श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम् । वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥ १॥ शैलाधिराजतनयां शङ्करप्रियवल्लभाम् । तरुणेन्दुनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ २॥ सर्वभूतमनोरम्यां सर्वभूतेषु संस्थिताम् । सर्वसम्पत्करीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ३॥ पद्मालयां पद्महस्तां पद्मसम्भवसेविताम् । पद्मरागनिभां वन्दे देवी त्रिपुरसुन्दरीम् ॥ ४॥ पञ्चबाणधनुर्बाणपाशाङ्कुशधरां शुभाम् । पञ्चब्रह्ममयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ५॥ षट्पुण्डरीकनिलयां षडाननसुतामिमाम् । षट्कोणान्तःस्थितां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ६॥ हरार्धभागनिलयामम्बामद्रिसुतां मृडाम् । हरिप्रियानुजां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ७॥ अष्टैश्वर्यप्रदामम्बामष्टदिक्पालसेविताम् । अष्टमूर्तिमयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ८॥ नवमाणिक्यमकुटां नवनाथसुपूजिताम् । नवयौवनशोभाढ्यां वन्दे त्रिपुरसुन्दरीम् ॥ ९॥ काञ्चीवासमनोरम्यां काञ्चीदामविभूषिताम् । काञ्चीपुरीश्वरीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ १०॥ इति श्रीत्रिपुरसुन्दरीस्तोत्रं सम्पूर्णम् ।