श्रीमहात्रिपुरसुन्दरीहृदयम् वन्दे सिन्दूरवर्णाभं वामोरुन्यस्तवल्लभम् । इक्षुवारिधिमध्यस्थमिभराजमुखं महः ॥ १॥ गम्भीरलहरीजालगण्डूषितदिगन्तरः । अव्यान्माममृताम्भोधिरनर्घमणिसंयुतः ॥ २॥ मध्ये तस्य मनोहारि मधुपारवमेदुरम् । प्रसूनविगलन्माध्वीप्रवाहपरिपूरितम् ॥ ३॥ किन्नरीगानमेदस्वि क्रीडाकन्दरदन्तुरम् । काञ्चनद्रुमधूलीभिः कल्पितावालवद्द्रुमम् ॥ ४॥ मुग्धकोकिलनिक्काणमुखरीकृतदिङ्मुखम् । मन्दारतरुसन्तानमञ्जरीपुञ्जपिञ्जरम् ॥ ५॥ नासानाडिन्धमस्मेरनमेरुसुमसौरभम् । आवृन्तहसिताम्भोजदीव्यद्विभ्रमदीर्घिकम् ॥ ६॥ मन्दरक्तशुकीदष्टमातुलुङ्गफलान्वितम् । सविधस्यन्दमानाभ्रसरित्कल्लोलवेल्लितम् ॥ ७॥ प्रसूनपांसुसौरभ्यपश्यतोहरमारुतम् । वकुलप्रसवाकीर्णं वन्दे नन्दनकाननम् ॥ ८॥ तन्मध्ये नीपकान्तारं तरणिस्तम्भकारणम् । मधुपालिविमर्दालिकलक्वाणकरम्बितम् ॥ ९॥ कोमलश्वशनाधूतकोरकोद्गतधूलिभिः । सिन्दूरितनभोमार्गं चिन्तितं सिद्धवन्दिभिः ॥ १०॥ मध्ये तस्य मरुन्मार्गलम्बिमाणिक्यतोरणम् । शाणोल्लिखितवैदूर्यक्लृप्तसालसमाकुलम् ॥ ११॥ माणिक्यस्तम्भपटलीमयूखव्याप्तदिक्तटम् । पञ्चविंशतिसालाढ्यां नमामि नगरोत्तमम् ॥ १२॥ तत्र चिन्तामणिगृहं तडित्कोटिसमुज्ज्वलम् । नीलोत्पलसमाकीर्णनिर्यूहशतसङ्कुलम् ॥ १३॥ सोमकान्तमणिक्लृप्तसोपानोद्भासिवेदिकम् । चन्द्रशालाचरत्केतुसमालीढनभोन्तरम् ॥ १४॥ गारुत्मतमणीक्लृप्तमण्डपव्यूहमण्डितम् । नित्यसेवापरामर्त्यनिबिडद्वारशोभितम् ॥ १५॥ अधिष्ठितं द्वारपालैरसितोमरपाणिभिः । नमामि नाकनारीणां सान्द्रसङ्गीतमेदुरम् ॥ १६॥ तन्मध्ये तरुणार्काभं तप्तकाञ्चननिर्मितम् । शक्रादिमद्द्वारपालैस्सन्ततं परिवेष्टितम् ॥ १७॥ चतुष्षष्टिमहाविद्याकलाभिरभिसंवृतम् । रक्षितं योगिनीवृन्दै रत्नसिंहासनं भजे ॥ १८॥ मध्ये तस्य मरुत्सेव्यं चतुर्द्वारसमुज्ज्वलम् । चतुरस्रत्रिरेखाढ्यां चारुत्रिवलयान्वितम् ॥ १९॥ कलादलसमायुक्तं कनदष्टदलान्वितम् । चतुर्दशारसहितं दशारद्वितयान्वितम् ॥ २०॥ अष्टकोणयुतं दिव्यमग्निकोणविराजितम् । योगिभिः पूजितं योगियोगिनीगणसेवितम् ॥ २१॥ सर्वदुःखप्रशमनं सर्वव्याधिविनाशनम् । विषज्वरहरं पुण्यं विविधापद्विदारणम् ॥ २२॥ सर्वदारिद्र्यशमनं सर्वभूपालमोहनम् । आशाभिपूरकं दिव्यमर्चकानामहर्निशम् ॥ २३॥ अष्टादशसुमर्माढ्यं चतुर्विंशतिसन्धिनम् । श्रीमद्विन्दुगृहोपेतं श्रीचक्रं प्रणमाम्यहम् ॥ २४॥ तत्रैव बैन्दवस्थाने तरुणादित्यसन्निभम् । पाशाङ्कुशधनुर्बाणपरिष्कृतकराम्बुजम् ॥ २५॥ पूर्णेन्दुबिम्बवदनं फुल्लपङ्कजलोचनम् । कुसुमायुधशृङ्गारकोदण्डकुटिलभ्रुवम् ॥ २६॥ चारुचन्द्रकलोपेतं चन्दनागुरुरूषितम् । मन्दस्मितमधूकालिकिञ्जल्कितमुखाम्बुजम् ॥ २७॥ पाटीरतिलकोद्भासिफालस्थलमनोहरम् । अनेककोटिकन्दर्पलावण्यमरुणाधरम् ॥ २८॥ तपनीयांशुकधरं तारुण्यश्रीनिषेवितम् । कामेश्वरमहं वन्दे कामितार्थप्रदं नृणाम् ॥ २९॥ तस्याङ्कमध्यमासीनां तप्तहाटकसन्निभाम् । माणिक्यमुकुटच्छायामण्डलारुणदिङ्मुखाम् ॥ ३०॥ कलवेणीकनत्फुल्लकह्लारकुसुमोज्ज्वलाम् । उडुराजकृतोत्तंसामुत्पलश्यामलालकाम् ॥ ३१॥ चतुर्थीचन्द्रसच्छात्रफालरेखापरिष्कृताम् । कस्तूरीतिलकारूढकमनीयललन्तिकाम् ॥ ३२॥ भ्रुलताश्रीपराभूतपुष्पायुधशरासनाम् । नालीकदलदायादनयनत्रयशोभिताम् ॥ ३३॥ करुणारसम्पूर्णकटाक्षहसितोज्ज्वलाम् । भव्यमुक्तामणिचारुनासामौक्तिकवेष्टिताम् ॥ ३४॥ कपोलयुगलीनृत्यकर्णताटङ्कशोभिताम् । माणिक्यवालीयुगलीमयूखारुणदिङ्मुखाम् ॥ ३५॥ परिपक्वसुबिम्बाभापाटलाधरपल्लवाम् । मञ्जुलाधरपर्वस्थमन्दस्मितमनोहराम् ॥ ३६॥ द्विखण्डद्विजराजाभगण्डद्वितयमण्डिताम् । दरफुल्ललसद्गण्डधवलापूरिताननाम् ॥ ३७॥ पचेलिमेन्दुसुषमापाटच्चरमुखप्रभाम् । कन्धराकान्तिहसितकम्बुबिम्बोकडम्बराम् ॥ ३८॥ कस्तूरीकर्दमाश्यामकन्धरामूलकन्दराम् । वामांसशिखरोपान्तव्यालम्बिघनवेणिकाम् ॥ ३९॥ मृणालकाण्डदायादमृदुबाहुचतुष्टयाम् । मणिकेयूरयुगलीमयूखारुणविग्रहाम् ॥ ४०॥ करमूललसद्रत्नकङ्कणक्वाणपेशलाम् । करकान्तिसमाधूतकल्पानोकहपल्लवाम् ॥ ४१॥ पद्मरागोर्मिकाश्रेणिभासुराङ्गुलिपालिकाम् । पुण्ड्रकोदण्डपुष्पास्त्रपाशाङ्कुशलसत्कराम् ॥ ४२॥ तप्तकाञ्चनकुम्भाभस्तनमण्डलमण्डिताम् । घनस्तनतटीक्लृप्तकाश्मीरक्षोदपाटलाम् ॥ ४३॥ कूलङ्कषकुचस्फारतारहारविराजिताम् । चारुकौसुम्भकूर्पासच्छन्नवक्षोजमण्डलाम् ॥ ४४॥ नवनीलघनश्यामरोमराजिविराजिताम् । लावण्यसागरावर्तनिभनाभिविभूषिताम् ॥ ४५॥ डिम्भमुष्टितलग्राह्यमध्ययष्टिमनोहराम् । नितम्बमण्डलाभोगनिक्वणन्मणिमेखलाम् ॥ ४६॥ सन्ध्यारुणक्षौमपटीसञ्छन्नजघनस्थलाम् । घनोरुकान्तिहसितकदलीकाण्डविभ्रमाम् ॥ ४७॥ जानुसम्पुटकद्वन्द्वजितमाणिक्यदर्पणाम् । जङ्घायुगलसौन्दर्यविजितानङ्गकाहलाम् ॥ ४८॥ प्रपदच्छायसन्तानजितप्राचीनकच्छपाम् । नीरजासनकोटीरनिघृष्टचरणाम्बुजाम् ॥ ४९॥ पादशोभापराभूतपाकारितरुपल्लवाम् । चरणाम्भोजशिञ्जनमणिमञ्जीरमञ्जुलाम् ॥ ५०॥ विबुधेन्द्रवधूत्सङ्गविन्यस्तपदपल्लवाम् । पार्श्वस्थभारतीलक्ष्मीपाणिचामरवीजिताम् ॥ ५१॥ पुरतो नाकनारीणां पश्यन्तीं नृत्तमद्भुतम् । भ्रूलताञ्चलसम्भूतपुष्पायुधपरम्पराम् ॥ ५२॥ प्रत्यग्रयौवनोन्मत्तपरिफुल्लविलोचनाम् । ताम्रोष्ठीं तरलापाङ्गीं सुनासां सुन्दरस्मिताम् ॥ ५३॥ चतुरर्थध्रुवोदारां चाम्पेयोद्गन्धिकुन्तलाम् । मधुस्नपितमृद्वीकमधुरालापपेशलाम् ॥ ५४॥ शिवां षोडशवार्षीकां शिवाङ्कतलवासिनीम् । चिन्मयीं हृदयम्भोजे चिन्तयेज्जापकोत्तमः ॥ ५५॥ फलश्रुतिः । इति त्रिपुरसुन्दर्या हृदयं सर्वकामदम् । सर्वदारिद्र्यशमनं सर्वसम्पत्प्रदं नृणाम् ॥ ५६॥