॥ श्लोक 22 अदेश-काले यत् दानम् अपात्रेभ्यः च दीयते । असत्कृतम् अवज्ञातम् तत् तामसम् उदाहृतम् ॥ श्लोक 23 ॐ तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः । ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा ॥ श्लोक 24 तस्मात् ॐ इति उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधान-उक्ताः सततम् ब्रह्म-वादिनाम् ॥ श्लोक 25 तत् इति अनभिसंधाय फलम् यज्ञ-तपः-क्रियाः । दान-क्रियाः च विविधाः क्रियन्ते मोक्ष-कांक्षिभिः ॥ श्लोक 26 सद्भावे साधु-भावे च सत् इति एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सत्-शब्दः पार्थ युज्यते ॥ श्लोक 27 यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । कर्म च एव तत्-अर्थीयम् सत् इति एव अभिधीयते ॥ श्लोक 28 अश्रद्धया हुतम् दत्तम् तपः तप्तम् कृतम् च यत् । असत् इति उच्यते पार्थ न च तत् प्रेत्य न इह ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥17 ॥